संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| प्रथमोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - प्रथमोऽध्याय: विश्वक्सेना संहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम प्रथमोऽध्याय: Translation - भाषांतर विष्वक्सेन:---अथात: संप्रवक्ष्यामि भूपरीक्षाविधिं परम् ।कर्षयेच्छोधयेद्भूमिं प्रागुदक्प्रवणां शुभाम् ॥१॥अस्थिकेशादिरहितां कपालाङ्गरवर्जिताम् ।सरीसृपाद्या व्याघ्राद्या ये चान्ये दुष्टजन्तव: ॥२॥यस्यां भूमौ प्रदृश्यन्ते तां भूमिं वर्जयेत् सदा ।आरम्भे श्वश्रृगालैश्च संकीर्णा बन्धुनाशिनी ॥३॥पुरीषभूमि:सर्वेषां कर्तृर्दु:खप्रदा सदा ।तुषभस्मास्थिकेशैश्च काष्ठलोष्टकपालकै: ॥४॥क्रिमिकीटपतङ्गैश्च शर्करैश्च समन्विता ।अशुभाश्रीकरी भूमि: तस्माद्यत्नात् परीक्षयेत् ॥५॥एवं दुर्लक्षणैश्चान्यैर्युक्तां यत्नेन वर्जयेत् ।ब्राह्मणस्य सिता भूमि: रक्ता वै क्षत्रियस्य तु ॥६॥पीतवर्णा तु वैश्यस्य कृष्णा शूद्रस्य कीर्तिता ।ब्राह्मणी घृतगन्धा स्यात् क्षत्रिया रक्तगन्धिनी ॥७॥मूत्रगन्धा तु या वेश्या शूद्रा विष्ठानुगन्धिनी ।मधुरा ब्राह्मणी प्रोक्ता कषाया क्षत्रिया स्मृता ॥८॥रि(ति?)क्ता वैश्या तु कटुका शूद्रा चेति प्रकीर्तिता ।एवं परीक्ष्य यत्नेन वर्णगन्धरसादिभि: ॥९॥खातयेद्रत्निमात्रं तु पांसुमुद्धृत्य पूरयेत् ।पांसुरप्यधिको यत्र सा भूमि: सर्वकामदा ॥१०॥उत्तमा यत्र वै पांसु: समो ह्यर्धफलप्रदा ।मध्या पांसुर्यत्र नृन सारिष्टा फलदाधमा ॥११॥तृ(उ?)प्तानि सर्वबीजानि प्ररोहन्ति हि यत्र वै ।त्रिरात्राभ्यन्तरेणैव सा भूमिश्चोत्तमा मता ॥१२॥मध्यमा पञ्चरात्रेण अधमा सप्तरात्रिका ।यस्यां तु न प्ररोहन्ति तां प्रयत्नेन वर्जयेत् ॥१३॥सस्यानां फलकाले तु गवां तृप्तिं च कारयेत् ।ततस्तु लोकपालांस्तु पूजयेत् साधकोत्तम: ॥१४॥अन्नैरपूपैर्लाजैस्तु मध्यरात्रे शचीपते ।एवं बलिं प्रकुर्वीत पृथग्वा समयोगत: ॥१५॥तत्क्षेत्रं खातयेत्पश्चात् चतुरश्रं समन्तत: ।पुरुषद्वयं खनित्वा तु तदर्धं वापि खातयेत् ॥१६॥पुरुषार्धप्रमाणं वा खड्गमानप्रमाणत: ।एवं क्षितिं खनित्वा तु तन्मध्ये से च(पूर?)येज्जलम् ॥१७॥तन्मध्ये तु विधिं पूज्य ब्रह्मबीजेन मन्त्रवित् ।गन्धपुष्पैरलंकृत्य घण्टाशब्दसमन्वितम् ॥१८॥शङ्खादिघोषसंयुक्तं वीणावेणुसमन्वितम् ।एवं विधिं समभ्यर्च्य अधिवासनमारभेत् ॥१९॥तस्य दक्षिणपार्श्वे तु पश्चिमे चोत्तरेऽपि वा ।वस्वादीनां तु तन्मध्ये मण्डपं कल्प्य साधक: ॥२०॥पूर्णकुम्भं न्यसेन्मध्ये पक्वबिम्बफलाकृतिम् ।द्रोणद्वयेन संपूर्णं त्रिसूत्रै:समलंकृतम् ॥२१॥गन्धतोयेन संपूर्य गन्धपुष्पसमन्वितम् ।द्रोणाष्टशालीनास्तीर्य पद्ममष्टदलं लिखत् ॥२२॥कर्णिकायां न्यसेत्कुम्भं वस्त्रयुग्मेन वेष्टितम् ।नवरत्नसमायुक्तं सौवर्णायुधपञ्चयुक् ॥२३॥वासुदेवस्?य मन्त्रेण स्थापयेद्देशिकोत्तम्: ।सर्वायुधसमायुक्तं सर्वदेवावृतं तत: ॥२४॥हिरण्यं सर्वभूतज्ञं सर्वभूतहृदि स्थितम् ।आत्मानमन्तरात्मानं परमात्मानमव्ययम् ॥२५॥नारायणमणीयांसं सृष्टिसंहारविक्रमम् (कारणम्?) ।एवं हि पुरुषं विष्णुं ध्यायेत् कुम्भोदमध्यमे ॥२६॥एवं ध्यात्वा समभ्यर्च्य गन्धाद्यै:सुमनोरमै: ।प्रत्येकं द्रोणशाल्यूर्ध्वे विद्येशान् परितो न्यसेत् ॥२७॥पूर्ववद्द्रव्यसंयुक्तान् घटेष्वभ्यर्च्य साधक: ।स्वै: स्वैर्मन्त्रैश्च गन्धाद्यैरुपचारैर्मनोहरै: ॥२८॥एवं संपूज्य विद्येशान् होमसंस्कार(कर्म स?)मारभेत् ।कुम्भस्य पूर्वदिग्देशे कुण्डं च चतुरश्रकम् ॥२९॥वृत्तं वा शिल्पिना कुर्यात् स्थण्डिले वा समाचरेत् ।प्रासादारम्भकाले तु मध्यरात्रे शचीपते ॥३०॥शङ्खतूर्यादिसंयुक्तं स्वस्तिसूक्तसमन्वितम् ।सर्वविघ्नोपशमनं पालाशं गृह्य देशिक: ॥३१॥अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा ।नारसिंहेन मन्त्रेण मध्यमे जुहुयात् सकृत् ॥३२॥ओदुम्बरसमिद्भिर्वा[प्य]ष्टाविंशतिसंख्यया ।प्रत्येकं मूलमन्त्रेण तथैवाज्यं समाचरेत् ॥३३॥चरुं पुरुषसूक्तेन षोडशाहुतिमुत्तमाम् ।जुहुयात् कुण्डमध्ये तु सर्वसंपत्सुखावहम् ॥३४॥एवं कृत्वा विधानेन पूर्णाहुतिमथाचरेत् ।स्रुचा मूलेन मन्त्रज्ञो द्वादशाक्षरसंज्ञया ॥३५॥कुडुबं वा तदर्धं वा तस्यार्धं वा शचीपते ।कपिलाज्यमथाज्यं वा संगृह्य जुहुयात् क्रियाम्(क्रमात्?) ॥३६॥परिधिप्रभृतीन् दग्ध्वा दक्षिणामाददेत्तत: ।दक्षिणान्ते श्?ाचीनाथ शङ्खाद्यैर्घोषयेत् क्रमात् ॥३७॥नृत्तगीतादिसंयुक्तं सुपुण्याहपुर:सरम् ।वेदाध्ययनसंयुक्तमधिवासनमाचरेत् ॥३८॥एवं समाप्य होमान्तं पूर्वरात्रेऽधिवासयेत् ।प्रभातायां तु शर्वर्यां स्नात्वाचार्य: समाहित: ॥३९॥पूर्ववत् पूजयेत् कुम्भान् प्रोक्षयेत् क्षितिमध्यमे ।स्वै: स्वैर्मन्त्रैस्तु मतिमान् सीमायां सर्वदिक्षु च ॥४०॥भूतक्रूरबलिं दद्यात् अष्टदिक्षु समन्तत: ।दिग्बन्धं कारयेत् पश्चात् अस्त्रमन्त्रेण मन्त्रवित् ॥४१॥कुम्भोदकादशेषं तु क्षितिमध्ये नयेत् क्रमात् ।ततोऽवटं क्रमात् पूर्य मृद्भि: सिकतसंयुतम् ॥४२॥कारयेनमुद्गरै:सम्यक् वैष्णवैर्वेदपारगै: ।सूत्रशङ्कून् खनित्वा तु चैत्रे मासे शुभे दिने ॥४३॥सूत्रेण सूत्रयेत् पश्चाच्छिल्पिना कुशलेन वै ।प्रासादं कारयेत् पश्चात् आचार्य: शिल्पिभि: सह ॥४४॥साधको मन्त्रयोग्यस्तु स्थपति:कर्मयोग्यत: (क:?) ।यदिदं भूमिशुद्ध्यर्थं प्रोक्षणं परमं शुभम् ॥४५॥एवं संक्षेपत: प्रोक्तं प्रासादार्थं शचीपते ।अनेनैव विधानेन य: कुर्यात् पुण्यकर्मभाक् ॥४६॥सर्वपापविनिर्मुक्त: स याति परमां गतिम् ।राष्ट्रवृद्धिकरं पुण्यमायुरारोग्यवर्धनम् ॥४७॥धनधान्यानि वर्धन्ते राजराष्ट्रादि वर्धते ।आचार्यं पूजयेत् पश्चात् वस्त्रैराभरणैरपि ॥४८॥शिल्पिनं पूजयेत् तत्र वस्त्रै: कनककुण्डलै: ।दैवज्ञं पूजयेत् पश्चात् नववस्त्राङ्गुलीयकै: ॥४९॥सदस्यान् पूजयेत् पश्चात् मुखवासनपूर्वकम् ।एवंक्रमेण संपूज्य वस्त्राभरणसंयुतम् ॥५०॥ततस्तु कारयेद्गेहं शिल्पिना कुशलेन तु ।सुमुहूर्ते सुलग्ने तु बालस्थानमथारभेत् ॥५१॥बालस्थानं पुराकल्प्य पश्चान्मूलालयं क्रमात् ।कारयेत्तु विशेषेण रत्नन्याससमन्वितम् ॥५२॥हस्तमात्रं खनित्वा तु ब्रह्मस्थाने शचीपते ।सहस्रं शतनिष्कं वा तस्यार्धं वार्धमेव च ॥५३॥विन्यसेत् क्षितिमध्ये तु तप्तकाञ्चनमुत्तमम् ।मरकतादीनि रत्नानि संगृह्यास्त्रेण साधक: ॥५४॥ब्रह्मादीशावसानं तु विन्यसेत् स्वस्वमन्त्रत: ।मध्यरात्रे सुगुप्तेन यजमानेन संयुत: ॥५५॥शङ्खादिघाषसंयुक्तं गर्भाधानं समाचरेत् ।ताम्रेण फेलकां कृत्वाऽवटमाच्छाद्य पूरयेत् ॥५६॥शिलाभिरिष्टकाभिर्वा तु प्रच्छाद्यावटं क्रमात् ।गन्धपुष्पादिनाभ्यर्च्य घण्टाशब्दसमन्वितम् ॥५७॥ब्रह्मबीजेन तत्सर्वं साधयेत् साधकोत्तम: ।पश्चाद्देवीं समभ्यर्च्य श्रियार्थं परमां शुभाम् ॥५८॥वासुदेवस्य (वं स्व?) मन्त्रेण पश्चात् संपूजयेत् क्रमात् ।एवं संक्षेपत: प्रोक्ता भूपरीक्षा ह्यनुत्तमा ॥५९॥इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां भूपरीक्षाविधिर्नामप्रथमोऽध्याय: । N/A References : N/A Last Updated : January 01, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP