संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| अष्टत्रिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - अष्टत्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव अष्टत्रिंशोऽध्यायः Translation - भाषांतर ऋभुः - वक्ष्ये अत्यद्भुतं व्यक्तं सच्चिदानन्दमात्रकम् । सर्वपञ्चशून्यत्वं सर्वमात्मेति निश्चितम् ॥१॥आत्मरूपप्रपञ्चं वा आत्मरूपप्रपञ्चकम् । सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चितम् ॥२॥नित्यानुभवमानन्दं नित्यं ब्रह्मेति भावनम् । चित्तरूपप्रपञ्चं वा चित्तसंसारमेव वा ॥३॥इदमस्तीति सत्तात्वमहस्तीति वा जगत् । स्वान्तःकरणदोषं वा स्वान्तःकरणकार्यकम् ॥४॥स्वस्य जीवभ्रमः कश्चित् स्वस्य नाशं स्वजन्मना । ईश्वरः कश्चिदस्तीति जीवोऽहमिति वै जगत् ॥५॥मायासत्ता महासत्ता चित्तसत्ता जगन्मयम् । यद्यच्च दृश्यते शास्त्रैर्यद्यद्वेदे च भाषणम् ॥६॥एकमित्येव निर्देशं द्वैतमित्येव भाषणम् । शिवोऽस्मीति भ्रमः कश्चित् ब्रह्मास्मीति विभ्रमः ॥७॥विष्णुरस्मीति विभ्रान्तिर्जगदस्ती(स्मी)ति विभ्रमः । ईषदस्तीति वा भेदं ईषदस्तीति वा द्वयम् ॥८॥सर्वमस्तीति नास्तीति सर्वं ब्रह्मेति निश्चयम् । आत्मध्यानप्रपञ्चं वा स्मरणादिप्रपञ्चकम् ॥९॥दुःखरूपप्रपञ्चं वा सुखरूपप्रपञ्चकम् । द्वैताद्वैतप्रपञ्चं वा सत्यासत्यप्रपञ्चकम् ॥१०॥जाग्रत्प्रपञ्चमेवापि तथा स्वप्नप्रपञ्चकम् । सुप्तिज्ञानप्रपञ्चं वा तुर्यज्ञानप्रपञ्चकम् ॥११॥वेदज्ञानप्रपञ्चं वा शास्त्रज्ञाप्रपञ्चकम् । पापबुद्धिप्रपञ्चं वा पुण्यभेदप्रपञ्चकम् ॥१२॥ज्ञानरूपप्रपञ्चं वा निर्गुणज्ञानप्रपञ्चकम् । पापबुद्धिप्रपञ्चं वा दोषादोषविनिर्णयम् ॥१३॥सत्यासत्यविचारं वा चराचरविचारणम् । एक आत्मेति सद्भावं मुख्य आत्मेति भावनम् ॥१४॥सर्वप्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयम् । द्वैताद्वैतसमुद्भेदं नास्ति नास्तीति भाषणम् ॥१५॥असत्यं जगदेवेति सत्यं ब्रह्मेति निश्चयम् । कार्यरूपं कारणं च नानाभेदविजृअम्भणम् ॥१६॥सर्वमन्त्रप्रदातारं दूरे दूरं तथा तथा । सर्वं सन्त्यज्य सततं स्वात्मन्येव स्थिरो भव ॥१७॥मौनभावं मौनकार्यं मौनयोगं मनःप्रियम् । पञ्चाक्षरोपदेष्टारं तथा चाष्टाक्षरप्रदम् ॥१८॥यद्यद्यद्यद्वेदशास्त्रं यद्यद्भेदो गुरोऽपि वा । सर्वदा सर्वलोकेषु सर्वसङ्कल्पकल्पनम् ॥१९॥सर्ववाक्यप्रपञ्चं हि सर्वचित्तप्रपञ्चकम् । सर्वाकारविकल्पं च सर्वकारणकल्पनम् ॥२०॥सर्वदोषप्रपञ्चं च सुखदुःखप्रपञ्चकम् । सहादेयमुपादेयं ग्राहं त्याज्यं च भाषणम् ॥२१॥विचार्य जन्ममरणं वासनाचित्तरूपकम् । कामक्रोधं लोभमोहं सर्वडम्भं च हुंकृतिम् ॥२२॥त्रैलोक्यसंभवं द्वैतं ब्रह्मेन्द्रवरुणादिकम् । ज्ञानेन्द्रियं च शब्दादि दिग्वाय्वर्कादिदैवतम् ॥२३॥कर्मेन्द्रियादिसद्भावं विषयं देवतागणम् । अन्तःकरणवृत्तिं च विषयं चाधिदैवतम् ॥२४॥चित्तवृत्तिं विभेदं च बुद्धिवृत्तिनिरूपणम् । मायामात्रमिदं द्वैतं सदसत्तादिनिर्णयम् ॥२५॥किञ्चिद् द्वैतं बहुद्वैतं जीवद्वैतं सदा ह्यसत् । जगदुत्पत्तिमोहं च गुरुशिष्यत्वनिर्णयम् ॥२६॥गोपनं तत्पदार्थस्य त्वंपदार्थस्य मेलनम् । तथा चासिपदार्थस्य ऐक्यबुद्ध्यानुभावनम् ॥२७॥भेदेषु भेदाभेदं च नान्यद् किञ्चिच्च विद्यते । एतत प्रपञ्चं नास्त्येव सर्वं ब्रह्मेति निश्चयः ॥२८॥सर्वं चैतन्यमात्रत्वात केवलं ब्रह्म एव सः । आत्माकारमिदं सर्वमात्मनोऽन्यन्न किञ्चन ॥२९॥तुर्यातीतं ब्रह्मणोऽन्यत् सत्यासत्यं न विद्यते । सर्वं त्यक्त्वा तु सततं स्वात्मन्येव स्थिरो भव ॥३०॥चित्तं कालं वस्तुभेदं सङ्कल्पं भावनं स्वयम् । सर्वं संत्यज्य सततं सर्वं ब्रह्मैव भावय ॥३१॥यद्यद् भेदपरं शास्त्रं यद्यद् भेदपरं मनः । सर्वं संत्यज्य सततं स्वात्मनेव स्थिरो भव ॥३२॥मनः कल्पितकल्पं वा आत्मकल्पनविभ्रमम् । अहंकरपरिच्छेदं देहोऽहं देहभावना ॥३३॥सर्वं सन्त्यज्य सततमात्मन्येव स्थिरो भव । प्रपञ्चस्य च सद्भावं प्रपञ्चोद्भवमन्यकम् ॥३४॥बन्धसद्भावकलनं मोक्षसद्भावभाषणम् । देवताभावसद्भावं देवपूजाविनिर्णयम् ॥३५॥पञ्चाक्षरेति यद्द्वैतमष्टाक्षरस्य दैवतम् । प्राणादिपञ्चकास्तित्वमुपप्राणादिपञ्चकम् ॥३६॥पृथिवीभूतभेदं च गुणा यत् कुण्ठनादिकम् । वेदान्तशास्त्रसिद्धान्तं शैवागमनमेव च ॥३७॥लौकिकं वास्तवं दोषं प्रवृत्तिं च निवृत्तिकम् । सर्वं सन्त्यज्य सततमात्मन्येव स्थिरो भव ॥३८॥आत्मज्ञानसुखं ब्रह्म अनात्मज्ञानदूषणम् । रेचकं पूरकं कुम्भं षडाधारविशोधनम् ॥३९॥द्वैतवृत्तिश्च देहोऽहं साक्षिवृत्तिश्चदंशकम् । अखण्डाकारवृत्तिश्च अखण्डाकारसंमतम् ॥४०॥अनन्तानुभवं चापि अहं ब्रह्मेति निश्चयम् । उत्तमं मध्यमं चापि तथा चैवाधमाधमम् ॥४१॥दूषणं भूषणं चैव सर्ववस्तुविनिन्दनम् । अहं ब्रह्म इदं ब्रह्म सर्वं ब्रह्मैव तत्वतः ॥४२॥अहं ब्रह्मास्मि मुग्धोऽस्मि वृद्धोऽस्मि सदसत्परः । वैश्वानरो विराट् स्थूलप्रपञ्चमिति भावनम् ॥४३॥आनन्दस्फारणेनाहं परापरविवर्जितः । नित्यानन्दमयं ब्रह्म सच्चिदानन्दविग्रहः ॥४४॥दृग्रूपं दृश्यरूपं च महास्त्तास्वरूपकम् । कैवल्य सर्वनिधनं सर्वभूतान्तरं गतम् ॥४५॥भूतभव्यं भविष्यच्च वर्तमानमसत् सदा । कालभावं देहभावं सत्यासत्यविनिर्णयम् ॥४६॥प्रज्ञानघन एवाहं शान्ताशान्तं निरञ्जनम् । प्रपञ्चवार्तास्मरणं द्वैताद्वैतविभावनम् ॥४७॥शिवगमसमाचारं वेदान्तश्रवणं पदम् । अहं ब्रह्मास्मि शुद्धोऽस्मि चिन्मात्रोऽस्मि सदाशिवः ॥४८॥सर्वं ब्रह्मेति सन्त्यज्य स्वात्मन्येव स्थिरो भव । अहं ब्रह्म न सन्देह इदं ब्रह्म न संशयः ॥४९॥स्थूलदेहं सूक्षदेहं कारणं देहमेव च । एवं ज्ञातुं च सततं ब्रह्मैवेदं क्षणे क्षणे ॥५०॥शिवो ह्यात्मा शिवो जीवः शिवो ब्रह्म न संशयः । एतत् प्रकरणं यस्तु सकृदा सर्वदापि वा ॥५१॥पठेद्वा श्रृनुयाद्वापि स च मुक्तो न संशयः । निमिषं निमिषार्धं वा श्रुत्वैतद्ब्रह्मभाग्भवेत् ॥५२॥लोकालोकजगतस्थितिप्रविलयप्रोद्भावसत्तात्मिका भीतिः शङ्करनामरूपमसकृव्द्याकुर्वते केवलम् ।सत्यासत्यनिरङ्कुशश्रुतिवचोवीचीभिरामृश्यते यस्त्वेतत् सदितीव तत्ववचनैर्मीमांस्यतेऽयं शिवः ॥५३॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे प्रपञ्चशून्यत्वप्रकरणं नाम अष्टत्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 17, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP