संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
एकोनविंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - एकोनविंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
ब्रह्मानन्दं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् । यस्य श्रवणमात्रेण सदा युक्तिमवाप्नुयात् ॥१॥
परमानन्दोऽहमेवात्मा सर्वदानन्दमेव हि । पूर्णानन्दस्वरूपोऽहं चिदानन्दमयं जगत् ॥२॥
सदानन्दमनन्तोऽहं बोधानन्दमिदं जगत् । बुद्धानन्दस्वरूपोऽहं नित्यानन्दमिदं मनः ॥३॥
केवलानन्दमात्रोऽहं केवलज्ञानवानहम् । इति भावय यत्नेन प्रपञ्चोपशमाय वै ॥४॥
सदा सत्यं परं ज्योतिः सदा सत्यादिलक्षणः ।
सदा सत्यादिहीनात्मा सदा ज्योतिः प्रियो ह्यहम् ॥५॥
नास्ति मिथ्याप्रपञ्चात्मा नास्ति मिथ्या मनोमयः ।
नास्ति मिथ्याभिधानात्मा नास्ति चित्तं दुरात्मवान् ॥६॥
नास्ति मूढतरो लोके नास्ति मूढतमो नरः । अहमेव परं ब्रह्म अहमेव स्वयं सदा ॥७॥
इदं परं च नास्त्येव अहमेव हि केवलम् । अहं ब्रह्मास्मि शुद्धोऽस्मि सर्वं ब्रह्मैव केवलम् ॥८॥
जगत् सर्वं सदा नास्ति चित्तमेव जगन्मयम् । चित्तमेव प्रपञ्चाख्यं चित्तमेव शरीरकम् ॥९॥
चित्तमेव महादोषं चित्तमेव हि बालकः । चित्तमेव महात्माऽयं चित्तमेव महानसत् ॥१०॥
चित्तमेव हि मिथ्यात्मा चित्तं शशविषाणवत् । चित्तं नास्ति सदा सत्यं चित्तं वन्ध्याकुमारवत् ॥११॥
चित्तं शून्यं न सन्देहो ब्रह्मैव सकलं जगत् । अहमेव हि चैतन्यं अहमेव हि निर्गुणम् ॥१२॥
मन एव हि संसारं मन एव हि मण्डलम् । मन एव हि बन्धत्वं मन एव हि पातकम् ॥१३॥
मन एव महद् दुःखं मन एव शरीरकम् । मन एव प्रपञ्चाख्यं मन एव कलेवरम् ॥१४॥
मन एव महासत्वं मन एव चतुर्मुखः । मन एव हरिः साक्षात्‍ मन एव शिवः स्मृतः ॥१५॥
मन एवेन्द्रजालाख्यं मनः सङ्कल्पमात्रकम् । मन एव महापापं मन एव दुरात्मवान् ॥१६॥
मन एव हि सर्वाख्यं मन एव महद्भयम् । मन एव परं ब्रह्म मन एव हि केवलम् ॥१७॥
मन एव चिदाकारं मन एव मनायते । चिदेव हि परं रूपं चिदेव हि परं पदम् ॥१८॥
पर ब्रह्माहमेवाद्य परं ब्रह्माहमेव हि । अहमेव हि तृप्तात्मा अहमानन्दविग्रहः ॥१९॥
अहं बुद्धिः प्रवृद्धात्मा नित्यं निश्चलनिर्मलः । अहमेव हि शान्तात्मा अहमाद्यन्तवर्जिथ ॥२०॥
अहमेव प्रकाशात्मा अहं ब्रह्मैव केवलम् । अहं नित्यो न सन्देह अहं बुद्धिप्रियः सदा ॥२१॥
अहमेवाहमेवैको अहमेवाखिलामृतः । अहमेव स्वयं सिद्धं अहमेवानुमोदकः ॥२२॥
अहमेव त्वमेवाहं सर्वात्मा सर्ववर्जितः । अहमेव परं ब्रह्म अहमेव परात् परः ॥२३॥
अहङ्कारं न मे दुःखं न मे दोषं न मे सुखम् ।
न मे बुद्धिर्न मे चित्तं न मे देहो न मेन्द्रियम् ॥२४॥
न मे गोत्रं न मे नेत्रं न मे पात्रं न मे तृणम् ।
न मे जपो न मे मन्त्रो [ न मे लोको न मे सुहृत् ॥२५॥
न मे बन्धुर्न मे शत्रुर्न मे माता न मे पिता ।
न मे भोज्यं न मे भोक्ता न मे वृत्तिर्न मे कूलम् ॥२६॥
न मे जातिर्न मे वर्णः ] न मे श्रोत्रं न मे क्कचित् ।
न मे बाह्यं न मे बुद्धिः स्थानं वापि न मे वयः ॥२७॥
न मे तत्वं न मे लोको न मे शान्तिर्न मे कुलम् ।
न मे कोपो न मे कामः केवलं ब्रह्ममत्रतः ॥२८॥
केवलं ब्रह्ममात्रत्वात् केवलं स्वयमेव हि । न मे रागो न मे लोभो न मे स्तोत्रं न मे स्मृतिः ॥२९॥
न मे मोहो न मे तृष्णा न मे स्नेहो न मे गुणः ।
न मे कोशं न मे बाल्यं न मे यौवनवार्धकम् ॥३०॥
सर्व ब्रह्मैकरूपत्यादेकं ब्रह्मेति निश्चितम् । ब्रह्मणोऽन्यत् परं नास्ति ब्रह्मणोऽन्यन्न किञ्चन ॥३१॥
ब्रह्मणोऽन्यदिदं नास्ति ब्रह्मणोऽन्यदिदं न हि । आत्मनोऽन्यत् सदा नास्ति आत्मैवाहं न संशयः ॥३२॥
आत्मनोऽन्यत् सुखं नास्ति आत्मनोऽन्यदहं न च । ग्राह्यग्राहकहीनोऽहं त्यागत्याज्यविवर्जितः ॥३३॥
न त्याज्यं न च मे ग्राह्यं न बन्धो न च भुक्तिदम् ।
न मे लोकं न मे हीनं न श्रेष्ठं नापि दूषणम् ॥३४॥
न मे बलं न चण्डालो न मे विप्रादिवर्णकम् ।
न मे पानं न मे ह्रस्वं न मे क्षीणं न मे बलम् ॥३५॥
न मे शक्तिर्न मे भुक्तिर्न मे दैवं न मे पृथक् ।
अहं ब्रह्मैकमात्रत्वात् नित्यत्वान्यन्न किञ्चिन ॥३६॥
न मतं न च मे मिथ्या न मे सत्यं वपुः क्कचित् । अहमित्यापि नास्त्येव ब्रह्म इत्यपि नाम वा ॥३७॥
यद्यद्यद्यत्प्रपञ्चोऽस्ति यद्यद्यद्यद्गुरोर्वचः । तत्सर्वं ब्रह्म एवाहं तत्सर्वं चिन्मयं मतम् ॥३८॥
चिन्मयं चिन्मयं ब्रह्म सन्मयं सन्मयं सदा । स्वयमेव स्वयं ब्रह्म स्वयमेव स्वयं परः ॥३९॥
स्वयमेव स्वयं मोक्षः स्वयमेव निरन्तरः । स्वयमेव हि विज्ञानं स्वयमेव हि नास्त्यकम् ॥४०॥
स्वयमेव सदासारः स्वयमेव स्वयं परः । स्वयमेव हि शून्यात्मा स्वयमेव मनोहरः ॥४१॥
तूष्णीमेवासनं स्नानं तूष्णीमेवासनं जपः । तूष्णीमेवासनं पूजा तूष्णीमेवासनं परः ॥४२॥
विचार्य मनसा नित्यमहं ब्रह्मेत्ति निश्चिनु । अहं ब्रह्म न सन्देहः एवं तूष्णींस्थितिर्जपः ॥४३॥
सर्वं ब्रह्मैव नास्त्यन्यत् सर्वं ज्ञानमयं तपः । स्वयमेव हि नास्त्येव सर्वातीतस्वरूपवान् ॥४४॥
वाचातीतस्वरूपोऽहं वाचा जप्यमनर्थकम् । मानसः परमार्थोयं एतद्भेदमहं न मे ॥४५॥
कुणपं सर्वभूतादि कुणपं सर्वसङ्ग्रहम् । असत्यं सर्वदा लोकमसत्यं सकलं जगत् ॥४६॥
असत्यमन्यदस्तित्वमसत्यं नास्ति भाषणम् । असत्याकारमस्तित्वं ब्रह्ममात्रं सदा स्वयम् ॥४७॥
असत्यं वेदवेदाङ्गं असत्यं शास्त्रनिश्चयः । असत्यं श्रवणं ह्येतदसत्यं मननं च तत् ॥४८॥
असत्यं च निदिध्यासः सजातीयमसत्यकम् । बिजातीयमसत् प्रोक्तं सत्यं सत्यं न संशयः ॥४९॥
सर्वं ब्रह्म सदा ब्रह्म एकं ब्रह्म चिदव्ययम् ॥
चेतोविलासजनितं किल विश्वमेतद्
विश्वाधिकस्य कृपया परिपूर्णभास्यात् (?) ।
नास्त्यन्यतः श्रुतिशिरोत्थितवाक्यमोघ -
शास्त्रानुसारिकरणैर्भवते विमुक्त्यै ॥५०॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाधसंवादे ब्रह्मानन्दप्रकरणं नाम एकोनविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP