संस्कृत सूची|संस्कृत साहित्य|संहिता|विश्वक्सेनासंहिता|
सप्तविंशोऽध्याय:

विश्वक्सेनासंहिता - सप्तविंशोऽध्याय:

विश्वक्सेनासंहिता


विष्वक्सेन:--
अथात: संप्रवक्ष्यामि उत्सवस्य विधिं परम् ।
सर्वशान्तिकरं पुण्यं सर्वयज्ञफलप्रदम् ॥१॥
सर्वपापहरं पुंसां सर्वकर्मशुभावहम् ।
राजराष्ट्रविवृद्ध्यर्थं श्रीमत्त्रैलोक्यभूषणम् ॥२॥
उत्सवं त्वेकरात्रं तु त्रिरात्रिकमथापि वा ।
पञ्चरात्रं तु वा विप्र सप्तरात्रमथापि वा ॥३॥
नवरात्रं तु वा कुर्यात् उत्सवस्य तु विस्तरम् ।
एकरात्रोत्सवो ब्राह्म: त्रियह: शैव उच्यते ॥४॥
पञ्चाहश्चैन्द्र विज्ञेय: सप्ताहश्चार्षको भवेत् ।
नवाहो दैविक: प्रोक्त उत्सव: पञ्चधोच्यते ॥५॥
दैविकं सर्वशान्त्यर्थं राज्यवर्धनमार्षकम् ।
ऐन्द्रं दुर्भिक्षनाशार्थं शैवं रोगविनाशनम् ॥६॥
ब्राह्मं तु ब्रह्मवृद्धि: स्यात् उत्सवं पञ्चधा फलम् ।
एकाहं त्रियहं वापि सप्ताहं तु नवाहकम् ॥७॥
*पञ्चाहमादिकालोयमुत्सवं* ह्रासयेन्न तु ।
वर्धयेत्तु यथाकामं ह्रासनं राष्ट्रनाशकृत् ॥८॥
रातविभ्रमकृच्चापि दुर्भिक्षभयकृद्भवेत् ।
उत्सवानां तत: कुर्यात् कारकस्यानुरूपत: ॥९॥
शुभनक्षत्रयोगे च तिथिवारनिरीक्षिते ।
प्रतिष्ठाऋक्षके वाथ नगरग्रामऋके ॥१०॥
राज्ञ: स्वजन्मनक्षत्रे यजमानेच्छया कुरु ।
तत्क्रमं ते प्रवक्ष्यामि हरे: सुरमुने श्रृणु ॥११॥
सवस्त्वमङ्गलं विद्धि ?तन्निरासात्तदुत्सव: ।
पञ्चोत्तरदशाङ्गं च कथ्यते ताननुक्रमात् ॥१२॥
प्रथमं चाङ्कुरावाप: पताकारोहणं तत: ।
शुद्धस्नानं तृतीयं स्यात् स्पपनं तु तत: परम् ॥१३॥
अङ्कुरस्योत्सवं पश्चात् होम: स्याद्भूषणं तत: ।
अष्टमं तु बलिं विद्यात् नवमं तु महोत्सवम् ॥१४॥
तीर्थाधिवासनं पश्चात् तीर्थस्नानमनन्तरम् ।
द्वादशं स्नपनं विद्यात् पुष्पयागमनन्तरम् ॥१५॥
दक्षिणासंप्रदानं च ध्वजस्याप्यवरोहणम् ।
पञ्चोत्तरदशाङ्गोऽयमुत्सव: परिकीर्तित: ॥१६॥
सायंप्रात: कृतेनैव होमेन च समन्वितम् ।
दक्षिण भिश्च संयुक्तं वैष्णवानां च पूजनम् ॥१७॥
आचण्डालान्तमन्नाद्यमुत्सवस्यैष संग्रह: ।
*तद्भूतपितृयक्षाभि: ब्रह्मशैवान्यहानि च*(?) ॥१८॥
वैष्णवानि च शेषाणि सायं प्रातर्बलिं हरेत् ।
सप्ताहे याज्ञिकैर्द्रव्यैर्बलिं कुर्याद्विचक्षण: ॥१९॥
पञ्चाहे ब्रह्मकादि: स्यात् त्रियहे वैष्णवादय: ।
बलिभ्रमणपूर्वं तु होमं कुर्याद्विचक्षण: ॥२०॥
यात्रा चोत्सवबिम्बस्य द्विकालं पश्चिमं भवेत् ।
एककालमथो वापि कारयेत्तन्त्रवित्तम: ॥२१॥
पूर्वाह्णे वाथ मध्याह्ने बलिदानं समाचरेत् ।
बलिभ्रमणवेलायां परिभ्रम्य शनै: शनै: ॥२२॥
शङ्ख दिकुम्भपर्यन्तमष्टमङ्गलकान्(!)क्रमात् ।
ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुक: ॥२३॥
धारयेच्छिरसा विद्वान् वैष्णवान् मङ्गलान् पृथक् ।
एष क्रमो मया प्रोक्तो बलिद्रव्यमथोच्यते ॥२४॥
सिता: सुमनसो रजनीपराग-
लाजादधिकमलं सितचन्दनेन ।
?B अहनि ससक्तु मुनेऽथ भूतसंज्ञे
प्रथमदिने बलिराह तृप्तिकारी ॥२५॥
तिलकुङ्कुमोदाक्षतनीलपुष्पं
द्वितीये पयोमिश्रितं वासरे स्यात् ।
बलिस्तृप्तिकारी पितॄणां तदीये
मुने कथ्यते तत्तृतीये बलिश्च ॥२६॥
रक्तं पुष्पं सर्पिषापूपलाजा:
शरादं वा करम्भेण युक्तम् ।
यक्षाणां तत्तृप्तिहेतोर्मुनीन्द्रै-
रिष्टै: प्राज्ञैरह्निरेषा बले: स्यात् ॥२७॥
एकोदनीलोत्पलनारिकेल-
क्षीरेण शालेरथ पिष्टकं च ।
काकोदराणां दिवसे तुरीये
सक्तूनि चाहुर्बलिमार्यवर्या: ॥२८॥
कमलमक्षतमुत्पलवासितं
जलमथो कमलासनवासरे ।
बलिरयं मुनिभि: परिगीयते
कनकसंनिभपुष्पचयै: सह ॥२९॥
पाटलसुरभितपूतजलैर्वा
वासितकुसुमचयैश्चरुरेषा-
पूपगुलयुत इति षष्ठदिने स्यात्
पावनचोदितहरिदिनपूजा ॥३०॥
विष्णोरुत्सवसप्तमे दिनवरे तत्तृप्तिकारी बलि:
पुष्पं श्यामलमोदनं च सगुलं सन्मल्लिकागन्धिकम् ।
जातीवासितमम्बुपायसमपि स्यादष्टमे वासरे
पुष्पं मेचकमाह नारद महाविष्णोर्दिने स्याद्बलि: ॥३१॥
सदाविष्णोस्तृप्तयै कृसरमशिलैर्गन्धनिवहै:
सदीपैर्युक्तं शीतं जलमखिलवर्णैश्च कुसुमै: ।
बलि: सक्तूपेतं नवमदिवसे नारदमुने
यथावत् कार्योऽयं नृपजनविवृद्ध्यै बलिविधि: ॥३२॥
कुमुदादीनां तु नामानि तेषां च परिवारकम् ।
प्रवक्ष्यामि मुनिश्रेष्ठ समासेन यथाक्रमम् ॥३३॥
कुमुद: कुमुदाक्षश्च पुण्डरीकोऽथ वामन: ।
शङ्कुकर्ण: सर्वनेत्र: सुमुख: सुप्रतिष्ठित: ॥३४॥
देवाश्च तेषां रिपवोऽसुराश्च
गन्धर्वयक्षा: पितरो भुजङ्गा: ।
यक्षाश्च याश्चापि पिशाचजाति:
ये षष्ठको देवगणा ग्रहाख्या: ॥३५॥
बलिं तु मण्डले दद्याद्वेद्यादिक्रमयोगत: ।
चतुष्पथेषु कोणेषु त्रिपथैकपथेषु च ॥३६॥
देवागारेऽथ वल्मीके कूपतीरेऽथ पर्वते ।
तटाके चैत्यवृक्षेषु पर्वतस्य समीपगे (-के?) ॥३७॥
एवमादिषु देशेषु तोरणानि च कारयेत् ।
संस्थाप्य परित: सम्यक् ग्रामाद्यष्टसु वास्तुषु ॥३८॥
उत्थापयित्वा केतूनां तोरणान्ते पृथक् पृथक् ।
अथवाऽत्र मुनिश्रेष्ठ केतून् ग्रामादिवास्तुषु ॥३९॥
अष्टदिक्षु यथायोगं बलिपीठं प्रकल्पयेत् ।
तालद्वयप्रमाणेन विस्तारायामतादृशम् ॥४०॥
मेखलाद्वयसंयुक्तं प्रत्यकं चतुरङ्गुलम् ।
तन्मध्ये कर्णिकां कुर्यात्‌ वृत्तां वा चतुरश्रकाम् ॥४१॥
चतुरङ्गुलमायामां कर्णिकां मुनिसत्तम ।
एवं पीठविधि: प्रोक्तो हरिपार्षदान् श्रृणु ॥४२॥
नारद:---
वद ममाखिल देवगुरोर्गुरो
प्रतिदिशं हरिपारिषदान् क्रमात् ।
बलिभुज: कुमुदादिपुरोहितान्
हरिमहोत्सवकर्मणि वास्तुषु ॥४३॥
विष्वक्सेन:---
अहं खल्वखिलाण्डयोनेरशेषधिषणाधीशितुरप्रमेयस्?यानवरतसुखिनो हरे: महोत्सवादिषु ग्रामादिवास्तुषु ऐन्द्रादिदिक्स्थितानां कुमुदादीनां वर्णरूपवाहनायुधपरिवारमन्त्रार्चनादि यथामति कथयिष्ये---
कुमुदस्तु पुन: शुभ्रो मुकुन्द:(न्द?)पार्षद: कुन्दवासा: त्र्यक्ष: शङ्खचक्रधर: कृताञ्जलिपुटो ग्रामाभिमुखो हस्?त्यारूढो देवग्रहगणमध्ये स्थित: । उत्कट: प्रकटोन्मुखो विमुखोऽश्?वग्रीवोऽश्ववदनोऽश्वजिह्वो हस्तिवक्त्रो कुमुदो हस्तिपाद: केशववामननरकनरमर्दनमन्ददृष्टिकण्डु (कन्दु?) कन्दुकलोचनपटहाक्षविशालाक्षक्षामकक्षमपाण्डरपाण्डुपृष्ठदुर्दिनसुदिनवामदेवमहादेवमहाग्निमधुसूदनकनककालकभावनभवनभानुमद्भानुवेगभास्कराभास्करविश्वसेनविसेनविष्वक्सेनविसारिविस्तारनिस्तरविदण्डिदण्डकामदकामुककामभृत्कामनाशननामभि: पञ्चाशद्भि: पार्षदै: सौम्यै: नानाविधाकारै: परिवृतमेन संस्मृत्य अर्घ्यपाद्याचमनगन्धपुष्पधूपदीपैरभ्यर्च्यानन्तरं तद्दिनविहितहव्यं निवेद्य बलिं दद्यात् अञ्जलिं दर्शयित्वा हरे: मुखादिवासं विधाय (मुखवासं दत्वा?) तद्देवतातृप्त्यर्थं शङ्खदुन्दुभिनृत्तगेयादि कारयेत् ।
कुमुदाक्षं पुन: आग्नेय्यां स्थितं नीलवाससं त्रिणेत्रं काकवक्त्रं चतुर्भुजं मुष्टियुद्धहस्तं खड्गमुद्गरधारिणं महिषारूढं ग्रामाभिमुखमसुरग्रहगणमध्यस्थं आग्नेयनिधनाग्निजिह्वहुताशनाग्निरूपाग्निकेशाग्निवर्णाग्न्यग्निवक्त्रमहावक्त्रमहासेनमहोदरकरालकाकजिह्वकाकवक्त्राग्निवक्त्रमण्डुमण्डूकवक्त्रदेवदेवलकशर्वकशपकशङ्कुशङ्कुश्रवमारीचद्रोणमारीचमहिषमाहिषकुम्भनासविनासकुम्भकर्णविकर्णविदारिविक्रममस्करिमस्करसूकरसूकरास्यशशशशमुखसिंहसिंहमुखनरसिंहनरकालधृक्कालसूत्रसूत्रसूत्रविनालिनालकर्णै: परिवृतं अमुं यथापूर्वमभ्यर्च्य तद्दिनबलिद्रव्यं निवेद्याचमनं दत्वा अञ्जलिमुद्रां दर्शयित्वा बलिबरे मुखवासान्तं विधाय (मुखवासं दत्वा?) तद्दिग्देवतृप्त्यर्थं तूर्याणि घाषयेत् ।
अन्तकाशास्थितं पुण्डरीकं पुण्डरीकत्विषं पुण्डरीकवदनं त्रिलोचनं चतुर्भुजं शङ्खचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखमश्वारूढं पितृग्रहगणमध्यस्थ यमधर्मधरधर्मधर्मराजधनुर्धरविनयप्रश्रयनिश्रेयनिर्गुणालसकुणपक्रूरबाहुकुञ्जरप्रांशुदम?ननिष्कोपनिरनुक्रोशनिर्ममविवाहा (विभवा?) विभवहुताशाह्यू (बहू?)र्ध्वरक्षण संज्ञैकलपाकलकङ्ककटकावटशङ्खीचक्रीगदीखड्गीशार्ङ्गीशार्ङ्गधरवासुदेवभद्रकेतुमत्केतुकक्षमीज्वलनकिंनराश्वत्थसुप्तसुजपनजपपश्चिमकैक्षिकस्वंजबाडवक्षमीभि:परिवृतं पूर्ववदभ्यर्च्य तद्दिनबलिं निवेद्याचमनं [दत्वा] अञ्जलिं दर्शयित्वानन्तरं बलिकौतुके मुखवासं विधाय (दत्वा?) तद्दिग्देवतातृप्त्यर्थं शङ्खादि घोषयेत् ।
निरृत्याशास्थितं वामनं धूम्रवर्णं धूम्रवाससं त्रिणयनं चतुर्भुजं शूलखड्गमुद्गरधरं मुष्टियुद्धहस्तं शकटारूढं ग्रामाभिमुखं यातुग्रहान्त: स्थितं
बलम्बिरृतिप्रकृतिविकृतिसुकृतिदारुणदमकरक्षकलक्षकमाधवमांसकनिष्ठुरखरभाषणप्रलम्?बकप्राणनप्रणयवीरसेनाङ्गदविभाषविभीषणरक्ताक्षलोहिताक्षरक्तजिह्वविजह्वकविद्युत्केशविशालाक्षविक्षरवीरहाक्षरप्राक्षरकामरूपीविरूपीसर्वगसर्वविद्गौरसंभवप्रभववारुणवसुविमर्दमदन (दमन?) वैकर्तनविकर्तृकपर्दीपृथुकन्दकीकन्दकनाकीवरुणारुणै: परिवृतं पूर्ववदभ्यर्च्य तद्दिनबल्याचमनं विधायाञ्जलिं निर्वर्त्य[बलि] कौतुके मुखवासं विधाया (दत्वा?) नन्तरं तूर्याणि घोषयेत् ।
वरुणदिगालयं शङ्कुकर्णं पीतवर्णं त्रिवीक्षणं पीतवाससं चतुर्भुजं शङ्खचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखं व्याघ्रारूढं पितृग्रहगणमध्यस्थं वरुणवारुणपाशीपाशधरगुरुक्षेपणक्षोभणनारदसर्वदरविसुमननामनहंसवैकुण्ठपरमपरहुनमत्वसुमत्भद्रभद्रवप्रभवमहाकर्णविकर्णशशकशलकपिकवानरनरककार्ष्णीकर्णधरांशुमत्चक्रृभृत् [उग्र] वज्रीवज्रनाभविनाभककरप (-भ?) कुरभदाक्षिणदक्षिण सुहृद्दुर्गन्धपूतिगन्धतार्क्ष्यगरुडविरोधरोधकरोधकङ्कणवृकोदरै: परिवृतं पूर्ववदभ्यर्च्य तद्दिनबल्याचमनं दत्वा अञ्जलिं कृत्वा बलिबेरे मुखवासं दत्वा शङ्खादीन् घोषयेत् ।
अथ पुनरनिलदिङ्निलयं अतितप्तहाटकनिभं सर्पनेत्रं त्रिणेत्रं चतुर्भुजं हरिद्रावाससं परशुपाशधरं मुष्टिसंनद्धहस्तं ग्रामाभिमुखं मृगाधिरूढं नागाभरणभूषितं गन्धर्वग्रहगणान्तं: स्थितं मरुन्मारुतगोरुर्व्याखुवायुसुतानिलगलर्तवर्तककंकमार्गणप्राङ्कणाचलबलबलनिधिवीरविरोधरोधकविधिसिद्धवसुयवसंकरधीरकमालीमालाविधिवस्तुसमर्थसमुहोत्सवकर्कटकटकगन्धगन्धवहपरसिक्तवसिक्तरोगीसेवकसेवनसवौषधभेषजरोगीगभवकारणकरणकर्तृगरवीरखल (अखल?) बलवाकुवाहसुचारुभि: परिवृतं यथोक्तमभ्यर्च्याचमनं दत्वा अञ्जलिं दर्शयित्वा बलिबिम्बान्नवास: निर्वर्त्य (बलिबिम्बेमुखवासं तद्दिनबलिं च दत्वा?) दिग्देवतातृप्त्यर्थं शङ्खादीन् घाषयेत् ।
अनन्तरममृतकराशास्थितं श्यामच्छायं श्यामाम्बरधरं त्रिणेत्रं चतुर्भुजं जलजचक्रधरं कृताञ्जलिपुटं ग्रामाभिमुखं यक्षग्रहगणमध्यस्थं सुमुखं मेषारूढं सोमसोमकलसोम (सोम्य?) सामवित्सामनायकसुधासुधाताधातासुराष्ट्रकाष्ठककलिकालधृक्कालचक्रकालकूटविषबलामृतामृतनाथकेयूरीकेवलीबलीविष्णुकृष्णपिशङ्गाङ्गी रेखालेखालेखपिकशुकलूबकशुकश्येनश्येनमुखमार्जारमरुभृद्वालगुल्मकणवककणशेषविशेषोच्छेद (-ष?) कर्दमपूतिविग्रहसाम्बसंवत्सरवेगीवेगधरमरुद्भि: चतुरै राक्षससहस्रगैर्नायकै: परिवृतं सागणध्यानं यथापूर्वमभ्यर्च्य तदद्वारबलिद्रव्यं परिवृतं सगणध्यानं यथापूर्वमभ्यर्च्य तदद्वारबलिद्रव्यं निवेद्यञ्जिलिं दर्शयित्वा [बलि] प्रतिमामुखवासं विधाया(दत्वा)शादेवतातृप्त्यर्थं शङ्खादीन् घोषयेत् ।
अथ पुनरीशानशाप्रतिष्ठितं सुप्रतिष्ठितं सिंहारूढं रजतवर्णं रजतवाससं त्रिणेत्रं चतुर्भुजं खड्गमुद्गदधरं मुष्टियुद्धहस्तं ग्रामाभिमुखं पिशाचग्रहगणमध्यस्थं ईशानेश्वरव्यापीव्यसनविनशबुधधरबकविशवादशकुनिशकटघटवृक्षकक्षक्षमीक्षान्तिमातृरोमकपिञ्जलब्रह्मण्यब्रह्मविद्ब्रह्मीब्रह्मात्मब्रह्मसाधनवेदीवेदविदुद्बन्धशङ्करशङ्करधीमद्विसृष्टिरिष्टात्मदुष्टात्मदुष्टकर्मकृत्विनेतृविगोविन्दगोपतिगोप्तृमहेश्वरै: परिवृतं यथं क्तमभ्यर्च्याचमनं दत्वा तद्दिनबलिं दत्वाञ्जलिं दर्शयित्वा बलिबिम्बाननवासं निर्वर्त्य(दत्वा?) दिग्देवतातृप्त्यर्थं शङ्खादीन् घोषयेत् ।
अनन्तस्थितं पृश्निगर्भं सिद्धग्रहगणान्वितं तप्तजाम्बूनदसंकाशं चतुर्वक्त्रं चतुर्भुजं अक्षसूत्रकमण्डलुधरं पुष्पाञ्जलिधरं हंसाधिरूढं पश्चिमाभिमुखं कमलोद्भवं कमलासनं सिद्धधातृविधातृधातृप्रजापतिलोकेशलोककृत्कर्तृस्रष्ट्रुब्रह्मात्मभसुतापतुलरीतिवर्धनाव्यक्तगुणवद्गौणगुणभुगुद्गीथप्रणवहिरण्यगर्भविरिञ्चपुष्करभासनभासविकर्णविजयरथन्तरच्छन्दोयजुऋगथर्वमरीच्यङ्गिरपुलहक्रतुवसिष्ठप्रचेतशलभभीष्महेमन्तशिशिरकुसुमाकरकलहविराहि (-गि?) अमर्षरोषणशोषणगतिहर्षणवर्धनै: पृश्निगर्भवशानुगै: भीमरूपमहाकायैरसंख्यपरिवारकै: व्याघ्रवक्त्रैर्मेषववत्रै: शशमुखे: स्वस्तिवक्त्रै: व्यालवक्त्रै: वराहवक्त्रै: कुक्कुटवक्त्रै: बलाकवक्त्रै: हंसवक्त्रै: मयूरवक्त्रै: स्वस्तिकास्यै: चक्रवाकाननै: कपोतास्यैरेकनेत्रै: द्विनेत्रै: त्रिणेत्रै: (बहुनेत्रै:?) एकपादै: द्विपादै: बहुपादै: एकवक्त्रै: बहुवक्त्रै: असंख्यै: परिवृतं विष्णुपार्षदेश्वरगणमध्यस्थं
ध्यात्वार्घ्यादिभिरभ्यर्च्य बलिद्रव्यं प्रदायाचमनाञ्जलिं दर्शयित्वा बिम्बाभिमुखं कृत्वा पुष्पाञ्जलि: साधको नमस्कृत्य समस्तमङ्गलवाद्यादि मुखवासं विधाय (दत्वा?) तद्देवतातृप्त्यै शङ्खादीन् घोषयेत् ।
नारद:---
उत्सवेऽर्घ्यप्रदानादि चण्डादीनां गुरोऽस्ति किम् ।
भेद: सामान्यतो वापि मन्त्रं किं वा विधि: प्रभो ॥४४॥
विष्वक्सेन:---
चण्डादिदेवताध्यानं कृत्वा देवमुखे तत: ।
दक्षिणेऽर्घ्यं तथाचामं हस्ते पादे च पाद्यकम् ॥४५॥
ललाटे गन्धमादद्यात् पुष्पं शिरसि धारयेत् ।
नासादक्षिणपार्श्वे तु धूपं दीपं ततो दृशि ॥४६॥
बलिद्रव्यं च पानीयं पुनराचमनं तथा ।
दक्षिणे दोष्णि दद्यात्तु तत्प्रमाणमथो शृणु ॥४७॥
पाद्यार्घ्याचमनीयं तु परिमाणमथेच्यते (?) ।
गन्धं षड्बिन्दुमात्रं तु पुष्पं मुष्टिप्रपूरितम् ॥४८॥
धूपं सुरभिणा व्याप्तं शान्तज्वालोच्छ्रितोत्थितम् ।
बहुरेखमरत्यग्रं(?) दशमात्रं प्रदापेयत् ॥४९॥
दीपं सप्ताङ्गुलोत्थानं घृतकर्पूरदीपितम् ।
धूपवद्दीपयेद्देवमुपचारनिवर्तकम् ॥५०॥
त्रिमात्रकं तु मुद्राया दर्शनं दक्षिणे दृशि ।
इत्थं निर्वर्त्य वाराणां राजराष्ट्रविवृद्धिकृत् ॥५१॥
अन्यथा परिवाराणां अर्चोत्सवविधौ भवेत् ।
राजराष्ट्रविनाशाय दुर्भिक्षानर्थदो भवेत् ॥५२॥
ततश्चण्डादिमन्त्राणां लक्षणं कथ्यतेऽधुना ।
प्रणवादिनमोऽन्तं च नाममन्त्रमिति स्मृतम् ॥५३॥
पीठे पीठे बलिं क्षिप्त्वा ग्राममध्ये समापयेत् ।
भूतकृद्भ्यो नम: सर्वभूतेभ्यश्च नमोऽस्त्विति ॥५४॥
नमोऽस्तु सर्वभूतेभ्य इति मन्त्रमुदीरयेत् ।
तस्मिन् वेद्यादिपर्यन्तं देशे मन्त्रमिति स्मृतम् ॥५५॥
अनुगच्छन्ति ये त्वत्र कौतुकं कौतुकान्विता: ।
पदे पदे क्रतुफलं लभन्ते नात्र संशय: ॥५६॥
शुद्धवासा: शुचिर्भूत्वा कृतदन्तानुधावन: ।
हविष्यभुग् यतात्मा च आचार्यो बलिमाचरेत् ॥५७॥
रात्रौ बलिप्रदानान्ते स्नानं सद्य: समाचरेत् ।
प्रतिष्ठोत्सवहोमेषु स्नपनादौ विशेषत: ॥५८॥
आरभ्य तन्त्रानुक्तं च निरीक्ष्यान्यांस्तु कारयेत् ।
अन्यथा केवलं तन्त्रमेकं वीक्ष्य प्रयोजयेत् ॥५९॥
*तत्संक्षेपं न विस्मृत्य* मोहात् सर्वविनाशकृत् ।
तीर्थपूर्वदिने रात्रावधिवासनमाचरेत् ॥६०॥
यागमण्डपमध्ये वा देवस्य पुरतोऽथवा ।
वेदिं कृत्वाथ शालीभिरष्टद्रोणसमन्वितम् ॥६१॥
तदर्धं तण्डुलं न्यस्य तन्मध्येऽम्बुजमालिखेत् ।
कुशान् संस्तीर्य तन्मध्ये वस्त्राणि परितो न्यसेत् ॥६२॥
गन्धपुष्पै: समास्तीर्य प्रोक्षयेन्मूलविद्यया ।
अष्टदिग्दीपसंयुक्तं कर्पूरागरुधूपितम् ॥६३॥
धूपयित्वा ततो वेदिं तन्मध्ये देवमानयेत् ।
अर्घ्यपाद्यादिनाभ्यर्च्य हविरस्मै तु दापयेत् ॥६४॥
देवस्य पूर्वपार्श्वे तु पूर्णकुम्भं निधाय तु ।
वेष्टितं सूक्ष्मवस्त्रैश्च हेमरत्नसमन्वितम् ॥६५॥
तस्मिन्नावाहयेत् तीर्थान् सरितश्च सरांसि च ।
पूजयित्वैव गन्धाद्यैस्ततो देवं समर्चयेत् ॥६६॥
प्रार्थयेत्तीर्थयात्रार्थं प्रणिपत्यैव देशिक: ।
देवदेव जगन्नाथ नमस्ते लोकभावन ॥६७॥
तीर्थयात्रां कुरुष्व त्वं प्रसीद पुरुषोत्तम ।
प्रार्थचित्वैव देवेशं प्रोक्षयेत् कुम्भवारिणा ॥६८॥
पञ्चमन्त्रैश्च सूक्तेन पौरुषेण च मन्त्रवित् ।
तथा नारायणं सूक्तं सृष्ट्य दिप्रतिपादकम् ॥६९॥
अथर्वणमिदं सूक्तं सर्वकामप्रदं शुभम् ।
आत्मानं च तथाचार्यो वैष्णवांश्चैव सात्त्वतान् ॥७०॥
गङ्गस्नानफलं सर्वं(-र्वे?)लभन्ते प्रोक्षयेत्तदा ।
पुनराचमनं दत्वा गन्धपुष्पादिनार्चयेत् ॥७१॥
हविर्निवेदनं कुर्यादपूपांश्च फलानि च ।
पानीयाचमनं दत्वा मुखवासं तथैव च ॥७२॥
निवेदितं तु तत्सर्वं आचार्याय निवेदयेत् ।
आचार्यस्य मन: प्रीतिरतिसंपत्तिकारिणी ॥७३॥
आचार्यस्यानुरूपेण सात्त्वतेभ्यो निवेदयेत् ।
किञ्चिन्मात्रं गृहीत्वा तु सदस्यानां तु दापयेत् ॥७४॥
पुण्याहं वाचयित्वैव कौतुकं बन्धयेत्तत: ।
दर्शयेद्देवदेवस्य मङ्गलानि यथाक्रमम् ॥७५॥
छत्रं चामरमादर्शं सुमुहर्ते निवेदयेत् ।
शाययेच्छयने दिव्ये देवं मूलेन विद्यया ॥७६॥
आत्मानं कौतुकं बद्ध्वा रात्रिशेषं समापयेत् ।
अथ तीर्थेऽहनि प्राप्ते नित्यकर्म समाप्य च ॥७७॥
मण्डपे मध्यमे भागे सोमेशाने तु लेपयेत् ।
तन्मध्ये शालिना वेदिं कुर्यान्मध्येऽब्जमुत्तमम् ॥७८॥
उलूखलान(-न्य?)लंकृत्य निशाचूर्णै(-खण्डै?)स्तु पूरयेत् ।
पूर्वोक्तेन विधानेन घातयेत्तत्त्रिधा पुन: ॥७९॥
तस्य पश्चिमभागे तु शालिमध्ये महामुने ।
तीर्थार्थं स्थापयेच्चूर्णान् गन्धादीन् क्रमयोगत: ॥८०॥
गन्धचूर्णं तथा पिष्टं चूर्णं रजनिमेव च ।
शालिमध्ये तु संस्थाप्य प्रागादीशावसानकम् ॥८१॥
नववस्त्रैस्तु संवेष्ट्य कलशान्(-शो?)लूखलान्(?)क्रमात् ।
पश्चाद्रजनिचूर्णं तु पूरयेत् कलशे मुने ॥८२॥
अर्घ्यपाद्यादिनाभ्यर्च्य तं देवं मूलविद्यया ।
स्नापयेद्देवदेवस्य मूर्ध्नि पश्चात् समाहित: ॥८३॥
गन्धादिचूर्णान् संगृह्य तीर्थदेशे समाचरेत् ।
चूर्णोत्सवं तत: कुर्यात् चुर्णस्नानसमन्वितम् ॥८४॥
ग्रामं प्रदक्षिणं कृत्वा तीर्थदेशं समानयेत् ।
पुण्याहाज्यारोपणं स्नानवस्त्रं
पाद्यार्घ्यं वै दन्तकाष्ठं च तोयम् ॥८५॥
दत्वादर्शं तैलमुद्वर्तनं च
धात्रीस्नानं स्नानपूर्वोपचारम् ।
स्नानक्रमं प्रवक्ष्यामि नित्ये नैमित्तिकेऽपि च ॥८६॥
काम्ये तु वा प्रकुर्वीत देवदेवस्य शाङ्र्गिण: ।
देवस्य पूर्वभागे तु मण्डलं पञ्चहस्तकम् ॥८७॥
कृत्वा तन्मध्यमे न्यस्य शालिद्रोणद्वयं मुने ।
विस्तीर्य वेदिमध्ये तु तदर्धं तण्डुलं तथा ॥८८॥
तत्र मध्ये न्यसेद्विद्वान् कलशान् द्वादश क्रमात् ।
मध्यमे तु घृतं न्यस्य तत्र पूर्वे दधि न्यसेत् ॥८९॥
दक्षिणे विन्यसेत् क्षीरं मधु वारुणगोचरे ।
सोमे चोष्णोदकं न्यस्य साधक: परमार्थवित् ॥९०॥
आग्नेय्यां गन्धतोयं तु नैरृते पुष्पतोयकम् ।
वायव्ये मङ्गलोदं तु ईशाने शुद्धवारिभि: ॥९१॥
हस्तमुत्सृज्य नवकादैन्द्रे वा चोत्तरेऽथवा ।
स्थापयेत् क्रमयोगेन चूर्णानि क्रमयोगत: ॥९२॥
परमेष्ट्यादिभिर्मन्त्रै: स्नापयेत् पुरुषोत्तमम् ।
ततश्च विमृजेच्चूर्णैर्मूलेनाङ्गादि दैवके ॥९३॥
पुनश्च कुशकूर्चेन मार्जयेद्बिम्बमुत्तमम् ।
एवं वै कलशान् न्यस्य कूर्चद्रव्यात् न्यसेद्बुध: ॥९४॥
चक्रिकां स्थापयेत्तस्मिन् गन्धपुष्पं विनिक्षिपेत् ।
नववस्त्रैस्तु संछाद्य गन्धपुष्पादिनार्चयेत् ॥९५॥
ततस्तु परित: कुर्याद्रक्षार्थं कुमुदादिकान् ।
कुमुदं पूर्वदिग्भागे पुण्डरीकं तु दक्षिणे ॥९६॥
शङ्कुकर्णं प्रतीच्यां तु सुमुखं चोत्तरे न्यसेत् ।
आग्नेये कुमुदाक्षं तु नैरृते वामनं न्यसेत् ॥९७॥
सर्पनेत्रं तु वायव्यामीशाने सुप्रतिष्ठतम् ।
एवं तु कुमुदादींस्तु कलशेषु न्यसेद्बुध: ॥९८॥
तुलसीसहदेवी च बिल्वमौदुम्बरं तथा ।
अश्वत्थं प्लक्षवकुलं सदाभद्रा प्रकीर्तिता: ॥९९॥
एतेषां पल्लवान् गृह्य कलशेषु न्यसेत् क्रमात् ।
पुष्पादिभि: समभ्यर्च्य धूपदीपान्तमेव च ॥१००॥
एवं वै कलशान् न्यस्य द्रव्यदेवान् ब्रवीमि ते ।
शालिनीवारमाषांश्च चन्दनोशीरमेव च ॥१०१॥
पञ्चचूर्णमिति ख्यातं परागाणामनुत्तमम् ।
चन्दनं कुङ्कुमोशीरं चम्पकोत्पलवासितम् ॥१०२॥
गन्धतोयमिति ख्यातं गङ्गावारिसमप्रभम् ।
उत्पलं मल्लिकाजातिपाटलं पद्ममेव च ॥१०३॥
पञ्च पुष्पोदकमिदं पञ्चोपनिषदं न्यसेत् ।
इन्द्रवल्यङ्कुराश्वत्थदलैकं पद्ममेव च ॥१०४॥
एतत्तु कथितं पूर्वं मङ्गलं मङ्गलोदकम् ।
शुद्धतोयं समादाय मन्त्रेण परमेष्ठिना ॥१०५॥
कुशाग्रेण मथित्वा तु देवेशमभिषेचयेत् ।
कुङ्कुमोशीरकुष्ठं च रजनीचन्दनं तथा ॥१०६॥
एतत्तीर्थमयं पुण्यं तीर्थचूर्णमिति स्मृतम् ।
रजनीष्वेकवर्ज्यं तु द्रोणं वाप्यर्धमेव वा ॥१०७॥
आढकं वा तदर्धं वा चूर्णं कुर्यात्तु मन्त्रवित् ।
चूर्णानामप्यलाभे तु रजनीचूर्णमुत्तमम् ॥१०८॥
शालिभिर्वाथ सर्वेषां स्नापयेन्मूलविद्यया ।
घृतादिस्नेहद्रव्याणामाढकं वार्धमेव वा ॥१०९॥
सर्वेषामप्यलाभे तु पूरयेद्गन्धवारिणा ।
तेनैव स्नापयेद्देवं यथावित्तानुसारत:(?) ॥११०॥
यत्प्रोक्तं चोत्सवे पुष्पं तस्या (?) एवं तु मन्त्रवित् ।
तत्तद्दोषं स्मरेत् क्षिप्य तुलसी चोत्पलाक्षतम् ॥१११॥
एवं द्रव्यं तु संप्रोक्तं दैवतं कथयामि ते ।
दामोदरावसानाश्च केशवाद्याश्च मूर्तय: ॥११२॥
घृतादिकलशानां तु देवता: परिकीर्तिता: ।
रक्षार्थं कलशानां तु कुमुदादीनि दैवतम् ॥११३॥
उद्धारणक्रमं येन तत्प्रोक्तं दैवतं क्रमात् ।
एवं संस्थाप्य विधिवत् पश्चाच्छुद्धिं समाचरेत् ॥११४॥
पुण्याहं वाचयित्वा तु प्रोक्षयेत् कुशवारिणा ।
एवं संप्रोक्ष्य विधिवत् तत: स्नपनमाचरेत् ॥११५॥
घृतेन दध्ना पयसा मधुनोष्णाकदकेन च ।
स्नापयेत् पञ्चचूर्णैश्च संप्रपूज्य प्रभुं मुने ॥११६॥
अष्टाक्षरेण गन्धाम्भ: पुष्पाम्भो द्वादशाक्षरै: ।
मङ्गलं विष्णुगायत्र्या शुद्धाम्भ: प्रणवेन तु ॥११७॥
तीर्थचूर्णं तत: स्नाप्य मूलमन्त्रेण साधक: ।
स्नपनान्ते तु संस्थाप्य रजनीचूर्णमुत्तमम् ॥११८॥
आज्यादिनिशि(?)चूर्णान्तं एवं संस्नापयेत् क्रमात् ।
गन्धपुष्पादिनाभ्यर्च्य दीपान्तं च महामुने ॥११९॥
स्नपनान्ते तु मन्त्रज्ञ: कुमुदादींश्च रक्षकान् ।
देवस्य शिरसि भ्राम्य भक्तानां तु प्रदापयेत् ॥१२०॥
एवं तु स्नपनं कृत्वा नदीस्नानं तु कारयेत् ।
तीरे देवं समानीय कुशकूर्चेन मार्जयेत् ॥१२१॥
पाद्यादिदीपपर्यन्तं अर्चयेत् कौतुकं तत: ।
अवगाह्य च तत्तीर्थं तीर्थानावाह्य सर्वत: ॥१२२॥
कृत्वाघमर्षणं तत्र पञ्चमन्त्रै: समाहित: ।
जलकेलिं तत: कृत्वा तीरमासाद्य देशिक: ॥१२३॥
तत्र तीर्थजले स्नात: सर्वपापै: प्रमुच्यते ।
अलंकृत्य तु वस्त्राद्यैर्गन्धपुष्पादिनार्चयेत् ॥१२४॥
हविर्महाहविर्वापि दत्वा नृत्तादि कारयेत् ।
देवस्य पूर्वदिग्देशे बलिं दद्यात् समाहित: ॥१२५॥
नमोऽस्तु सर्वदेवेभ्य एवमुच्चार्य मन्त्रत: ।
पालिकाद्यैरलंकृत्य यानमारोपयेद्धरिम् ॥१२६॥
पुन: प्रदक्षिणं कुर्यात् ग्रामं वा नगरं तु वा ।
आलयं वाप्यभावे तु यथावित्तानुसारत:(!) ॥१२७॥
स्वस्तिवाचनसंयुक्तं शङ्खभेरीरवाकुलम् ।
प्रदीपशतसंयुक्तं नृत्तगीतादिसंयुतम् ॥१२८॥
पुष्पवृष्टिसमायुक्तमक्षता(?) लाजसंयुतम् ।
सामगीतसमायुक्तं जयशब्दसमन्वितम् ॥१२९॥
प्रदक्षिणं परिक्रम्य नद्रुतं नविलम्बितम् ।
यागभूमिं समासाद्य पूजयित्वा यथाक्रमम् ॥१३०॥
स्नपनं विधिवत् कृत्वा पुष्पयागं समारभेत् ।
कृत्वा पद्मं चक्रकं मण्डलं वा
तत्र स्थाने वासुदेवादिकां (-का?) श्च ॥१३१॥
शङ्खाद्या वै बाह्यतो लोकपाला:
विष्वक्सेनो वैनतेयश्च बाह्ये ।
भूतेशा वै बाह्यत: पूजनीया:
गौल्यन्नं वै भक्ष्यमग्नेश्च कार्यम् ॥१३२॥
पुण्याहार्घ्यं पुष्पमेकं बलिं च
पूजापुज्ये मूलबिम्बे स्थितं वै
चक्रलक्षणमार्गे तु शेषमस्मिन्नियोजयेत् ॥१३३॥
ध्वजावरोहणं कुर्यात् उद्वास्यैव तु देवता: ।
दत्वा महाबलिं ताभ्यो मुद्गान्नापूपलाजकै: ॥१३४॥
सक्तुभिर्ग्रामबाह्ये च मध्ये चैव क्षमाप्य च ।
ध्वजाद्विसर्जयेद्देवं वैनतेयं स्वमन्त्रत: ॥१३५॥
एकरात्रिद्विरात्रे वा त्रिरात्रे तु महामुने ।
ध्वजावरोहणं कुर्यात् अधिकं तु न कारयेत् ॥१३६॥
अधिकं यदि चेत्तत्र स्नपनं कारयेत् क्रमात् ।
उत्सवप्रतिमायां तु स्नपनं त्वधमोत्तमम् ॥१३७॥
पञ्चविंशतिभिर्वापि कलशैर्द्वादशैस्तु वा ।
यथावित्तानुसारेण (!) स्नपनं कारयेद्धरिम् ॥१३८॥
ध्वजावरोहणं पश्चात् कारयेन्मन्त्रवित्तम: ।
कर्षणादिषु पूजायां प्रतिष्ठारोहणादिषु ॥१३९॥
ध्वाजारोहणवेलायां ध्वजस्याप्यवरोहणे ।
उत्सवे बलिदाने तु शङ्खाद्यैश्चैव घोषयेत् ॥१४०॥
शङ्खतूर्यादिनिर्घोषं हरितृप्तिकरं मुने ।
रक्षोविद्रावणं चैव राजशान्तिकरं तथा ॥१४१॥
राष्ट्रवृद्धिकरं सम्यक् यजमानसुखावहम् ।
स्नपनस्थापनादीनां या मुद्रा यस्य कथ्यते ॥१४२॥
तां तथाशक्नुवन् कर्तुं मूलमन्त्रं न्यसेत् करे ।
तेन कुर्वन् क्रिया: सर्वा: करेण मुनिपुङ्गव ॥१४३॥
तृतीयं समनुध्यानं ते चान्तेऽञ्जलिकारका: ।
तृप्तिं कुर्वन्ति देवस्य जलस्थानजलेश्वरान्(?) ॥१४४॥
तृप्त (तर्प) येदात्मनस्तृप्तिमिति गुह्योपदेशक: ।
देवोत्सवादिक्रियया नृपस्य
बलायुरारोग्यजयश्रियश्च ॥१४५॥
*राष्ट्रस्य वृद्धिर्धनधान्ययुग्वै
प्रयोजयित्रादि फलं सुखादि* ।
उत्सवाङ्गमथो वक्ष्ये यागमण्डपमुत्तमम् ॥१४६॥
दक्षिणे गोपुरस्यैव आनेय्यां दिशि वै तथा ।
याम्यायामुत्तरे वाथ कारयेद्यागमण्डपम् ॥१४७॥
तत्पूर्वभागे कर्तव्यं कुण्डं लक्षणसंयुतम् ।
कुण्डपार्श्वे मुनिश्रेष्ठ वेदिं कुर्याद्यथाविधि ॥१४८॥
चतुर्हस्तप्रमाणेन कारयेद्वेदिमुत्तमाम् ।
विस्तारायामतुल्या स्याद्यागवेदिर्महामुने ॥१४९॥
त्रिहस्तं वा द्विहस्तं वा कारयेद्वेदिमुत्तमाम् ।
रत्निमात्रसमुत्सेधामथवा तालमात्रकाम् ॥१५०॥
दर्पणोदरसंकाशां यागवेदिमनुत्तमाम् ।
एवं कृत्वा विधानेन वेदिं भुक्तिशुभप्रदाम् ॥१५१॥
तत्रोपरि लिखेत् पद्ममष्टपत्रदलाकृति ।
गोमयेन समालिप्य द्वादशाक्षरविद्यया ॥१५२॥
प्रोक्षयेत्तेन मन्त्रेण कुशपूतेन वारिणा ।
पालिका चाङ्कुरोपेतमष्टमङ्गलसंयुतम् ॥१५३॥
पूर्वादिक्रमयोगेन शङ्खादीन् मङ्गलान्(!)न्यसेत् ।
उत्तमादिक्रमं प्रोक्तं वेदिकालक्षणं मुने ॥१५४॥
पुण्याहं वाचयित्वा तु प्रोक्षयित्वा कुशाम्भसा ।
स्वस्तिसूक्तं ततोच्चार्य(?)ब्राह्मणै: सह मन्त्रवित् ॥१५५॥
तत्र मध्ये मुनिश्रेष्ठ शालिना वेदिमाचरेत् ।
पञ्चभारप्रमाणं वा तस्यार्धं वार्धमेव वा ॥१५६॥
विस्तीर्य वेदिमध्ये तु रक्तशाल्यन्तमेव वा ।
पूर्ववद्विलिखेद्रक्तपद्ममष्टदलैर्युतम् ॥१५७॥
तत्र मध्ये तु संस्थाप्य नवकुम्भान् यथाक्रमम् ।
सूत्रत्रयसमोपेतान् गालितोदकपूरितान् ॥१५८॥
वस्त्रयुग्मैरलंकृत्य गन्धपुष्पसमन्वितान् ।
पञ्चरत्नसमोपेतान् कूर्चत्रयसमन्वितान् ॥१५९॥
अश्?वत्थपल्लवैर्युक्तांश्चक्रिकाभि: पिधाय तु ।
एवं लक्षणसंयुक्तकुम्भेष्वावाहयेत् क्रमात् ॥१६०॥
महाबेरान्नयेच्छक्तिं मध्यकुम्भे महामुने ।
पूर्वादि चष्टकुम्भेषु वासुदेवादिकान् यजेत् ॥१६१॥
अर्घ्यपाद्यादिनाभ्यर्च्य हवींषि मुखवासकम् ।
दापेयत् कुम्भमध्यस्थदेवाय मुनिसत्तम ॥१६२॥
पूर्वादि चाष्टकुम्भेषु तच्छेषेण बलिं क्षिपेत् ।
वासुदेवादिकान् ज्ञात्वा स्वनाम्नैव पृथक् पृथक् ॥१६३॥
ततस्तु कुमुदादीनां कुम्भस्य परितोऽर्चयेत् ।
घण्टाशब्दसमोपेतं कुक्कुटाण्डप्रमाणत: ॥१६४॥
स्वस्तिवाचनसंयुक्तं धूपदीपसमन्वितम् ।
स्वनम्ना बलिदानं तु साधयेत् साधकोत्तम: ॥१६५॥
नारिकेलफलं दद्यात् सन्ध्ययोरेवमर्चयेत् ।
तत्पूजान्ते तु मन्त्रज्ञो होमकर्म समारभेत् ॥१६६॥
अष्टोत्तरशतं वापि तदर्धं वार्धमेव वा ।
समिदादितिलान्तं तु जुहुयात् साधकोत्तम: ॥१६७॥
होमान्ते बलिदानं तु कारयेद्ग्रामवास्तुषु ।
ततस्तीर्थस्य दिवसे पूर्वाह्णे होमपूजनम् ॥१६८॥
कारयेत् पूर्ववत् सम्यक् साधक: परमार्थवित् ।
होमान्ते चानयेत् कुम्भात्तच्चक्षुर्मूलबेरके ॥१६९॥
ततस्तु वासुदेवादीन् नयेत् पूर्ववदावृते ।
वत्सरे वत्सरे ब्रह्मन् कर्तव्यं परमं शुभम् ॥१७०॥
नित्यपूजाविहीनस्य प्रायश्चित्तं महोत्सवम् ।
एवं संपूजयेद्देवं चोत्सवे यागमण्डपे ॥१७१॥
तीर्थस्य दिवसं यावत्तावत् संपूजयेत् क्रमात् ।
यागमण्डपपूजायामङ्कुरार्पणपूजने ॥१७२॥
बलिशेषं होमशेषं पात्रशेषं तथैव च ।
अस्मिन्निवेदितं सर्वमाचार्याय प्रदापयेत् ॥१७३॥
अन्यथा निष्फलं याति यजमानस्य रोगकृत् ।
तस्मात् सर्वप्रयत्नेन कारयेच्छास्त्रचोदितम् ॥१७४॥
य: कारयेत्तु मतिमान् तत्फलं समवाप्नुयात् ।
यागमण्डपपूजां तु विना चेदुत्सवं कुरु ॥१७५॥
केवलं होममात्रेण चाप्यलं तु महोत्सवम् ।
धन्यं यशस्यमायुष्यं सर्वपापनिकृन्तनम् ॥१७६॥
इति श्रीपाञ्चारात्रे विष्वक्सेनसंहितायां [उत्सवविधिर्नाम]
सप्तविंशोऽध्याय: ।

N/A

References : N/A
Last Updated : January 09, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP