संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - नवचत्वारिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव नवचत्वारिंशोऽध्यायः Translation - भाषांतर स्कन्दः - पुरा मगधदेशीयो ब्राह्मणो वेदपारगः । उचथ्यतनयो वाग्मी वेदार्थप्रवणे धृतः ॥१॥नाम्ना सुदर्शनो विप्रान् पाठयन् शास्त्रमुत्तमम् । वेदान्तपरया भक्त्या वर्णाश्रमरतः सदा ॥२॥मोक्षमिच्छेदपि सदा विप्रोऽपि च जनार्दनात् । विष्णुपूजापरो नित्यं विष्णुक्षेत्रेषु संवसन् ॥३॥गोपीचन्दनफालोसौ तुलस्यैवार्चयद्धरिम् । उवास नियतं विप्रो विष्णुध्यानपरायणः ॥४॥दशवर्षमिदं तस्य कृत्यं दृष्ट्वा जनार्दनः । मोक्षोच्छोराजुहावैनं पुरतोद्भूय(?)तं द्विजम् ॥५॥विष्णुः - औचथ्य मुनिशार्दूल तपस्यभिरतः सदा । वृणु ददाम्येव विना ज्ञानं द्विजोत्तम ॥६॥सूतः - इति विष्णोर्गिरं श्रुत्वा विप्रः किञ्चिद्भयान्वितः । प्रणिपत्याह तं विष्णुं स्तुवन्नारायणेति तम् ॥७॥सुदर्शनः - विष्णो जिष्णो नमस्तेऽस्तु शङ्खचक्रगदाधर । त्वत्पादनलिनं प्राप्तो ज्ञानायानर्हणः किमु ॥८॥किमन्यैर्धर्मकामाथैर्नश्वरैरिह शङ्खभृत् । इत्युक्तं तद्वचः श्रुत्वा विष्णुः प्राह सुदर्शनम् ॥९॥विष्णुः - सुदर्शन श्रृणुष्वैतन्मत्तो नान्यमना द्विज । वदामि ते हितं सत्यं मया प्राप्तं यथा तव ॥१०॥मदर्चनेन ध्यानेन मोक्षेच्छा जायते नृणाम् । मोक्षदाता महादेवो ज्ञानविज्ञानदायकः ॥११॥तदर्चनेन संप्राप्तं मया पूर्वं सुदर्शनम् । सहस्रारं दैत्यहन्तृ साक्षात् त्र्यक्षप्रपूजया ॥१२॥तमाराधय यत्नेन भस्मधारणपूर्वकम् । अग्निरित्यादिभिर्मन्त्रिअस्त्रियायूषत्रिपुण्ट्रकैः ॥१३॥रुद्राक्षधारको नित्यं रुद्रपञ्चाक्षरादरः । शिवलिङ्गं बिल्वपत्रैः पूजयन् ज्ञानवान् भव ॥१४॥वसन् क्षेत्रे महेशस्य स्नाहि तीर्थे च शाङ्करे । अहं ब्रह्मादयो देवाः पूजयैव पिनाकिनः ॥१५॥बलिनः शिवलिङ्गस्य पूजया विप्रसत्तम । यस्य फालतलं मेऽद्य त्रिपुण्ट्रपरिचिन्हितम् ॥१६॥ब्रह्मेन्द्रद्वमुनिभिस्त्रिपुण्ट्रं भस्मना धृतम् । पश्य वक्षसि बाह्वोर्मे रुद्राक्षाणां स्रजं शुभाम् ॥१७॥पञ्चाक्षरजपासक्तो रुद्राध्यायपरायणः । त्रिकालमर्चयामीशं बिल्वपत्रैरहं शिवम् ॥१८॥कमला विमला नित्यं कोमलैर्बिल्वपल्लवैः । पूजयन्त्यनिशं लिङ्गे तथा ब्रह्मादयः सुराः ॥१९॥मुनयो मनवोऽप्येवं तथान्ये द्विजसत्तमाः । नृपासुरास्तथा दैत्या बलिनः शिवपूजया ॥२०॥ज्ञानं मोक्षस्तथा भाग्यं लभ्यते शङ्करार्चनात् । तस्मात् त्वमपि भक्त्यैव समाराधय शङ्करम् ॥२१॥पशवो विष्णुविधयस्तथान्ये मुनयः सुराः । सर्वेषाः पतिरीशानस्तत्प्रसादाद्विमुक्तिभाक् ॥२२॥प्रसादजनकं तस्य भस्मधारणमेव हि । प्रसादजनकं तस्य मुने रुद्राक्षधारणम् ॥२३॥प्रसाजनकस्तस्य रुद्राध्यायजपः सदा । प्रसादजनकस्तस्य पञ्चाक्षरजपो द्विज ॥२४॥प्रसादजनकं तस्य शिवलिङ्गैकपूजनम् । प्रसादे शांभवे जाते भुक्तिमुक्तीकरे स्थिते ॥२५॥तस्य भक्त्यैव सर्वेषां मोचनं भवपाशतः । तस्य प्रीतिकरं साक्षाद्विल्वैर्लिङ्गस्य पूजनम् ॥२६॥तस्य प्रीतिकरं साक्षाच्छिवक्षेत्रेषु वर्तनम् । तस्य प्रीतिकरं साक्षात् शिवतीर्थनिषेवणम् ॥२७॥तस्य प्रीतिकरं भस्मरुद्राक्षधारणम् । तस्य प्रीतिकरं प्रदोषे शिवपूजनम् ॥२८॥तस्य प्रीतिकरं रुद्रपञ्चाक्षरावृतिः । तस्य प्रीतिकरं शिवभक्तजनार्चनम् ॥२९॥तस्य प्रीतिकरं सोमे सायन्तनार्चनम् । तस्य प्रीतिकरं तन्निर्माल्यैकभोजनम् ॥३०॥तस्य प्रीतिकरं अष्टमीषवर्चनं निशि । तस्य प्रीतिकरं चतुर्दश्यर्चनं निशि ॥३१॥तस्य प्रीतिकरं तन्नाम्नां स्मृतिरेव हि । एतावानेन धर्मो हि शम्भोः प्रियकरो महान् ॥३२॥अन्यदभ्युदयं विप्रं श्रुतिस्मृतिषु कीर्तितम् । धर्मो वर्णाश्रमप्रोक्तो मुनिभिः कथितो मुने ॥३३॥अविमुक्ते विशेषे शिवो नित्यं प्रकाशते । तस्मात् काशीति तत् प्रोक्तं यतो हीशः प्रकाशते ॥३४॥तत्रैवामरणं तिष्ठेदिति जाबालिकी श्रुतिः । तत्र विश्वेश्वरे लिङ्गे नित्यं ब्रह्म प्रकाशते ॥३५॥तत्रान्नपूर्णा सर्वेषां भुक्त्यन्नं संप्रयच्छति । तत्रास्ति मणिकर्णाख्यं मणिकुण्डं विनिर्मितम् ॥३६॥ज्ञानोदयोऽपि तत्रास्ति सर्वेषां ज्ञानदायकः । तत्र याहि मया सार्धं तत्रैव वस वै मुने ॥३७॥तत्रान्ते मोक्षदं ज्ञानं ददातीश्वर एव हि । इत्युक्त्वा तेन विप्रेण ययौ काशीं हरिः स्वयम् ॥३८॥स्नात्वा तीर्थे चक्रसंज्ञे ज्ञानवाप्यां हरिद्विजः (?) । तं द्विजं स्नापयामास भस्मनापादमस्तकम् ॥३९॥धृतत्रिपुण्ड्ररुद्राक्षं कृत्वा तं च सुदर्शनम् । पूजयच्चाथ विश्वेशं पूजयामास च द्विजान् ॥४०॥बिल्वैर्गन्धाक्षतैर्दीपैर्नैवेद्यैश्च मनोहरैः । तुष्टाव प्रणिपत्यैवं सद्विजो मधुसूदनः ॥४१॥सुदर्शनविष्णू - भज भज भसितानलोज्वलाक्षं भुजगाभोगभुजङ्गसङ्गहस्तम् ।भवभीममहोग्ररुद्रमीड्यं भवभर्जकतर्जकं महैनसाम् ॥४२॥वेदघोषभटखाटकावधृक् देहदाहदहनामल काल ।जूटकोटिसुजटातटिदुद्यद्रागरञ्जितटिनीशशिमौले ॥४३॥शंबराङ्कवरभूष पाहि मामम्बरान्तरचरस्फुटवाह ।वारिजाद्यघनघोष शङ्कर त्राहि वारिजभवेड्य महेश ॥४४॥मदगजवरकृत्तिवास शंभो मधुमदनाक्षिसरोरुहार्च्यपाद ।यममददमनान्धशिक्ष शंभो पुरहर पाहि दयाकटाक्षसारैः ॥४५॥अपां पुष्पं मौलौ हिमभयहरः फालनयनः जटाजूटे गङ्गाऽम्बुजविकसनः सव्यनयनः । गरं कण्ठे यस्य त्रिभुवनगुरोः शंबरहर मतङ्गोद्यत्कृत्तेर्भवहरणपादाब्जभजनम् ॥४६॥श्रीबिल्वमूलशितिकण्ठमहेशलिङ्गं बिल्वाम्बुजोत्तमवरैः परिपूज्य भक्त्या ।स्तम्बेरमाङ्गवदनोत्तमसङ्गभङ्ग राजद्विषाङ्गपरिसङ्गमहेशशाङ्गम् ॥४७॥यो गौरीरमणार्चनोद्यतमतिर्भूयो भवेच्छांभवो भक्तो जन्मपरंपरासु तु भवेन्मुक्तोऽथ मुक्त्यङ्गना - कान्तस्वान्तनितान्तशान्तहृदये कार्तान्तवार्तोज्झितः ।विष्णुब्रह्मसुरेन्द्ररञ्जितमुमाकान्तांघ्रिपङ्केरुह - ध्यानानन्दनिमग्नसर्वहृदयः किञ्चिन्न जानात्यपि ॥४८॥कामारातिपदाम्बुजार्चनरतः पापानुतापाधिकव्यापारप्रवणप्रकीर्णमनसा पुण्यैरगण्यैरपि ।नो दूयेत विशेषसन्ततिमहासारानुकारादरादाराग्राहकुमारमारसुशराद्याघातभीतैरपि ॥४९॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे विष्णूचथ्यसंवादे शिवस्य ज्ञानदातृत्वनिरूपणं नाम एकोनपञ्चाशोऽध्यायः ॥ N/A References : N/A Last Updated : April 17, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP