संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| सप्तदशोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - सप्तदशोऽध्याय: विश्वक्सेनासंहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम सप्तदशोऽध्याय: Translation - भाषांतर विष्वक्सेन:---अथात: संप्रवक्ष्यामि जङ्गमस्थापनं परम् ।अप्रधानं च बिम्बं तु जङ्गमं बिम्बमुत्तमम् ॥१॥पृथक् चेत् सर्वकर्माणि बिम्बशुद्ध्यर्थमेव च ।कारयेन्मुनिशार्दूल स्नानादिप्रतिमाक्रियाम् ॥२॥स्नानोत्सवादिकार्यार्थं* कालेऽस्मिन् वर्तते सति*(?) ।जलवासं क्रमात् कृत्वा मण्डपे चाधिवासनम् ॥३॥कृत्वा तु पूर्ववद्धोमं तिलहोमं विना द्विज ।स्नपनं विधिवत् कृत्वा रत्नन्यासं विना मुने ॥४॥मन्त्रन्यासं विना तस्मिन् तत्त्वन्यासं समाचरेत् ।मध्यसूत्रं परित्यज्य प्रासादे परमेष्ठिना ॥५॥पौरुषं सूक्तमुच्चार्य स्थापयेन्मतिमान् पृथक् ।मूर्तीनां स्थानभेदस्तु बिम्बाध्याये प्रदर्शित: ॥६॥तत्तत्स्थाने स्वमन्त्रेण संस्थाप्यार्चादि नारद ।यद्रुपं मूलबेरस्य यच्चिह्नैश्चिह्नितं पुरा ॥७॥या मूर्ति: स्थापिता पूर्वं मूलार्चेति महात्मभि: ।यथा चायुधविन्यास: कथं(कृतो?)बुद्धिमतां वरै: ॥८॥कर्मार्चादिषु बेरेषु तत्सर्वं कारयेत्तथा ।न विधि: शयितस्यैष: स्थापनादि प्रकीर्तितम् ॥९॥शयितस्य तु कर्मार्चा स्थानकं त्वासनं तु वा ।संस्थाप्य वासुदेवाख्यं न संकर्षणमिष्यते ॥१०॥तथा संकर्षणं स्थाप्य प्रद्युम्नं नार्चयेत् सुधी: ।प्रद्युम्नस्थापनार्चायां कर्मार्चा नानिरुद्धका ॥११॥कर्मार्चा सर्वथा कार्या मूलबिम्बानुसारिणी ।विशेषश्चात्र संप्रोक्त: शेषं पूर्ववदाचरेत् ॥१२॥एवं संक्षेपत: प्रोक्तं जङ्गमस्थापनं मुने ।धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥१३॥स्थापनं संप्रवक्ष्यामि चित्राभासार्धचित्रके ।आभासं त्रिविधं प्रोक्तं भित्तौ च फलके पटे ॥१४॥अर्धचित्रं तथा भित्तौ शिलायां दारुकेऽपि च(?) ।विद्यते यदि कर्मार्चाप्येतेषां(स्यादेषां?)लोहजाकृति: ॥१५॥कर्मार्चायां तु सकलां क्रियां कृत्वा तु पूर्ववत् ।मूलार्चायां तु कर्तव्यो मन्त्रन्यासो द्विजोत्तम ॥१६॥अधिवासनकुम्भस्थतोयेन प्रोक्षयेद्बुध: ।तत: पुरुषसूक्तेन पञ्चोपनिषदैरपि ॥१७॥अत्रैव षोडशन्यासो नेष्यते तन्त्रपारगै: ।फलके च पटे चैव विशेषं कथयाम्यहम् ॥८॥मण्डपं पूर्ववत् कृत्वा वेदिं कृत्वा तु पूर्ववत् ।कृत्वा सुलोचने दिव्ये श्?ायने संनिवेशयेत् ॥१९॥जलाधिवासनं चैव नेष्यते स्नपनं बुधै: ।मूर्तिहोमं तत: कृत्वा दिशाहोमविवर्जितम् ॥२०॥विद्येशानपि संपूज्य वेदिकाकलशेष्?वथ ।प्रलयं च निसर्गं च क्रमात् कृत्वा तु देशिक: ॥२१॥प्रोक्षयेत् स्वेन मन्त्रेण ब्रह्मकुम्भस्थवारिणा ।युक्त्या युक्तिविशे?षेण शेषं पूर्ववदाचरेत् ॥२२॥भित्तिस्थप्रतिमायां तु स्थानं कथयाम्यहम् ।*भित्तौ सम्यक्पटे चित्रे वर्णालंकारभूषिते* ॥२३॥*आभासे चार्धचित्रे वा पटे सम्यक्सुलोचने*(?) ।देवस्य पुरत: कृत्वा मण्डपं सपरिच्छदम् ॥२४॥वेदिकां तत्र कुर्वीत पूर्वोक्तेन विधानत: ।द्विकरां त्रिकरां वापि शिल्पिना कुशलेन तु ॥२५॥ततस्तु वेदिकामध्ये विन्यसेच्छालिसंचयम् ।शालिमध्ये लिखेत् पद्ममष्टपत्रं सकर्णिकम् ॥२६॥ततस्तु द्रोणसंपूर्णं ब्रह्मकुम्भं सुवर्चसम् ।वस्त्रपूतैर्जलै: पूर्णं सकूर्चं सापिधानकम् ॥२७॥ससूत्रं वस्त्रयुग्मेन वेष्टितं रत्नसंयुतम् ।अष्टशक्तिसमोपेतं सौवर्णायुधपञ्चयुक् ॥२८॥अश्वत्थपल्लवैर्युक्तं गन्धपुष्पाक्षतार्चितम् ।तत्कुम्भं प्रणवेनैव पद्ममध्ये तु विन्यसेत् ॥२९॥तत: पद्मदलेष्वष्टघटांस्तु परितो न्यसेत् ।पूर्ववत्तोयसंपूर्णान् सहिरण्यान् सवस्त्रकान् ॥३०॥सपिधानान् सकूर्चांस्तु मुखे चाश्वत्थपल्लवान् ।अर्चयेद्गन्धपुष्पैश्च दीपैरन्यैर्विचित्रकै: ॥३१॥अर्चयेन्मूलमन्त्रेण नारायणमनामयम् ।विश्णुमक्लिष्टकर्माणं परमं मध्यमे घटे ॥३२॥वासुदेवं न्यसेत् पूर्वे संकर्षणं तु दक्षिणे ।प्रद्युम्नं पश्चिमे न्यस्य अनिरुद्धं तु चोत्तरे ॥३३॥आग्नेय्यां विन्यसेल्लक्ष्मीं नैरृत्यां तु सरस्वतीम् ।वायव्ये तु रतिं न्यस्य शान्तिमीशानगोचरे ॥३४॥एवं न्यस्य विधानेन गन्धपुष्पादिभिर्यजेत् ।अथवात्र मुनिश्रेष्ठ परित: कलशान् न्यसेत् ॥३५॥तन्मध्ये चानयेदष्टविद्येशान् साधकोत्तम: ।वाराहं पूर्वभागे तु नारसिंहं तु दक्षिणे ॥३६॥श्रीधरं पश्चिमे देशे उत्तरे हयशीर्षकम् ।आग्नेये भार्गवं रामं नैरृत्यां राममेव च ॥३७॥वामनं चापि वायव्ये वासुदेवं तथेशके ।स्वनाम्ना पूजयित्वैतान् कलशेषु पृथक् पृथक् ॥३८॥एवं संपूजयित्वा तु होमकर्म समाचरेत् ।पूर्वादि चोत्तरान्तं तु कुण्डानि परिकल्पयेत् ॥४०॥वारुणे वृत्तकुण्डे तु प्रद्युम्नं तु यजेद्बुध: ।उत्तरे पद्मकुण्डे तु अनिरुद्धमथो यजेत् ॥४१॥पालाशं खादिरं चैव बैलवमौदुम्बरं त?था ।अष्टोत्तरशत हुत्वा पूर्वादि च पृथक् क्रमात् ॥४२॥समिदाज्यचरून् लाजान् जुहुयुर्मूर्तिपा: क्रमात् ।अथवात्र मुनिश्रेष्ठ पूर्वाग्नौ साधकात्तम: ॥४३॥समिदाज्येन चरुणा होममेकेन(?)चाप्यलम् ।कुण्डे वा स्थण्डिले वापि आचार्यो जुहुयाद्बुध: ॥४४॥रात्रौ होम: प्रकर्तव्य: जलसंप्रोक्षणं दिवा ।न कुर्यात् प्रोक्षणं रात्रौ न दिवा होममाचरेत् ॥४५॥तस्मात् सर्वप्रयत्नेन रात्रौ होमं तु कारयेत् ।मुहूर्ते समनुप्राप्ते ब्राह्मणानामनुज्ञया ॥४६॥कुम्भस्थितेन तोयेन प्रोक्षयेत् परमेष्ठिना ।आवाहयेत्ततो देवं नारायणमनामयम् ॥४७॥शङ्खचक्रधरं देवं पीताम्बरधरं हरिम् ।यद्रुपं चिन्तितं भित्तौ तथा ध्यायेज्जगद्गुरुम् ॥४८॥एवं कृत्वा महाविष्णुं प्रोक्षयेद्गन्?धवारिणा ।तत: पुरुषसूक्तेन प्रोक्षयेत् प्रतिमां पुन: ॥४९॥पूजयेदर्घ्यपाद्यैश्च चरुभिर्विविधैरपि ।यथावित्तानुसारेण(?) दद्यादाचार्यदक्षिणाम् ॥५०॥एवं संक्षेपत: प्रोक्तं स्थापनं भित्तिसंश्रितम् ।तत:सुपीठिकां कृत्वा पीठस्य(पीठं च?)परित:क्रमात् ॥५१॥संकल्प्य परिवारांश्च तत्रावाह्य तु पूजयेत् ।दिने दिने मुनिश्रेष्ठ त्रिसन्ध्यैकमथापि वा ॥५२॥एवं संक्षेपत: प्रोक्तो (क्ता?)भित्तिबिम्बस्य संस्थिति: ।इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां [जङ्गमबिम्बादिस्थापनविधिर्नाम]सप्तदशोऽध्याय:॥ N/A References : N/A Last Updated : January 05, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP