संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता| त्रिंशोऽध्याय: विश्वक्सेनासंहिता प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पञ्चमोऽध्याय: षष्ठोऽध्याय: सप्तमोऽध्याय: अष्टमोऽध्याय: नवमोऽध्याय: दशमोऽध्याय: एकादशोऽध्याय: द्वादशोऽध्याय: त्रयोदशोऽध्याय: चतुर्दशोऽध्याय: पञ्चदशोऽध्याय: षोडशोऽध्याय: सप्तदशोऽध्याय: अष्टादशोऽध्याय: एकोनविंशोऽध्याय: विंशोऽध्याय: एकविंशोऽध्याय: द्वाविंशोऽध्याय: त्रयोविंशोऽध्याय: चतुर्विंशोऽध्याय: पञ्चविंशोऽध्याय: षड्विंशोऽध्याय: सप्तविंशोऽध्याय: अष्टाविंशोऽध्याय: एकोनत्रिंशोऽध्याय: त्रिंशोऽध्याय: एकत्रिंशोऽध्याय: द्वात्रिंशोऽध्याय: त्रयस्त्रिंशोऽध्याय: चतुस्त्रिंशोऽध्याय: पञ्चत्रिंशोऽध्याय: षट्त्रिंशोऽध्याय: सप्तत्रिंशोऽध्याय: अष्टत्रिंशोऽध्याय: एकोनचत्वारिंशोऽध्याय: विश्वक्सेनासंहिता - त्रिंशोऽध्याय: विष्वक्सेन:---राघवस्यैव वक्ष्यामि तथा जन्मदिनक्रियाम् ।ऋक्षे पुनर्वसौ कार्यं चैत्रे नावमिके तिथौ ॥१॥माघमासेऽथवा ब्रह्यन् राघवोत्सवमुत्तमम् ।कृत्वाङ्कुरार्पणं पूर्वं ततश्चोत्सवमाचरेत् ॥२॥स्नपनं विधिवत् कृत्वा सायाह्ने राघवस्य तु ।आचार्यं पूजयेत् पश्चात् वस्त्रहेमाङ्गुलीयकै: ॥३॥गोदानं भूमिदानं च सुवर्णं रजतं तथा ।पश्वाज्यतिलदानं च गोग्रासं च यथाविधि ॥४॥कौतुकं बन्धयेत् पश्चात् सुपुण्याहपुर:सरम् ।होमं चैव विधानेन कारयेत् साधकोत्त्म: ॥५॥समिधो मूलमन्त्रेण प्रणवेनाज्यमेव च ।प्रत्येकमष्टाविंशश्च चरुहोममथाचरेत् ॥६॥षोडशर्चं च पुंसूक्तमतो देवा: षडर्चकम् ।पञ्चोपनिषदं चैव विष्णोर्नुकमिति त्र्यृचा ॥७॥द्वादशाक्षरमन्त्रेण वौषडन्तेन होमयेत् ।एतान्(?)पूर्णाहुतिं हुत्वा होमशेषं समापयेत् ॥८॥ततो होमावसाने तु पुण्याहं कारयेत् क्रमात् ।ततस्तु दापयेत्तत्र होमपुण्याहदक्षिणाम् ॥९॥आत्मन्यारोपयेदग्निमात्मानं चार्पयेद्धरौ ।राघवं पूजयेत् पश्चात् राममन्त्रेण मन्त्रवित् ॥१०॥हविर्निवेदयेत् पश्चात् पञ्चधा परमेष्ठिना ।ओदनं कृसरं गौल्यं पायसं दधिसक्तुकम् ॥११॥पानीयं च सुगन्धाढ्यं मुखवासं च दापयेत् ।विविधानि च भक्ष्याणि विविधानि फलानि च ॥१२॥ब्राह्मणान् भोजयेत्तत्र वैष्णवान् वेदपारगान् ।गेयनृत्तविनोदाद्यै रात्रिशेषं समापेयत् ॥१३॥प्रभातायां तु शर्वर्यामलंकारं तु दापयेत् ।अलंकृत्य जनान् सर्वान् विष्णुप्रियतमान् समान् ॥१४॥तैलैश्चन्दनपङ्कैश्च अङ्गरागैश्च सर्वश: ।हरिद्राचूर्णपुष्पैश्च वस्त्रैर्नानाविधैस्तथा ॥१५॥जलयुक्ताश्च शतशो जलमिश्रैरितस्तत: ।अन्योन्यं चिक्षु(-क्षि?)पु: सर्वे नृत्तगीतसमन्विता: ॥१६॥चित्रध्वजवितानैश्च चामरस्तालवृन्तकै: ।शङ्खदुन्दुभिनिर्घोषै: क्ष्वेलितास्फोटितैरपि ॥१७॥नृत्तगेयैश्च वाद्यैश्च भक्तैर्भागवतैस्तथा ।जयशष्दरवैश्चैव युक्तं कुर्यान्महोत्सवम् ॥१८॥तैलगन्धजलैर्युक्तं रजनीचूर्णसंयुतम् ।ग्रामं परिभ्रमीकृत्य गच्छेयु: पुनरालयम् ॥१९॥स्नापयेद्देवदेवं तं यथाविभवविस्तरम् ।वस्त्राभरणगन्धाद्यैरलंकृत्य प्रयत्नत: ॥२०॥महाहविर्निवेद्याथ भक्तानां चैव पूजनम् ।एवं य: कारयेद् भक्त्य चोत्सवं राजजन्मनि ॥२१॥स याति विष्णुसालोक्यं* क्रमात् पारिषदेश्वर:* ।इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां श्रीरामजन्मोत्सव-विधिर्नाम एकोनत्रिंशोऽध्याय: Tags : samhitasanskritvishvaksena samhitaआहेयांनीरचलाविश्वक्सेना संहितासंस्कृतसंहितापंचम त्रिंशोऽध्याय: Translation - भाषांतर विष्वक्सेन:---अथात: संप्रवक्ष्यामि कृष्णजन्मदिनोत्सवम् ।सर्वलोकहितार्थाय संभूतं यादवे कुले ॥१॥देवक्यां वसुदेवस्य देवानां हितकाम्यया ।श्रावणे कृष्णपक्षे च रोहिण्यामष्टमे तिथौ ॥२॥अङ्कुरार्पणपूर्वं तु सप्तपञ्चदिनेऽथवा ।मध्यरात्रे तु पूर्वे तु कृष्णबिम्बमनुत्तमम् ॥३॥नवनीतनटं वापि सर्पनृत्तमथापि वा ।चतुर्भुजं वापि तथा पूजयेत्तद्दिने मुने ॥४॥प्रासादपूर्वभागे तु मण्डपं चतुरश्रकम् ।वितानध्वजसंयुक्तं दर्भमालासमावृतम् ॥५॥पुष्पमाल्यैरलंकृत्य मुक्तादामै(?)रलंकृतम् ।इन्द्रादीशानपर्यन्तं मार्जनं प्रणवेन तु ॥६॥प्रोक्षयेद्गन्धतोयेन द्वादशाक्षरविद्यया ।गोमयेन समालिप्य पूर्वादिक्रमयोगत: ॥७॥प्रदीपं च चतुर्दिक्षु दीपयेत् साधक: क्रमात् ।पालिकाभिरलंकृत्य मण्डपस्य समन्तत: ॥८॥मण्डपस्य च मध्ये तु चतुष्पादासनं न्यसेत् ।तत्रोर्ध्वे छादनं कुर्यात् सितपुष्पं विनिक्षिपेत् ॥९॥अर्चयेद्गन्धपुष्पैस्तु धर्मादिक्रमयोगत: ।बिम्बं तु स्थापयेत्तत्र ब्राह्मणै: स्वस्तिवाच्य च ॥१०॥कौतुकं बन्धयित्वा तु ब्राह्मणनामनुज्ञया ।अङ्गुष्ठानामिकाभ्यां तु द्वादशाक्षरविद्यया ॥११॥मुखवासं ततो दद्यात् तालवृन्तैश्च वीजयेत् ।छत्रचामरसंयुक्तं नृत्तगीतसमन्वितम् ॥१२॥वीणावेणुसमायुक्तं कौतुकं बन्धयेद्धरे: ।शङ्खदुन्दुभिसंयुक्तं स्वस्तिवाचनपूर्वकम् ॥१३॥पादुकाद्वयसंयुक्तं शयने संनिवेशयेत् ।पूर्ववच्छयनं कल्प्य तन्मध्ये देवमानयेत् ॥१४॥दक्षिणे बलभद्रं च पश्चात्तत्राधिवासयेत् ।अष्टाक्षरेण दिग्बन्धं कारयेत् साधकोत्तम: ॥१५॥तथैव विन्यसेद्देवं विष्णुमन्त्रेण साधक: ।पाद्यार्घ्याचमनीयं च गन्धपुष्पं तथैव च ॥१६॥पुण्याहं वाचयेत्तत्र वैष्णवैर्वेदपारगै: ।आचार्य: शुक्लवासास्तु शुक्लयज्ञोपवीतवान् ॥१७॥ऊर्ध्वपुण्ड्रधरश्चैव सपवित्रकरस्तथा ।आजानुपादौ प्रक्षाल्य द्विर्द्विराचमनीयकम्(?) ॥१८॥देवस्य दक्षिणे पार्श्वे उत्तराभिमुखासने ।प्राणायामत्रयं कृत्वा सृष्टिन्यासं तथैव च ॥१९॥तथैव देवं विन्यस्य मन्त्रमष्टाक्षरं मुने ।सौवर्णादिघटं गृह्य शुद्धतोयेन मन्त्रवित् ॥२०॥तत्पात्रं क्षालयेत् पश्चात् विष्णुगायत्रिया मुने ।तोयपूर्णं सुगन्धं च सूत्रवस्त्रसमन्वितम् ॥२१॥धान्यराशौ विनिक्षिप्य तस्य मध्ये महामुने ।मूलबेरात्ततो देवं ध्यायन्नारायाणं प्रभुम् ॥२२॥श्यामलं बालवपुषं कृष्णबेरमुनस्मरन् ।तत्तोयं प्रतिमामूर्ध्नि सेचयेन्मूलविद्यया ॥२३॥कृताञ्जलिपुटो भूत्वा नमस्कृत्य पुन: पुन: ।शयने शाययित्वा तु तं देवं मूलविद्यया ॥२४॥तथैव बलभद्रं च शाययेत्तस्य मन्त्रत: ।वस्त्रैराच्छादयेद्देवं सितपुष्पै: समर्चयेत् ॥२५॥ततो नारायणं सूक्तमुच्चरेत् साधकोत्तम: ।शङ्खदुन्दुभिसंयुक्तं वेदाध्ययनसंयुतम् ॥२६॥वीणावेणुसमायुक्तं झल्लरीमद्दलैर्युतम् ।वारसैरन्ध्रिसंयुक्तमाचार्यो मन्त्रमुच्चरन् ॥२७॥शङ्खादिघोषसंयुक्तं ततो देवं समुद्धरेत् ।गन्धपुष्पं विनिक्षिप्य नमस्कृत्य पुन: पुन: ॥२८॥श्रीरमाज्येन संयुक्तं भलभद्राय दापयेत् ।वैष्णवेभ्य: सदस्यानां सर्वेषां च प्रदापयेत् ॥२९॥क्षीरं दधिघृतं चैव प्रदद्याद्बलकृष्णयो ।कदलीपनसं चैव जम्ब्वादिफलमेव च ॥३०॥तदन्ते देवदेवस्य दापयेन्मूलविद्यया ।तैलं च रजनीचूर्णं तावुभौ मूर्ध्नि सेचयेत् ॥३१॥शेषं च वैष्णवेभ्यस्तु दद्यात् सर्वमथापि वा ।शङ्खदुन्दुभिनिर्घोषै: तूर्यवेणुसमन्वितै: ॥३२॥नृत्तगीतसमायुक्तं ब्राह्मणै: स्वस्तिवाचनम् ।रामकृष्णो तु संस्थाप्य चासने पुष्पसंयुते ॥३३॥अर्घ्यपाद्यादिनाभ्यर्च्य होमकर्म समाचरेत् ।नित्याग्नौ वाथ पूर्वस्मिन् कारयेद्वा महामुने ॥३४॥वैष्णवाग्नौ तु जुहुयात् समिदाज्यचरूणि च ।मूलमन्त्रेण मन्त्रज्ञ: पञ्चविंशतिसंख्यया ॥३५॥प्रत्येकं तु मुनिश्रेष्ठ पश्चाच्छान्तिं समाचरेत् ।मधुना पयसा दध्ना हूयतेन(?) घृतेन च ॥३६॥तथैव जुहुयान्मन्त्रै: पूर्णाहुतिमथाचरेत् ।होमान्ते देवदेवेशं स्नापयेद्विधिचोदितम् ॥३७॥कृष्णगन्धेन काष्ठने उशीरैश्चन्दनेन च ।रजनीद्वयचूर्णेन पुन: कृष्णतिलैस्तथा ॥३८॥सिद्धार्थसर्षपैश्चैव सर्वधान्यानि साधक: ।चूर्णोकृत्य मुनिश्रेष्ठ स्नपनान्तेऽभिषेचयेत् ॥३९॥ततस्तु रजनीचूर्णं स्नापयेद्देवमूर्धनि ।पुष्पं दत्वा नमस्कृत्य मङ्गलालापनं कुरु ॥४०॥शुद्धस्नानं तत: कृत्वा गन्धतोयेन साधक: ।वस्त्राभरणमाल्यैश्च कृत्वा गन्धानुलेपनम् ॥४१॥अर्चयेद्विधिवद्देवं गन्धपुष्पादिभिस्तथा ।अलंकृत्य ततो देवं नीराजनसमन्वितम् ॥४२॥गोदानं भूमिदानं च हिरण्यं वस्त्रभूषणम् ।सर्वदानं भूमिदानं च हिरण्यं वस्त्रभूषणम् ।सर्वदानं ततो दद्यात् ब्राह्मणेभ्यो यथाक्रमम् ॥४३॥तदन्ते वैष्णवान् पूज्य भोजनाच्छादनादिभि: ।ताम्बूलं वाथ सर्वेषां यथावित्तानुसारत:(?) ॥४४॥हिरण्यं वाथ वस्त्रं वा गावो वा धान्यमेव वा ।आचार्याय प्रदातव्यमतिसंपत्तिकारणम् ॥४५॥दानस्यानन्तरं देवमर्घ्यपाद्यादिनार्चयेत् ।पायसं कृसरं गौल्यं शुद्धान्नं च पृथक् पृथक् ॥४६॥कदलीपनसैर्युक्तं देवेशाय निवेदयेत् ।पानीयाचमनीयं च दद्याद्देवाय भक्तित: ॥४७॥भोज्यासनं व्यपोह्याशु देवं भोगासने नयेत् ।देवस्याचमनं दद्यान्मुखवासं प्रदापयेत् ॥४८॥पूर्वमालां विसृज्याथ चान्मालां तु दापयेत् ।देवदेवमलंकृत्य मुखवासं पुनर्ददेत् ॥४९॥नृत्तगीतसमायुक्तं वीणावेणुसमन्वितम् ।देवागारं परिभ्रम्य गर्भगेहे नयेद्धरिम् ॥५०॥प्रभातायां तु शर्वर्यामुत्सवं कारयेत्तत: ।ग्रामे वा नगरे वापि मार्गशुद्धिं च कारयेत् ॥५१॥शिबिकां वा रथं वापि कुञ्जरं वा हयं तु वा ।वस्त्रपुष्पैरलंकृत्य माल्यैश्च विविधैरपि ॥५२॥एवं देवमलंकृत्य स्थापयेद्यानमध्यमे ।ग्रामप्रदक्षिणं कृत्वा गेयनृत्तादिसंयुतम् ॥५३॥पटहैस्तालसंयुक्तं कृत्वा ग्रामं परिभ्रमेत् ।तैलैश्चन्द्रनसंयुक्तं रजनीचूर्णमेव च ॥५४॥दापयेद्वैष्णवानां तु सदस्यानां विशेषत: ।पुन: प्रदक्षिणं कृत्वा देवालयमनुत्तमम् ॥५५॥विधिवत् स्नपनं कृत्वा देवदेवं सनातनम् ।महाहविर्निवेद्याथ गर्भागारे नयेद्धरिम् ॥५६॥इति संक्षेपत: प्रोक्त: कृष्णजन्मदिनोत्सव: ।सर्वपापक्षयकर: सर्वयज्ञफलप्रद: ॥५७॥सायुज्यफलमाप्नोति सत्यमेतन्न संशय: ।इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां जयन्त्युत्सवविधानंनाम त्रिंशोऽध्याय:॥ N/A References : N/A Last Updated : January 09, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP