संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| अष्टत्रिंशोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - अष्टत्रिंशोऽध्याय: विश्वक्सेनासंहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम अष्टत्रिंशोऽध्याय: Translation - भाषांतर विष्वक्सेन:---अथात: संप्रवक्ष्यामि जलसंप्रोक्षणं परम् ।रहस्यं परमं गुह्यं सर्वपापप्रणाशनम् ॥१॥तव स्नेहात् प्रवक्ष्यामि त्रिदशेरपि दुर्लभम् ।सद्य एव तु कर्तव्यं प्रायश्चित्तं तु नारद ॥२॥न तिथिर्न च नक्षत्रं कालवेला न विद्यते ।दु:स्थितं सुस्थितं वापि देवबिम्बं न चालयेत् ॥३॥शिलाबिम्बं तथा लौहं बिम्बं वा चैकबेरकम् ।दैवाद्वा मानुषाद्वापि मोहाद्वा मुनिसत्तम ॥४॥चालयेद्यदि तद्बिम्बं प्रायश्चित्तं विशेषत: ।कारयेन्मुनिशार्दूल सर्वसंपत्सुखावहम् ॥५॥प्रासादकरणे काले नवकर्मकृते सति ।चित्रकर्मकृते वापि चित्रकारादि संस्पृशेत् ॥६॥स्पृश्यते वा निकृष्टैस्तु देवश्चण्डालपातकै: ।पीठे श्वभ्रस्थिते काले चलिते पूर्ववत् कृते ॥७॥चन्दनादीनि पुष्पाणि तथा सर्वौषधीनि च ।कुशपल्लवदूर्वाश्च पूरयित्वा तदूर्ध्वत: ॥८॥योजयेत् पञ्चगव्येन प्राङ्मुख: सकुशोदकम् ।अर्चयित्वार्घ्यगन्धाद्यै: साङ्मूलं समुच्चरन् ॥९॥आच्छाद्य नववस्त्रेण दद्याद्भूतबलिं तत: ।देवतायतनग्रामनगरेष्वपि पल्लिके ॥१०॥स्थापनास्पदमासाद्य शोधनं पञ्चगव्यकै: ।तत्र मध्ये खनेत् श्वभ्रं मूलमन्त्रमुदीरयन् ॥११॥अङ्गुष्ठोदरमावर्त्य त्रिधा सूत्रेण वेष्टयेत् ।तेनैव भ्रामयेन्मध्ये स्थाप्य तत्रावटं खनेत् ॥१२॥हस्तमात्रमधस्ताच्च षडङ्गुलसमन्वितम् ।संप्रोक्ष्य पञ्चगव्येन तत्र रत्नादिकं न्यसेत् ॥१३॥शेषं ध्यात्वा तदूर्ध्वे तु अभ्यर्च्यार्घ्यादिभि: क्रमात् ।वाससाच्छाद्य दिग्बन्धमाचरेदस्त्रमुच्चरन् ॥१४॥संस्पृश्च गव्यकुम्भाभ्यां ध्यात्वा मूलं जपेद्गुरु: ।प्रभातायां तु शर्वर्यां कृत्वा स्नानादिकीं क्रियाम् ॥१५॥कुम्भस्थं नृहरिं पूज्य जपान्तं पूर्ववर्त्मना ।पुण्याहवाचनं कृत्वा मुहूर्ते शोभने गुरु: ॥१६॥पद्मपत्राव(वृ?)तु कुम्भं श्वभ्रे तारेण विन्यसेत् ।परित: सर्वधान्येन पूरयित्वा चशलं (?) यथा ॥१७॥पञ्चगव्यं समुद्धृत्य घटस्थं कलशं लबन्(?) ।तेनैव पूरयेत् कुम्भं श्वभ्रस्थं मूलमुच्चरन् ॥१८॥समभ्यर्च्यार्घ्यपुष्पाद्यै: पूरयेन्मृद्भिराहृतै: ।शंसूक्तं भद्रसूक्तं च स्वस्तिसूक्तं च पाक्कृते(?) ॥१९॥एतत् साधारणं प्रोक्तं बहुबेरैकबेरयो: ।सर्वलक्षणसंपन्नमङ्गयुक्तं द्विजोत्तमम् ॥२०॥पदवाक्यप्रमाणज्ञं देवयज्ञ व्रतस्थितम् ।एवं लक्षणसंयुक्तमाचार्यं तन्त्रपारगम् ॥२१॥ज्ञात्वा तेनैव कर्तव्यं जलसंप्रोक्षणं शुभम् ।प्रासादाग्रे मुनिरेष्ठ कुर्यान्मण्डपमुत्तमम् ॥२२॥दक्षिणेऽप्यथवा कुर्यात् उत्तरे वा महामुने ।ऐशाने वात्र मतिमान् यथालाभं सुदिक्षु च ॥२३॥चतुरश्रं सुखं सम्यक् विस्तारायामतादृशम्(-त: समम्?) ।करषोडशकं वापि हस्तं पञ्चदशं तु वा ॥२४॥स्तम्भषोडशसंयुक्तं चतुर्द्वारसमन्वितम् ।इष्टकादारुपाषाणै: कृतां सम्यक्सुवेदिकाम् ॥२५॥हस्तमात्रसमायुक्तं ध्वजाशामुख्?ातोरणम् ।दर्भमालापरिवृतं पुष्पमाल्यैरलंकृतम् ॥२६॥फलपल्लवमालाद्यैर्धूपदीपसमन्वितम् ।शालिसंचयसंपूर्णं प्रागुदक्प्रवणं शुभम् ॥२७॥वितानेनोर्ध्वमाच्छाद्य नानावस्त्रैरलंकृतम् ।छत्रचामरसंयुक्तं मुक्तादामै(!) रलंकृतम् ॥२८॥ध्वजैर्नानार्विधेश्चित्रैर्दीपमालाविराजितम् ।वर्षवातैर्न चाक्रान्तं पालिकाभिरलंकृतम् ॥२९॥एतस्य मण्डपस्याग्रऽप्यत्तरे वा यथाक्रमम् ।ईशाने वा मुनिश्रेष्ठ कुर्यात् स्नपनमण्डपम् ॥३०॥हस्तद्वयप्रमाणेन विसतारायामतादृशम् (-त: समम्?) ।मण्डपस्यैशपूर्वे तु स्नपनार्थं सुवेदिकाम् ॥३१॥हस्तोच्छ्रयां तदर्धां वा ह्युत्तरे श्वभ्रसंयुताम् ।धारायुग्वेदिकां कुर्यात् पश्चिमे कलशान् न्यसेत् ॥३२॥स्नपनं कारयेदेवं एकाशीतिक्रमेण तु ।एकबेरविधानं चेत् मूलार्चायां प्रयोजयेत् ॥३३॥कर्मार्चायां तु कर्तव्यं बहुबेरविधौ सति ।स्नपनं विधिवत् कृत्वा तत: कर्म समारभेत् ॥३४॥पीतवस्त्रैस्तु शुक्लैर्वा वेष्टयेद्देवपीठकम् ।ततोऽस्मिन् मण्डपे द्वारि कलशांस्तोरणध्वजान् ॥३५॥गन्धपुष्पै: समभ्यर्च्य स्वनाम्नैव पृथक्पृथक् ।ततो मण्डपवेद्यां च निक्षिपेच्छालिसंचयम् ॥३६॥शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ।सौवर्णं राजतं वापि ताम्रं वा मृण्मयं तु वा ॥३७॥द्रोणद्वयेन संपूर्णं निम्नोषं (निर्दोषं?) कलशं शुभम् ।वस्त्रपूतजलै: पूर्णं सकूर्चं सापिधानम् ॥३८॥ससूत्रं वस्त्रयुग्मेन वेष्टितं रत्नसंयुतम् ।अष्टशक्तिसमायुक्तं सौवर्णायुधपञ्चयुक् ॥३९॥तत्कुम्भं प्रणवेनैव शालिपद्मे तु विन्यसेत् ।तत: पद्मदलेष्वष्टकलशान् परितो न्यसेत् ॥४०॥पूर्ववत्तोयसंपूर्णान् सहिरण्यान् सवस्त्रकान् ।सापिधानान् सकूर्चांश्च मुखे चाश्वत्थपल्लवान् ॥४१॥अर्चयेद्गन्धपुष्पैश्च दीपैरन्यै: पवित्रकै: ।पूजयेन्मूलमन्त्रेण तत्तन्मूर्तिमनुस्मरन् ॥४२॥विष्णुं चैव महाविष्णुं सदाविष्णुं च मध्यमे ।वासुदेवानिरुद्धान्तं(?)न्यसेत् पूर्वादिदिक्षु च ॥४३॥न्यसेच्छ्रियादिशान्त्यन्तमाग्नेयादिविदिक्षु च ।एवं न्यस्य विधानेन गन्धपुष्पादिभिर्यजेत् ॥४४॥एतानपि समभ्यर्च्य होमकर्म समारभेत् ।पूर्वादि चोत्तरान्तं तु कुण्डानि परिकल्पयेत् ॥४५॥वासुदेवं यजेत् पूर्वं कुण्डे तु चतुरश्रके ।अर्धचन्द्राग्निकुण्डे तु याम्ये संकर्षणं यजेत् ॥४६॥वारुण्यां वर्तुले कुण्डे प्रद्युम्नं तु यजेद्बुध: ।उत्तरेऽब्जे त्रिकोणे वा अनिरुद्धं यजेत् प्रभुम् ॥४७॥पालाशं खादिरं वापि बैल्वमौदुम्बरं तथा ।अष्टोत्तरशतं हुत्वा पृथक्पूर्वादित: क्रमात् ॥४८॥समिदाज्यचरून् लाजै: जुहुयुर्मूर्तिपा: पृथक् ।एवं होमं प्रशंसन्ति एकहोमेन चाप्यलम् ॥४९॥कारयेच्चतुरश्रे तु जुहुयात्तद्विधानत: ।वैष्णवीकरणार्थाय कुण्डं पूर्ववदाचरेत् ॥५०॥तत्कुण्डे मुनिशार्दूल आचार्यो होममाचरेत् ।समिदाज्येन चरुणा जुहुयात्तु पुन: पुन: ॥५१॥समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च ।चरुं पुरुषसूक्तेन प्रत्येकं षोडशाहुती: ॥५२॥एवं हुत्वा विधानेन पुनराज्येन होमयेत् ।पौरुषेण च सूक्तेन जुहुयाद्विष्णुभक्तित: ॥५३॥ततो नारायणं सूक्त सृष्ट्यादिप्रतिपादकम् ।सम्यग्ज्ञात्वा मुनिश्रेष्ठ काल्यां तु जुहुयात् क्रमात् ॥५४॥पञ्चोपनिषदैर्मन्त्रै: जुहुयात्तु पुन: पुन: ।पूर्ववच्छान्तिहोमं तु कारयेच्च विधानत: ॥५५॥एवं हुत्वा मुनिश्रेष्ठ कौतुकं बन्धयेद्धरिम् ।पूर्वोक्तेन विधानेन पूजयेद्धविरन्तकम् ॥५६॥द्वादशाक्षरमन्त्रेण मूर्तिमन्त्रेण चैव हि ।क्षौमसूत्रेण वा तत्र कार्पासं वा महामुने ॥५७॥प्रोक्षयेन्मूलमन्त्रेण तत्सूत्रं तु पुन: पुन: ।रात्रौ महोत्सवं कुर्यात् शङ्खतूर्यादिनिस्वनै: ॥५८॥कौतुकं समलंकृत्य तण्डुलोपरि नारद ।पश्चाद्ग्रामं परिभ्रम्य महादीपसमूहयुक् ॥५९॥बन्धयेत् कौतुकं पश्चात् पूर्वोक्तेन विधानत: ।रात्रौ होम: प्रकर्तव्य: जलसंप्रोक्षणं दिवा ॥६०॥न कुर्यात् प्रोक्षणं रात्रौ न दिवा होममाचरेत् ।तस्मात् सर्वप्रयत्नेन रात्रौ होमं प्रकल्पयेत् ॥६१॥प्रभाते सुमुहूर्ते तु जलसंप्रोक्षणं क्रमात् ।प्रोक्षयेत्तु विधानेन बिम्बाद्यावरणान्तिकम् ॥६२॥आवाहयेत्ततो देवं नारायणमनामयम् ।शङ्खचक्रधरं देवं पीतवाससमच्युतम् ॥६३॥सर्वाभरणसंयुक्तं वनमालावि?राजितम् ।राजावर्तमणिप्रख्यं हारकेयूरभूषितम् ॥६४॥श्रीवत्सवक्षसं चारु मकराकृतिकुण्डलम् ।कम्बुग्रीवं महाबाहुं किञ्चित्प्रहसिताननम् ॥६५॥एवं ध्यात्वा महाविष्णुं गरुडोपरि संस्थितम् ।सह द्वादशभिश्चैव मूर्तिभिर्दशभिस्तथा ॥६६॥लोकपालैस्तथादित्यै रुद्रैर्वसुभिरेव च ।ऋषिभिश्चारणै: सिद्धै: किंनरैरप्सरो गणै: ॥६७॥एवं ध्यात्वा महाविष्णुं नारायणमनामयम् ।तत्तन्मन्त्रेण संस्थाप्य प्रोक्षयेद्गन्धवारिणा ॥६८॥शेषोदकेन मतिमान् प्रोक्षयेत् परिवारकम् ।प्रणवादिस्वमन्त्रैस्तु परिवारानशेषत: ॥६९॥पूर्वादिकलशान् गृह्य महापीठेऽभिषेचयेत् ।तत: पुरुषसूक्तेन पूजयेत् पुरुषोत्तमम् ॥७०॥हविर्निवेदयेत् पश्चात् पूर्वोक्तेन विधानत: ।चण्डादिभ्यो बलिं दद्याद्दिक्षु चैव विदिक्षु च ॥७१॥बलिबिम्बसमायुक्तं बलिभ्रमणमाचरेत् ।एवं बलिं क्रमात् कुर्यात् शङ्खतूर्यादिसंयुतम् ॥७२॥प्रदक्षिणं तत: कुर्यात् प्रणिपत्य क्षमापयेत् ।आचार्यदक्षिणां दत्वा ब्राह्मणान् भोजयेत्तत: ॥७३॥होतॄंश्चैव सुसंपूज्य आचार्यं पूजयेत् पुन: ।हारकेयूरसंयुक्तं कटिसूत्राङ्गुलीयकै: ॥७४॥विविधानि च वस्त्राणि आचार्याय निवेदयेत् ।दक्षिणां चोत्तमां दद्यात् गां च दत्वा पयस्विनीम् ॥७५॥अर्धं वापि धनं देयं मूर्तिपानां हितैषिणाम् ।पादोनं साधकानां च दीक्षितानां तदर्धकम् ॥७६॥अन्नदानं च सर्वेषां दद्याद्देवसमीपत: ।पवित्रारोपणेप्येवं दक्षिणां दापयेन्मुने ॥७७॥इति सम्यक् समाख्यात: जलसंप्रोक्षणक्रम: ।एतद्विचार्य कर्तव्यं(?)पञ्चरात्रविशारदै: ॥७८॥इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां पीठचलनादिनिमित्त-प्रोक्षणविधिर्नामाष्टत्रिंशोऽध्याय: N/A References : N/A Last Updated : January 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP