संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
षड्विंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - षड्विंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
वक्ष्ये सच्चित्परानन्दं स्वभावं सर्वदा सुखम् । सर्वंवेदपुराणानां सारात् सारतरं स्वयम् ॥१॥
न भेद्म च द्वयं द्वन्द्वं न भेदं भेदवर्जितम् । इदमेव परं ब्रह्म ज्ञानाश्रयमनामयम् ॥२॥
न क्कचिन्नात एवाहं नाक्षरं न परात्परम् । इदमेव .......  ....... ॥३॥
न बहिर्नान्तरं नाहं न सङ्कल्पो न विग्रहः । इदमेव .......  ....... ॥४॥
न सत्यं च परित्यज्य न वार्ता नार्थदूषणम् । इदमेव .......  ....... ॥५॥
न गुणो गुणिवाक्यं ना न मनोवृत्तिनिश्चयः । न जपं न परिच्छिन्नं न व्यापकमसत् फलम् ॥६॥
न गुरुर्न च शिष्यो वा न स्थिरं न शुभाशुभम् । नैकरूपं न मोक्षो न च बन्धकम् ॥७॥
हं पदार्थस्तत्पदं वा नेन्द्रियं विषयादिकम् । न संशयं न तुच्छं वा न निश्चय न वा कृतम् ॥८॥
न शान्तिरूपमद्वैतं न चोर्ध्वं न च नीचकम् । न लक्षणं न दुःखाङ्गं न सुखं न च चञ्चलम् ॥९॥
न शरीरं न लिङ्गं वा न कारणमकारणम् । न दुःखं नान्तिकं नाहं न गूढं न परं पदम् ॥१०॥
न सञ्चितं च नागामि न सत्यं च त्वमाहकम् (?) ।
नाज्ञानं न च विज्ञानं न मूढो न च विज्ञवान् ॥११॥
न नीचं नरकं नान्तं न मुक्तिर्नच पावनम् । न तृष्णा न च विद्यात्वं नाहं तत्वं न देवता ॥१२॥
न शुभाशुभसङ्केतो न मृत्युर्न च जीवनम् । न तृप्तिर्न च भोज्यं वा न खण्डैकरसोऽद्वयम् ॥१३॥
न सङ्कल्पं न प्रपञ्चं न जागरणतजकम् । न किञ्चित्समतादोषो न तुर्यगणना भ्रमः ॥१४॥
न सर्वं समलं नेष्टं न नीतिर्न च पूजनम् । न प्रपञ्चं न बहुना नान्यभाषणसङ्गमः ॥१५॥
न सत्सङ्गमसत्सङ्गः न ब्रह्म न विचारणम् । नाभ्यासं न च वक्ता न च स्नानं न च तीर्थकम् ॥१६॥
न पुण्यं न च वा पापं न क्रिया दोषकारणम् । न चाध्यात्मं नाधिभूतं न दैवतमसम्भवम् ॥१७॥
न जन्ममरणे क्कापि जाग्रत्स्वप्नसुषुप्तिकम् । न भूलोकं न पातालं न जयापजयाजयौ ॥१८॥
न हीनं न च वा मीतिर्न रतिर्न मृतिस्त्वरा । अचिन्त्यं नापराध्यात्मा निगमागमविभ्रमः ॥१९॥
न सात्विकं राजसं च न तामसगुणाधिकम् । न शैवं न च वेदान्तं न स्वाद्यं तन्न मानसम् ॥२०॥
न बन्धो न च मोक्षो वा न वाक्यं ऐक्यलक्षणम् ।
न स्त्रीरूपं न पुंभावः न षण्डो न स्थिरः पदम् (?) ॥२१॥
न भूषणं न दूषणं न स्तोत्रं न स्तुतिर्न हि । न लौकिकं वैदिकं शास्त्रं न च शासनम् ॥२२॥
न पानं न कृशं नेदं न मोदं न मदामदम् । न भावनमभावो वा न कुलं नामरूपकम् ॥२३॥
नोत्कृष्टं च निकृष्टं च न श्रेयोऽश्रेय एव हि । निर्मलत्वं मलोत्सर्गो न जीवो न मनोदमः ॥२४॥
न शान्तिकलना नागं शान्तिर्न शमो दमः । न क्रीडा नच भावाङ्गं न विकारं न दोषकम् ॥२५॥
न यत्किञ्चिन्न यत्राहं न मायाख्या न मायिका । यत्किञ्चिन्न च धर्मादि न धर्मपरिपीडनम् ॥२६॥
न यौवनं न बाल्यं वा न जरामरणादिकम् । न बन्धुर्न च वा‍ऽबन्धुर्न मित्रं न च सोदरः ॥२७॥
नापि सर्वं न चाकिञ्चिन्न विरिञ्चो न केशवः । न शिवो नाष्टदिक्ल्पालो न विश्वो न च तैजसः ॥२८॥
न प्राज्ञो हि न तुर्यो वा न ब्रह्मक्षत्रविङ्वरः । इदमेव परं ब्रह्म ज्ञानामृतमनामयम् ॥२९॥
न पुनर्भावि पश्चाद्वा न पुनर्भवसंभवः । न कालकलना नाहं न संभाषणकारणम् ॥३०॥
न चोर्ध्वमन्तःकरणं न च चिन्मात्रभाषणम् । न ब्रह्माहमिति द्वैतं न चिन्मात्रमिति द्वयम् ॥३१॥
नान्नकोशं न च प्राणमनोमयमकोशकम् । न विज्ञानमयः कोशः न चानन्दमयः पृथक् ॥३२॥
न बोधरूपं बोध्यं वा बोधकं नात्र यद्भ्रमः । न बाध्यं बाधकं मिथ्या त्रिपुटीज्ञाननिर्णयः ॥३३॥
न प्रमाता प्रमाणं वा न प्रमेयं फलोदयम् । इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् ॥३४॥
न गुह्यं न प्रकाशं वा न महत्त्वं न चाणुता । न प्रपञ्चो विद्यमानं न प्रपञ्चः कदाचन ॥३५॥
नान्तःकरणसंसारो न मनो जगतां भ्रमः । न चित्तरूपसंसारो बुद्धिपूर्वं प्रपञ्चकम् ॥३६॥
न जीवरूपसंसारो वासनारूपसंसृतिः । न लिङ्गभेदसंसारो नाज्ञानमयसंसृतिः ॥३७॥
न वेदरूपसंसारो न शास्त्रागमसंसृतिः । नान्यदस्तीति संसारमन्यदस्तीति भेदकम् ॥३८॥
न भेदाभेदकलनं न दोषादोषकल्पनम् । न शान्ताशान्तसंसारं न गुणागुणसंसृतिः ॥३९॥
न स्त्रीलिङ्गं न पुंलिङ्गं न नपुंसकसंसृतिः । न स्थावरं जङ्गमं च न दुःखं न सुखं क्कचित् ॥४०॥
न शिष्टाशिष्टरूपं वा न योग्यायोग्यनिश्चयः । न द्वैतवृत्तिरूपं वा साक्षिवृत्तित्वलक्षणम् ॥४१॥
अखण्डाकारवृत्तित्वमखण्दैकरसं सुखम् । देहोऽहमितिया वृत्तिर्ब्रह्माहमिति शब्दकम् ॥४२॥
अखण्डनिश्चया वृत्तिर्नाखण्डैकरसं महत् । न सर्ववृत्तिभवनं सर्ववृत्तिविनाशकम् ॥४३॥
सर्ववृत्त्यनुसन्धानं सर्ववृत्तिविमोचनम् । सर्ववृत्तिविनाशान्तं सर्ववृत्तिविशून्यकम् ॥४४॥
न सर्ववृत्तिसाहस्रं क्षणक्षणविनाशनम् । न सर्ववृत्तिसाक्षित्वं न च ब्रह्मात्मभावनम् ॥४५॥
न जगन्न मनो नान्तो न कार्यकलनं क्कचित् । न दूषणं भूषणं वा न निरङ्कुशलक्षणम् ॥४६॥
न च धर्मात्मनो लिङ्गं गुणशालित्वलक्षणम् । न समाधिकलिङ्गं वा न प्रारब्धं प्रबन्धकम् ॥४७॥
ब्रह्मवित्तं आत्मसत्यो न परः स्वप्नलक्षणम् । न च वर्यपरो रोधो वरिष्ठो नार्थतत्परः ॥४८॥
आत्मज्ञानविहिनो यो महापातकिरेव सः । एतावदूज्ञानहीनो यो महारोगी स एव हि ॥४९॥
अहं ब्रह्म न सन्देह अखण्दैकरसात्मकः । ब्रह्मैव सर्वमेवेति निश्चयानुभवात्मकः ॥५०॥
सद्यो मुक्तो न सन्देहः सद्यः प्रज्ञानविग्रहः । स एव ज्ञानवान् लोके स एव परमेश्वरः ॥५१॥
इदमेव परं ब्रह्म ज्ञानामृतमनोमयम् । एतत्प्रकरणं यस्तु श्रृणुते ब्रह्म एव सः ॥५२॥
एकत्वं न बहुत्वमप्यणुमहत् कार्यं न वै कारणं
विश्वं विश्वपतित्वमप्यरसकं नो गन्धरूपं सदा ।
बद्धं मुक्तमनुत्तमोत्तममहानन्दैकमोदं सदा
भूमानन्दसदाशिवं जनिजरारोगाद्यसङ्गं महः ॥५३॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ज्ञानामृतमनोमयप्रकरणवर्णनं नाम षड्विंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP