संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
चतुर्विंशोऽध्याय:

विश्वक्सेनासंहिता - चतुर्विंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:---
अथ वक्ष्ये विशेषेण विष्णोराराधनं मुने ।
जलगन्धादिसंस्कारविधिं गुह्यमनुत्तमम् ॥१॥
ब्राह्मणान् वेदसंयुक्तान् वैष्णवान् सुकुलोद्भवान् ।
तान् क्रमेणैव संस्कृत्य प्रोक्षयित्वा शिरोपरि ॥२॥
मूलमन्त्रेण मन्त्रज्ञ: पश्चात्तेनैव कारयेत् ।
गोपुरस्योत्तरे कुर्याद्दक्षिणे वा जलाशयम् ॥३॥
याम्ये देवगृहस्यैव चोत्तरे वा प्रमाणत: ।
अलंकृत्य तु तत्स्थानं प्रणवं सततं जपेत् ॥४॥
गोमयेन् समालिप्य प्रोक्षयेद्गन्धवारिणा ।
द्वादशाक्षरमन्त्रेण प्रणवाद्यन्तसंयुतम् ॥५॥
अलंकृत्य च गन्धादि धूपदीपै: समन्तत: ।
मुक्तादामसमायुक्तं वितानैरुपशोभितम् ॥६॥
पताकमालासंयुक्तं शालिपिष्टैरलंकृतम् ।
तत्स्थानं साधक: पश्चाद्द्वादशाक्षरविद्यया ॥७॥
संप्रोक्ष्य धूपयित्वा च गुग्गुलागरुसंयुतम् ।
तस्मिन् मनोरमे देशे जलभाण्डादिकान् मुने ॥८॥
स्थापयेत् प्रणवेनैव प्रत्येकं तं हरिं स्मरन् ।
जलभाण्डं तथा कुम्भं वर्धनीं च बहूनि च ॥९॥
स्रग्धूपपात्रसंयुक्तं स्थापयेत्तु समाहित: ।
एवमादीनि चान्यानि तद्भूमौ स्थापयेत् क्रमात् ॥१०॥
सुगन्धं देवपानीयं स्नानार्थं जलमेव च ।
गन्धद्रव्यं तथोशीरं माञ्जं मलयजं तथा ॥११॥
एवमादीनि चान्यानि गन्धद्रव्यादिकान् मुने ।
संगृह्य विष्णुगायत्र्या प्रणवाद्यन्तसंयुतम् ॥१२॥
जलभाण्डादिकान् सर्वान् विष्णुगायत्रिया मुने ।
संक्षाल्यान्यान् सुसंप्रोक्ष्य पूरितान् गालितोदकै: ॥१३॥
पूरयेत् प्रणवेनैव तान् पिधाय पृथक् पृथक् ।
एलाचम्पकपुष्पाणि केतकोत्पलमेव च ॥१४॥
उशीरमल्लिकाजातिपुष्पं वकुलमेव च ।
एतान् पुष्पान् समादाय विक्षिपेत्तान् पृ?थक् पृथक् ॥१५॥
एतेषामप्यलाभे तु जलेषु मुनिसत्तम ।
यथासंभवमाहृत्य निक्षिपेद्गन्धपुष्पकम् ॥१६॥
त्रिमात्रात्(?)पुष्पमुद्धृत्य प्रणवेन विसर्जयेत् ।
सुसूक्ष्मै: सुदृढैर्वस्त्रैर्वेष्टयेदस्त्रमन्त्रत: ॥१७॥
ततश्चन्दनसंयुक्तं कर्पूरं पेषयेद्बुध: ।
तथैव गन्धं मालाकां(?)रजनीं प्रणवै: सह ॥१८॥
एवं संस्कृत्य मतिमान् सर्वान् देवाननुस्मरन् ।
वर्धनीं विष्णुगायत्र्या सलक्ष्म्यास्मिन् पृथक् पृथक् ॥१९॥
जलभाण्डाज्जलं गृह्य प्रणवेन तु पूरयेत् ।
एवं संपूरयित्वा तु पिधाय च सुवस्त्रकै: ॥२०॥
पूजारम्भे मुनिश्रेष्ठ प्रणवाद्यन्तसंयुतम् ।
विष्णुगायत्रिमन्त्रेण चोद्धरद्वर्धनीं बहून्(?) ॥२१॥
मण्डपस्योत्तरे पार्श्वे स्थापयेत् प्रणवं स्मरन् ।
एवं दिने दिने देवपूजार्थं जलमुत्तमम् ॥२२॥
तथैव चन्दनादीनि कर्पूरेण विमिश्रितम् ।
दूर्वाक्षताञ्जनं चैव मात्रातण्डुलमेव च ॥२३॥
तिलगोहेमदध्याज्यं मधुपर्कोपहारकम् ।
स्नानार्थं रजनीपिष्टं सतैलामलकं तथा ॥२४॥
एवमादीनि चान्यानि पूजाद्रव्याणि सर्वश: ।
प्रणवेन तु संस्कृत्य चास्त्रमन्त्रेण चोद्धरेत् ॥२५॥
मुखवासं मुनिश्रेष्ठ प्रणवं सततं जपन् ।
संस्कृत्यान्ते विधानेन चोद्धरेद्वाग्यत: शुचि: ॥२६॥
शङ्खत्रय(-तूर्य?)समायुक्तं प्रणवेन दिने दिने ।
देवस्य दक्षिणे पार्श्वे स्थापयेदस्त्रमन्त्रत: ॥२७॥
प्रात: सन्ध्यादिषट्कालेऽप्येवमेव समाचरेत् ।
नित्ये नैमित्तिकेऽप्येवं संस्कारो मुनिसत्तम ॥२८॥
संक्षेपेण मया प्रोक्तो जलगन्धादिक: क्रमात् ।
अन्यथा चेन्महादोषो भविष्यति न संशय: ॥२९॥
दुर्भिक्षं जायते चैव धनधान्यक्षयो भवेत् ।
तस्मात् सर्वप्रयत्नेन कारयेद्विधिचोदितम् ॥३०॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [जलगाधादि-
संस्कारविधिर्नाम] चतुर्विंशोऽध्याय: ।

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP