संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| चतुर्थोऽध्यायःयः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - चतुर्थोऽध्यायःयः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव चतुर्थोऽध्यायः Translation - भाषांतर स्कन्दः - हिमाद्रिशिखरे तत्र केदारे संस्थितं ऋभुम् । केदारेशं पूजयन्तं शांभवं मुनिसत्तमम् ।भस्मरुद्राक्षसंपन्नं निःस्पृहं मुनयोऽब्रुवन् ॥१॥मुनयः - पद्मोद्भवसुतश्रेष्ठ त्वया कैलासपर्वते । आराध्य देवमीशानं तस्मात् सूत्रश्रुतीरितम् ॥२॥ज्ञानं लब्धं मुनिश्रेष्ठ त्वं नो ब्रूहि विमुक्तये । येन संसारवाराशेः समुत्तीर्णा भवामहे ॥३॥सूतः - ऋभुर्मुनीनां वचसा तुष्टः शिष्टान् समीक्ष्य तान् । अष्टमूर्तिपदध्याननिष्ठांस्तानभ्युवाच ह ॥४॥ऋभुः - नागोप्यं भवतामस्ति शांभवेषु महात्मसु । त्रिनेत्रप्रेमसदनान् युष्मान् प्रेक्ष्य वदामि तत् ॥५॥शाङ्करं सूत्रविज्ञानं श्रुतिशीर्षमहोदयम् । श्रृणुध्वं ब्रह्मविच्छेष्ठाः शिवज्ञानमहोदयम् ॥६॥येन तीर्णाः स्थ संसारात् शिवभक्त्या जितेन्द्रियाः । नवस्कृत्वा महादेवं वक्ष्ये विज्ञानमैश्वरम् ॥७॥ऋभुः - विश्वस्य कारणमुमापतिरेव देवो विद्योतको जडजगत्प्रमदैकहेतुः ।न तस्य कार्यं करणं महेशितुः स एव तत्कारणमीश्वरो हरः ॥८॥सूतः सायकसंभवः समुदिताः सूताननेभ्यो हयाः नेत्रे ते रथिनो रथाङ्गयुगली युग्यान्तमृग्यो रथी ।मौवीमूर्घ्नि रथः स्थितो रथवहश्चापं शरव्यं पुरः योद्धुं केशचराः स एव निखिलस्थाणोरणुः पातु वः ॥९॥निदाघमथ संबोध्य ततो ऋभुरुवाच ह । अध्यात्मनिर्णयं वक्ष्ये नास्ति कालत्रयेष्वपि ॥१०॥शिवोपदिष्टं संक्षिप्य गुह्यात् गुह्यतरं सदा । अनास्तेति प्रसङ्गात्मा अनात्मेति मनोऽपि वा ॥११॥अनात्मेति जगद्वापि नास्त्यनात्मेति निश्चिनु ।सर्वसंकल्पशून्यत्वात् सर्वाकारविवर्जनात् । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥१२॥चित्ताभावे चिन्तनीयो देहाभावे जरा च न । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥१३॥पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया च न । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥१४॥ब्रह्माभावाज्जगन्नास्ति तदभावे हरिर्न च । केवलं ब्रह्मभावत्वात् नास्त्यनात्मेति निश्चिनु ॥१५॥मृत्युर्नास्ति जराभावे लोकवेददुराधिकम् (?) । केवलं ........... ............ निश्चिनु ॥१६॥धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च । केवलं ........... ............ निश्चिनु ॥१७॥अक्षरोच्चारणं नास्ति अक्षरत्यजडं मम । केवलं ........... ............ निश्चिनु ॥१८॥गुरुरित्यपि नास्त्येव शिष्यो नास्तीति तत्वतः । केवलं ........... ............ निश्चिनु ॥१९॥एकाभावान्न द्वितीयं न द्वितीयान्न चैकता । सत्यत्वमस्ति चेत् किञ्चिदसत्यत्वं च संभवेत् ॥२०॥असत्यत्वं यदि भवेत् सत्यत्वं च घटिष्यति । शुभं यद्यशुभं विद्धि अशुभं शुभमस्ति चेत् ॥२१॥भयं यद्यमयं विद्धि अभयाद्भयमापतेत् । केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु ॥२२॥बद्धत्वमस्ति चेन्मोक्षो बन्धाभावे न मोक्षता । मरणं यदि चेज्जन्म जन्माभावे मूतिर्न च ॥२३॥त्वमित्यपि भवेच्चहं त्वं नो चेदहमेव न । इदं यदि तदेवापि तदभावे इदं न च ॥२४॥अस्ति चेदिति तन्नास्ति नास्ति चेदस्ति किंच न ।कार्यं चेत् कारणं किञ्चित् कार्याभावे न कारणम् ॥२५॥द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं च न । दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न ॥२६॥अन्तर्यदि बहिः सत्यमन्ताभावे बहिर्न च । पूर्णत्वमस्ति चेत् किंचिदपूर्णत्वं प्रसज्यते ॥२७॥किञ्चिदस्तीति चेच्चिते सर्वं भवति शीघ्रतः । यत्किंचित् किमपि क्कापि नास्ति चेन्न प्रसज्यति ॥२८॥तस्प्रादेतत् क्कचिन्नास्ति त्वं नाहं वा इमे इदम् । केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु ॥२९॥नास्ति दृष्टान्तकं लोके नास्ति दार्ष्टान्तिकं क्कचित् । केवलं ............... ............... निश्चिनु ॥३०॥परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि । ब्रह्मामात्रं जगदिदं ब्रह्मामात्रत्वमाप्य हि ॥३१॥विन्मात्रं केवलं चाहं नास्त्यनात्भेति निश्चिनु ।इत्यात्मनिर्णयं (!) प्रोक्तः (!) भवते सर्वसङ्ग्रहम् (!) ॥३२॥सकृच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ॥३३॥ऋभुः - निदाघ को भवान् को नु वद मे वदतां वर । यच्छ्रुत्वा तत्क्षणान्मुच्येन्महासंसारसंकटात् ॥३४॥अहमेव परं ब्रह्म अहमेव परं सुखम् । अहमेवाहमेवाहमहं ब्रह्मास्मि केवलम् ॥३५॥अहं चैतन्यमेवास्मि दिव्यज्ञानात्मको ह्यहम् । सर्वाक्षरविहीनोऽस्मि अहं ब्रह्मास्मि केवलम् ॥३६॥अहमर्थविहीनोऽस्मि इदमर्थविवर्जितः । सर्वानर्थविमुक्तोऽस्मि अहं ब्रह्मास्मि केवलम् ॥३७॥नित्युअशुद्धोऽस्मि बुद्धोऽस्मि नित्योऽस्म्यत्यन्तनिर्मलः ।नित्यानन्दस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥३८॥नित्यपूर्णस्वरूपोऽस्मि सच्चिदानन्दमस्म्यहम् । केवलाद्वैतरूपोऽहमहं ब्रह्मास्मि केवलम् ॥३९॥अनिर्देश्ययस्वरूपोऽस्मि आदिहीनोऽस्म्यनन्तकः । अप्राकृतस्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् ॥४०॥स्वस्वसंकल्पहीनोऽहं सर्वाविद्याविवर्जितः । सर्वमस्मि तदेवास्मि अहं ब्रह्मास्मि केवलम् ॥४१॥सर्वनामादिहीनोहं सर्वरूपविवर्जितः । सर्वसङ्गविहीनोऽस्मि अहं ब्रह्मासि केवलम् ॥४२॥सर्ववाचां विधिश्चास्मि सर्ववेदावधिः परः । सर्वकालावधिश्चास्मि अहं ब्रह्मासि केवलम् ॥४३॥सर्वरूपावधिश्चाहं सर्वनामावधिः सुखम् । सर्वकल्पावधिश्चास्मि अहं ब्रह्मासि केवलम् ॥४४॥अहमेव सुखं नान्यदहमेव चिदव्ययः । अहमेवास्मि सर्वत्र अहं ब्रह्मासि केवलम् ॥४५॥केवलं ब्रह्ममात्रात्मा केवलं शुद्धचिद्धनः । केवलाखण्डमारोऽस्मि अहं ब्रह्मासि केवलम् ॥४६॥केवलं ज्ञानरूपोऽस्मि केवलाकाररूपवान् । केवलात्यन्तसारोऽस्मि अहं ब्रह्मासि केवलम् ॥४७॥सत्स्वरूपोऽस्मि केवल्यस्वरूपोऽस्म्यहमेव हि । अर्थानर्थविहीनोस्मि अहं ब्रह्मासि केवलम् ॥४८॥अप्रमेयस्वरूपोऽस्मि अप्रतक्योस्वरूपवान् । अप्रगृह्यस्वरूपोऽस्मि अहं ब्रह्मासि केवलम् ॥४९॥अरसस्युतरूपोऽस्मि अनुतापविवर्जितः । अनुम्यूतप्रकाशोऽस्मि अहं ब्रह्मासि केवलम् ॥५०॥सर्वकर्मविहीनोऽहं सर्वभेदविवर्जितः । सर्वसन्देहहीनोऽस्मि [ अहं ब्रह्मासि केवलम् ॥५१॥अहंभावविहीनोऽस्मि विहीनीऽस्मीति मे न च । सर्वदा ब्रह्मरूपोऽस्मि अहं ब्रह्मासि केवलम् ॥५२॥ब्रह्म ब्रह्मादिहीनोऽस्मि ] केशवत्वादि न क्कचित् । शङ्करादिविहीनोऽस्मि अहं ब्रह्मासि केवलम् ॥५३॥तूष्णीमेवावभासोऽस्मि अहं ब्रह्मास्मि केवलम् । किञ्चिन्नास्ति परो नास्ति किंचिदस्मि परोऽस्मि च ॥५४॥न शरीरप्रकाशोऽस्मि जगद्भासकरो न च । चिद्धनोऽस्मि चिदंशोऽस्मि सत्स्वरूपोऽस्मि सर्वदा ॥५५॥मुदा मुदितरूपोऽस्मि अहं ब्रह्मास्मि केवलम् । न बालोऽस्मि न वृद्धोऽस्मि न युवाऽस्मि परात् परः ॥५६॥न च नानास्वरूपोऽस्मि अहं ब्रह्मास्मि केवलम् । इमं स्वानुभवं प्रोक्तं सर्वोपनिषदां परं रसम् ॥५७॥यो वा को वा श्रृणोतीदं ब्रह्मैव भवति स्वयम् ॥५८॥ न स्थूलोऽप्यनणुर्न तेजमरुतामाकाशनीरक्षमा भूतान्तर्गतकोशकाशहृदयाद्याकाशमात्राक्रमैः ।उद्ग्रन्थश्रुतिशास्त्रसूत्रकरणैः किञ्चिज्ज्ञसर्वज्ञता बुद्ध्या मोहितमायया श्रुतिशतैर्भो जानते शङ्करम् ॥५९॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादो नाम चतुर्थोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP