संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| दशमोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - दशमोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव दशमोऽध्यायः Translation - भाषांतर नित्यतर्पणमाचक्ष्ये निदाघ श्रृणु मे वचः । वेदशास्त्रेषु सर्वेषु अत्यन्तं दुर्लभं नृणाम् ॥१॥सदा प्रपञ्चं नास्त्येव इदमित्यपि नास्ति हि । ब्रह्ममात्रं सदापूर्णं इत्येवं ब्रह्मतर्पणम् ॥२॥सरूपमात्रं ब्रह्मैव सच्चिदानन्दमप्यहम् । आनन्दघन एवाहं इत्येवं ............ ............ ॥३॥सर्वदा सर्वशून्योऽहं सदात्मानन्दवानहम् । नित्यानित्यस्वरूपोऽहं इत्येवं ............ ............ ॥४॥अहमेव चिदाकाश आत्माकाशोऽस्मि नित्यदा । आत्मानाऽऽत्मनि तृप्तोऽहं इत्येवं ............ ............ ॥५॥एवत्वसंख्याहीनोऽस्मि अरूपोऽस्म्यहमद्वयः । नित्यशुद्धस्वरूपोऽहं इत्येवं ............ ............ ॥६॥आकाशादपि सूक्ष्मोऽहं अत्यन्ताभावकोऽस्म्यहम् । सर्वप्रकाशरूपोऽहं इत्येवं ............ ............ ॥७॥परब्रह्मस्वरूपोऽहं परावरसुखोऽस्म्यहम् । सत्रामात्रास्वरूपोऽहं दृग्दृश्यादिविवर्जितः ॥८॥यत् किञ्चिदप्यहं नास्ति तूष्णीं तूष्णीमिहास्म्यहम् । शुद्धमोक्षस्वरूपोहं इत्येवं ब्रह्मतर्पणम् ॥९॥सर्वानन्दस्वरूपोऽहं ज्ञानानन्दमहं सदा । विज्ञानमात्ररूपोऽह इत्येवं ............ ............ ॥१०॥ब्रह्ममात्रमिदं सर्वं नास्ति नान्यत्र ते शपे । तदेवाहं न सन्देहः इत्येवं ............ ............ ॥११॥त्वमित्येतत् तदित्येतन्नास्ति नास्तीह किञ्चन । शुद्धचैतन्यमात्रोऽहं इत्येवं ............ ............ ॥१२॥अत्यन्ताभावरूपोऽहमहमेव परात्परः । अहमेव सुखं नान्यत् इत्येवं ............ ............ ॥१३॥इदं हेममयं किञ्चिन्नास्ति नास्त्येव ते शपे । निर्गुणानन्दरूपोऽहं इत्येवं ............ ............ ॥१४॥साक्षिवस्तुविहीनत्वात् साक्षित्वं नास्ति मे सदा । केवलं ब्रह्मभावत्वात् इत्येवं ............ ............ ॥१५॥अहमेवाविशेषोऽहं अहमेव हि नामकम् । अहमेव विमोहं वै इत्येवं ............ ............ ॥१६॥इन्द्रियाभावरूपोऽहं सर्वाभावस्वरूपकम् । बन्धमुक्तिविहीनोऽस्मि इत्येवं ............ ............ ॥१७॥सर्वानन्दस्वरूपोऽहं सर्वानन्दघनोऽस्म्यहम् । नित्यचैतन्यमात्रोऽहं इत्येवं ............ ............ ॥१८॥वाचामगोचरश्चाहं वाड्मनो नास्ति किञ्चन । चिदानन्दमयश्चाहं इत्येवं ............ ............ ॥१९॥सर्वत्र पूर्णरूपोऽहं सवत्र सुखमस्म्यहम् । सर्वत्राचिन्त्यरूपोऽहं इत्येवं ............ ............ ॥२०॥सर्वत्र तृप्तिरूपोऽहं सर्वानन्दमयोऽस्म्यहम् । सर्वशून्यस्वरूपोऽहं इत्येवं ............ ............ ॥२१॥सर्वदा मत्स्वरूपोऽहं परमानन्दवानहम् । एक एवाहमेवाहं इत्येवं ............ ............ ॥२२॥मुक्तोऽहं मोक्षरूपोऽहं सर्वमौनपरोऽस्म्यहम् । सर्वनिर्वाणरूपोऽहं इत्येवं ............ ............ ॥२३॥सर्वदा सत्स्वरूपोऽहं तुर्यवानहम् । तुर्यातीतस्वरूपोऽहं इत्येवं ............ ............ ॥२४॥सत्यविज्ञानमात्रोऽहं सन्मात्रानन्दवानहम् । निर्विकल्पस्वरूपोऽहं इत्येवं ............ ............ ॥२५॥सर्वदा ह्यजरूपोऽहं निरीहोऽहं निरञ्जनः । ब्रह्मविज्ञानरूपोऽहं इत्येवं ............ ............ ॥२६॥ब्रह्मतर्पणमेवोक्तं एतत्प्रकरणं मया । यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥२७॥नित्यहोमं प्रवक्ष्यामि सर्ववेदेषु दुर्लभम् । सर्वशास्त्रार्थमद्वैतं सावधानमनाः श्रृणु ॥२८॥अहं ब्रह्मास्मि शुद्धोऽस्मि नित्योऽस्मि प्रभुरस्म्यहम् ।ओंकारार्थस्वरूपोऽस्मि एवं होमं (?) सुदुर्लभम् ॥२९॥परमात्मस्वरूपोऽस्मि परानन्दपरोऽस्म्यहम् । चिदानन्दस्वरूपोऽस्मि एवं ......... ......... ॥३०॥नित्यानन्दस्वरूपोऽस्मि निष्कलङ्कमयो ह्यहम् । चिदाकारस्वरूपोऽहं एवं ......... ......... ॥३१॥न हि किञ्चित् स्वरूपोऽस्मि नाहमस्मि न सोऽस्म्यहम् । निर्व्यापारस्वरूपोऽस्मि एवं ......... ......... ॥३२॥निरंशोऽस्मि निराभासो न मनो नेन्द्रियोऽस्म्यहम् । न बुद्धिर्न विकल्पोऽहं एवं ॥३३॥न देहादिस्वरूपोऽस्मि त्रयादिपरिवर्जितः । न जाग्रत्स्वप्नरूपोऽस्वि एवं ......... ......... ॥३४॥श्रवणं मननं नास्ति निदिध्यासनमेव हि । स्वगतं च न मे किञ्चिदेवं एवं ......... ......... ॥३५॥असत्यं हि मनःसत्ता असत्यं बुद्धिरूपकम् । अहङ्कारमसद्विद्वि कालत्रयमसत् सदा ॥३६॥गुणत्रयमसद्विद्वि एवं ......... ......... ॥३७॥श्रुतं सर्वमसद्विद्वि वेदं सर्वमसत् सदा । सर्वतत्वमसद्विद्वि एवं ......... ......... ॥३८॥नानारूपमसद्विद्वि नानावर्णमसत् सदा । नानाजातिमसद्विद्वि एवं ......... ......... ॥३९॥शास्त्रज्ञानमसद्विद्वि वेदज्ञानं तपोऽप्यसत् । सर्वतीर्थमसद्विद्धि एवं ......... ......... ॥४०॥गुरुशिष्यमसद्विद्वि गुरोर्मन्त्रमसत् ततः । यद् दृश्यं तदसद्विद्वि एवं ......... ......... ॥४१॥सर्वान् भोगानसद्विद्वि यच्चिन्त्यं तदसत् सदा । यद् दृश्यं तदसद्विद्वि एवं ......... ......... ॥४२॥सर्वेन्द्रियमसद्विद्वि सर्वमन्त्रमसत् त्विति । सर्वप्राणानसद्विद्वि एवं ......... ......... ॥४३॥जीवं देहमसद्विद्वि परे ब्रह्मणि नैव हि । मयि सर्वमसद्विद्वि एवं ......... ......... ॥४४॥दृष्टं श्रुतमसद्विद्वि ओतं प्रोतमसन्मयि । कार्याकार्यमसद्विद्वि एवं ......... ......... ॥४५॥दृष्टप्राप्तिमसद्विद्वि सन्तोषमसदेव हि । सर्वकर्मान्य़सद्विद्वि एवं ......... ......... ॥४६॥सर्वासर्वमसद्विद्वि पूर्णापूर्णमसत् परे । सुखं दुःखमाद्विद्वि एवं ......... ......... ॥४७॥यथाधर्ममसद्विद्वि पुण्यपुण्यमसत् सदा । लाभालाभमसद्विद्वि सदा देहमसत् सदा ॥४८॥सदा जयमसद्विद्वि सदा गर्वमसत् सदा । मनोमयमसद्विद्वि संशयं निश्चयं तथा ॥४९॥शब्दं सर्वमसद्विद्वि स्पर्शं सर्वमसत् सदा । रूपं सर्वमसद्विद्वि रसं सर्वमसत् सदा ॥५०॥गन्धं सर्वमसद्विद्वि ज्ञानं सर्वमसत् सदा । भूतं भव्यमसद्विद्वि असत् प्रकृतिरुच्यते ॥५१॥असदेव सदा सर्वमसदेव भवोद्भवम् । असदेव गुणं सर्वं एवं ......... ......... ॥५२॥शशश्रृङ्गवदेव त्वं शशश्रृङ्गवदस्म्यहम् । शशश्रृङ्गवदेवेदं शशश्रॄङ्गवदन्तरम् ॥५३॥इत्येवमात्महोमाख्यमुक्तं प्रकरणं मया । यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥५४॥स्कन्दः - यस्मिन् संच विचैति विश्वमखिलं द्योतन्ति सूर्येन्दवो विद्युद्वह्निमरुद्गणाः सवरुणा भीता भजन्तीश्वरम् ।भूतं चापि भवत्यदृश्यमखिलं शम्भोः सुखांशं जगत् जातं चापि जनिष्यति प्रतिभवं देवासुरै र्निर्यपि (?) ॥५५॥तन्नेहास्ति न किञ्चिदत्र भगवद्ध्यानान्न किञ्चित् प्रियम् ॥यः प्राणापानभेदैर्मनमननधिया धारणापञ्चकाद्यैः मध्ये विश्वजनस्य सन्नपि शिवो नो दृश्यते सूक्ष्मया ।बुद्ध्यादध्यातयापि श्रुतिवचनशतैर्देशिकोक्त्यैकसूक्त्या योगैर्भक्तिसमन्वितैः शिवतरो दृश्यो न चान्यत् तथा ॥५६॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे ब्रह्मतर्पणात्महोमाख्य प्रकरणद्वयवर्णनं नाम दशमोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP