संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| षष्ठोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - षष्ठोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव षष्ठोऽध्यायः Translation - भाषांतर ईश्वरः - व्रतानि मिथ्या भुवनानि मिथ्या भावादि मिथ्या भवानि मिथ्या ।भयं च मिथ्या भरणादि मिथ्या भुक्तं च मिथ्या बहुबन्धमिथ्या ॥१॥वेदाश्च मिथ्या वचनानि मिथ्या वाक्यानि मिथ्या विविधानि मिथ्या ।वित्तानि मिथ्या वियदादि मिथ्या विधुश्च मिथ्या विषयादि मिथ्या ॥२॥गुरुश्च मिथ्या गुणदोषमिथ्या गुह्यं च गणना च मिथ्या ।गतिश्च मिथ्या गमनं च मिथ्या ( सर्वं च मिथ्या ) गदितं च मिथ्या ॥३॥वेदशास्त्रपुराणं च कार्यं कारणमीश्वरः । लोको भूतं जनं चैव सर्वं मिथ्या न संशयः ॥४॥बन्धो मोक्षः सुखं दुःखं ध्यानं चित्तं सुरासुराः । गौणं मुख्यं परं चान्यत् सर्वं मिथ्या न संशयः ॥५॥वाचा वदति यत्किञ्चित् सर्व मिथ्या न संशयः ।सङ्कल्पात् कल्प्यते यद्यत् मनसा चिन्त्यते च यत् ॥६॥बुद्ध्या निश्चीयते किञ्चित् चित्तेन नीयते क्कचित् । प्रपञ्चे पञ्चते यद्यत् सर्व मिथ्येति निश्चयः ॥७॥श्रोत्रेण श्रूयते यद्यन्नेत्रेण च निरीक्ष्यते । नेत्रं श्रोत्रं गात्रमेव सर्वं मिथ्या न संशयः ॥८॥इदमित्येव निर्दिष्टमिदमित्येव कल्पितम् । यद्यद्वस्तु परिज्ञातं सर्वं मिथ्या न संशयः ॥९॥कोऽहं किन्तदिदं सोऽहं अन्यो वाचयते नहि । यद्यत् संभाव्यते लोके सर्वं मिथ्येति निश्चयः ॥१०॥सर्वभास्यं सर्वगोप्यं सर्वकारणविभ्रमः । सर्वभूतेति वार्ता च मिथ्येति च विनिश्चयः ॥११॥सर्वभेदप्रभेदो वा सर्वसंकल्पविभ्रमः । सर्वदोषप्रभेदश्च सर्वं मिथ्या न संशयः ॥१२॥रक्षको विष्णुरित्यादि ब्रह्मसृष्टेस्तु कारणम् । संहारे शिव इत्येवं सर्वं मिथ्या न संशयः ॥१३॥स्नानं जपस्तपो होमः स्वाध्यायो देवपूजनम् । मन्त्रो गोत्रं च सत्सङ्गः सर्वं मिथ्या न संशयः ॥१४॥सर्व मिथ्या जगन्मिथ्या भूतं भव्यं भवत् तथा । नास्ति नास्ति विभावेन सर्वं मिथ्या न संशयः ॥१५॥चित्तभेदा जगद्भेदः अविद्यायाश्च संभवः । अनककाटिब्रह्माण्डाः सर्व ब्रह्मेति निश्चिनु ॥१६॥लोकत्रयेषु सद्भावो गुणदोषादिजृंभणम् । सर्वदशिकवार्तोक्तिः सर्व ब्रह्मेति निश्चिनु ॥१७॥उत्कृष्टं च निकृष्टं च उत्तमं मध्यमं च तत् । ओंकारं चाप्यकारं च सर्व ब्रह्मेति निश्चिनु ॥१८॥यद्यज्जगति दृश्येत यद्यज्जगति बीक्ष्यते । यद्यज्जगति वर्तेत सर्व ब्रह्मेति निश्चिनु ॥१९॥येन केनाक्षरेणोक्तं येन केनापि सङ्गतम् । येन केनापि नीतं तत् सर्व ब्रह्मेति निश्चिनु ॥२०॥येन केनापि गदितं येन केनापि मोदितम् । येन केनापि च च प्रोक्तः (?) सर्व ब्रह्मेति निश्चिनु ॥२१॥येन केनापि यद्दतं येन केनापि यत् कृतम् । यत्र कुत्र जलस्नानं सर्व ब्रह्मेति निश्चिनु ॥२२॥यत्र यत्र शुभं कर्म यत्र यत्र च दुष्कृतम् । यद्यत् करोषि सत्येन सर्व मिथ्येति निश्चिनु ॥२३॥इदं सर्वमहं सर्वं सर्वं ब्रह्मेति निश्चिनु । यत् किञ्चित् प्रतिभातं च सर्व मिथ्येति निश्चिनु ॥२४॥ऋभुः - पुनर्वक्ष्ये रहृस्यानां रहस्यं परमाद्भुतम् । शङ्करेण कुमाराय प्रोक्तं कैलासपर्वते ॥२५॥तन्मात्रं सर्वचिन्मात्रमखण्डैकरसं सदा । एकवर्जितचिन्मात्रं सर्व चिन्मयमेव हि ॥२६॥इदं च सर्वं चिन्मात्रं सर्वं चिन्मयमेव हि । आत्माभासं च चिन्मात्रं सर्व चिन्मयमेव हि ॥२७॥सर्वलोकं च चिन्मात्रं सर्वं चिन्मयमेव हि । त्वत्ता मत्ता च चिन्मात्रं चिन्मात्रान्नास्ति किञ्चन ॥२८॥आकाशो भूर्जलं वायुरग्निर्ब्रह्मा हरिः शिवः । यत्किञ्चिदन्यत् किञ्चिच्च सर्व चिन्मयमेव हि ॥२९॥अखण्डैकरसं सर्वं यद्यच्चिन्मात्रमेव हि । भूतं भव्यं च चिन्मात्रं सर्व चिन्मयमेव हि ॥३०॥द्रव्यं कालाश्च चिन्मात्रं ज्ञानं चिन्मयमेव च । ज्ञेये च चिन्मात्रं सर्व चिन्मयमेव हि ॥३१॥संभाषणं च चिन्मात्रं वाक् च चिन्मात्रमेव हि । असच्च सच्च चिन्मात्रं सर्व चिन्मयमेव हि ॥३२॥आदिरन्तं(?)च चिन्मात्रं अस्ति चेच्चिन्मयं सदा । ब्रह्मा यद्यपि चिन्मात्रं विष्णुश्चिन्मात्रमेव हि ॥३३॥रुद्रोऽपि देवाश्चिन्मात्रं नरतिर्यक्सुरासुरम् । गुरुशिष्यादि सन्मात्रं ज्ञानं चिन्मयमेव हि ॥३४॥दृग्दृश्यं चापि चिन्मात्रं ज्ञाता ज्ञेयं ध्रुवाध्रुवम् । सर्वाश्चर्यं च चिन्मात्रं देहं चिन्मयमेव हि ॥३५॥लिङ्गं चापि च चिन्मात्रं कारणं कार्यमेव च । मूर्तीमूर्तं च चिन्मात्रं पापपुण्यमथापि च ॥३६॥द्वैताद्वैतं च चिन्मात्रं वेदवेदान्तमेव (?) च । दिशोऽपि विदिशश्चैव चिन्मात्रं तस्य पालकाः ॥३७॥चिन्मात्रं व्यवहारादि भूतं भव्यं भवत् तथा । चिन्मात्रं नामरूपं च भूतानि भुवनानि च ॥३८॥चिन्मात्रं प्राण एवह चिन्मात्रं सर्वभिन्द्रियम् । चिन्मात्रं पञ्चकोशादि चिन्मात्रानन्दमुच्यते ॥३९॥नित्यानित्य च चिन्मात्रं सर्वं विन्मात्रमेव हि ।चिन्मात्रं नास्ति नित्यं च चिन्मात्रं नास्ति सत्यकम् ॥४०॥चिन्मात्रमपि वैराग्यं चिन्मात्रकमिदं किल । आधारादि हि चिन्मात्रं आधेयं च मुनीश्वर ॥४१॥यच्च यावच्च चिन्मात्रं यच्च यावच्च दृश्यते । यच्च यावच्च दूरस्थं सर्वं चिन्मात्रमेव हि ॥४२॥यच्च यावच्च भूतानि यच्च यावच्च वक्ष्यते । यच्च यावच्च वेदोक्तं सर्वं चिन्मात्रमेव हि ॥४३॥चिन्मात्रं नास्ति बन्धं च चिन्मात्रं नास्ति मोक्षकम् ।चिन्मात्रमेव सन्मात्रं सत्यं सत्यं शिवं स्पृशे ॥४४॥सर्व वेदत्रयप्रोक्तं सर्व चिन्मात्रमेव हि । शिवप्रोक्तं कुमाराय तदेतत् कथितं त्वयि ।यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥४५॥सूतः - ईशावास्यादिमन्त्रैर्वरगगनतनोः क्षेत्रवासार्थवादैः तल्लिङ्गागारमध्यस्थितसुमहदीशान (?) लिङ्गेषु पूजा ।अक्लेद्ये चाभिषेको ........ .......... ......... दिग्वाससे वासदानं नो गन्धघ्राणहीने रूपदृश्याद्विहीने गन्धपुष्पार्पणानि (?) ॥४६॥स्वाभासे दीपदानं ........ ....... सर्वभक्षे महेशे नैवेद्यं नित्यतृप्ते सकलभुवनगे प्रक्रमो वा नमस्या ।कुर्यां केनापि भावैर्मम निगमशिरोभाव एव प्रभाणम् ॥४७॥अविच्छिन्नैश्छिन्नैः परिकरवरैः पूजनधिया भजन्त्यज्ञास्तद्ज्ञाः विधिविहितबुद्ध्यागतधियः ।तथापीशं भावैर्भजति भजतामात्मपदवीं ददातीशो विश्वं भ्रमयति गतज्ञांश्च कुरुते ॥४८॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाधसंवादे प्रपञ्चस्य सच्चिन्मयत्वकथनं नाम षष्ठोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP