संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| नवमोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - नवमोऽध्याय: विश्वक्सेनासंहिता Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम नवमोऽध्याय: Translation - भाषांतर अथात: संप्रवक्ष्यामि बालस्यानविधिं परम् ।*प्रथमं च द्वितीयं च*(?)संक्षेपाच्छृणु नारद ॥१॥महाविमानाभिमुखं नातिदूरसमीपगम् ।प्रासादस्याग्रत: कुर्यात् देवस्य तरुणालयम् ॥२॥महागेहाभिमुखो (गेहमुखं यद्वा?) पूर्वद्वारे तु कल्पयेत् ।प्रासादाभिमुखाभावे दक्षिणे चैव कल्पयेत् ॥३॥उत्तरे वा मुनिश्रेष्ठ सोमेशानान्तरेऽथ वा ।ईशाने वाप्यभावे तु कल्पयेत्तरुणालयम् ॥४॥राष्ट्रवृद्धिकरं पूर्वे धनधान्यसुखप्रदम् ।ग्रामराष्ट्रस्य वृद्धि: स्याद्दक्षिणे मुनिसत्तम ॥५॥ब्रह्मऋद्धिकरं सोमे पुत्रपौत्रसुखावहम् ।दुर्भिक्षभयनाशार्थं सोमेशानान्तरे मुने ॥६॥ईशाने तु भवेत्तस्मिन्(त्तच्च?)ग्रामायतनऋद्धिकृत् ।प्रासादे पश्चिमद्वारे बालस्थानं तु पश्चिमे ॥७॥*दक्षिणादिक्रमं तस्मिन्*(?)सर्वं पूर्ववदाचरेत् ।मूलस्थानस्य देशं च गृहीत्वा तदनन्तरम् ॥८॥प्रथमं स्यान्मुनिश्रेष्ठ कल्पयेत्तरुणालयम् ।इष्टकाभिर्मृदा वापि कारयेच्छास्त्रचोदितम् ॥९॥षट्पञ्चसप्तहस्तं वा नवहस्तमथापि वा ।संज्ञात्वा साधकस्तस्मिन् यजमानेच्छया*कुरु*(?) ॥१०॥गर्भमानत्रिभागैकं द्वारमांन प्रशस्यते ।द्वारविस्तारमानस्य द्विगुण्?ां तु तथोच्छ्रितम् ॥११॥कूटाकारं तु वा कुर्यात् मण्डपाकारमेव वा ।कारयेत् बालगेहं तु आचार्य: शिल्पिभि: सह ॥१२॥आद्येष्टकाविधानादि कारयेदिह पूर्ववत् ।मण्डपं चाग्रत: कृत्वा सप्राकारं सुरक्षितम् ॥१३॥गर्भन्यासं तु कुर्याच्च रत्नन्यासं तु नेष्यते ।पीठं कृत्वा तु तन्मध्ये काष्ठैर्वा चेष्टकै(?)स्तथा ॥१४॥मृदा वा सुदृढं स्निग्धं काष्ठासनसमन्वितम् ।एकहस्तोच्छ्रितां वेदिं साष्टपत्रं सकर्णिकम् ॥१५॥कृत्वैवं बालगेहं तु साधकेच्छानुरूपत: ।एवं कृत्वा विधानेन तरुणालयमुत्तमम् ॥१६॥परमात्मादिमूर्तीनां लक्षणं चाधुना श्रृण ।इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायांबालस्थानविधिर्नाम नवमोऽध्याय:॥ N/A References : N/A Last Updated : January 04, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP