संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
प्रथमोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - प्रथमोऽध्यायः

श्रीशिवरहस्यम्


हेमाद्रिं किल मातुलुङ्गफलमित्यादाय मोदाधिको
मौढ्यान्नाकनिवासिनां भयपरैर्वाक्यैरिव प्रार्थितः ।
नीलीशम्बरनीलमम्बरतलं जग्बूफलं भावयन्
तं मुञ्चन् गिरिमग्बरं परिमृशन् लम्बोदरः पातु माम् ॥१॥
वामं यस्य वपुः समस्तजगतां माता पिता चेतरत्
यत्मादाम्बुजनूपुरोद्भवरवः शब्दार्थवाक्यास्पदम् ।
यन्नेत्रत्रितयं समस्तजगतामालोकहेतुः सदा
पायाद्दैवतसार्वभौमगिरिजालङ्कारमूर्तिः शिवः ॥२॥
सूतः -
जैगीषव्यः पुनर्नत्वा षण्मुखं शिवसंभवम् । पप्रच्छ हृष्टस्तं तत्र मुनिभिर्गणपुङ्गवैः ॥३॥
जैगीषव्यः -
करुणाकर सर्वज्ञ शरणागतपालक । अरुणाधिपनेत्राब्जचरणस्मरणोन्मुख ॥४॥
करुणावरुणाम्भोधे तरणिद्युतिभास्कर । दिव्यद्वादशलिङ्गानां महिमा संश्रुतो मया ॥५॥
त्वत्तोऽ‍न्यत् श्रोतुमिच्छामि शिवाख्यानमनुत्तमम् । त्वद्वाक्यकञ्जपीयूषधाराभिः पावयाशु माम् ॥६॥
सूतः -
इति तस्य गिरा तुष्टः षण्मुखः प्राह तं मुनिम् ॥७॥
श्रीषण्मुखः -
श्रृणु त्वमगजाकान्तेनोक्तं ज्ञानमहार्णवम् । ऋभवे यत्पुरा प्राह कैलासे शङ्करः स्वयम् ॥८॥
ब्रह्मसूनुः पुरा विप्रो गत्वा नत्वा महेश्वरम् । ऋभुर्विभुं तदा शंभुं तुष्टाव प्रणतो मुदा ॥९॥
ऋभुः -
दिवामणिनिशापतिस्फुटकृपीटयोनिस्फुरल्ललाटभसितोल्लसद्वरत्रिपुण्ट्रभागोज्वलम् ।
भजामि भुजगाङ्गदं विधृतसामिसोमप्रभाविराजितकपर्दकं करटिकृतिभूष्यत्कटिम् ॥१०॥
फालाक्षाध्वरदक्षशिक्षकवलक्षोक्षेशवाहोत्तम -
त्र्यक्शाक्षय्य फलप्रदावभसितालङ्काररुद्राक्षधृक् ।
चक्षुःश्रोत्रवराङ्गहारसुमहावक्षःस्थलाध्यक्ष मां
भक्ष्यीभूतगरप्रभक्ष भगवन् भिक्ष्वर्च्यपादाम्बुज ॥११॥
गङ्गाचन्द्रकलाललाम भगवन् भूभृत्कुमारीसख
स्वामिंस्ते पदपद्मभावमतुलं कष्टापहः देहि मे ।
तुष्टोऽहं शिपिविष्टहृष्टमनसा भ्रष्टान्न मन्ये हरि -
ब्रह्मेन्द्रनमरान् त्रिविष्टपगतान् निष्ठा हि मे तादृशी ॥१२॥
नृताडं वरसज्जटापटलिकाभ्राम्यन्महोडुच्छटा
त्रुट्यत्सोमकलाललामकलिकाशम्याकमौलीनतम् ।
उग्रानुग्रभवोग्रदुर्गजगदुद्धाराग्रपादाम्बुजं
रक्षोवक्षकुठारभूतमुमया वीक्षे सुकामप्रदम् ॥१३॥
फालं मे भसितत्रिपुण्ट्ररचिंत त्वत्पादपद्मानतं
पाहीशान दयानिधान भगवन् फालानलाक्ष प्रभो ।
कण्ठो मे शितिकण्ठनाम भवतो रुद्राक्षवृक् पाहि मां
कर्णौ मे भुजगाधिपोरुसुमहाकर्ण प्रभो पाहि माम् ॥१४॥
नित्यं शङ्करनामबोधितकथासारादरं शङ्करं
वाचं रुद्रजपादरां सुमहतीं पञ्चाक्षरीमिन्दुधृक् ।
बाहू मे शशिभूषणोत्तममहालिङ्गार्चनायोद्यतौ
पाहि प्रेमरसार्द्रयाऽद्य सुदृशा शम्भो हिरण्यप्रभ ॥१५॥
भास्वद्बाहुचतुष्टयोज्ज्वल सदा नेत्रे त्रिनेत्र प्रभो
त्वल्लिङ्गोत्तमदर्शनेन सुतरां तृप्तैः सदा पाहि मे ।
पादौ मे हरिनेत्रपूजितपदद्वन्द्वाव नित्यं प्रभो
त्वल्लिङ्गालयप्रक्रमप्रणतिभिर्म्यान्यौ च धन्यौ विभो ॥१६॥
धन्यस्त्वल्लिङ्गसङ्गेप्यनुदिनगलितानङ्गसङ्गान्तरङ्गः
पुंसामर्थैकशक्त्यां यमनियमवरैर्विश्ववन्द्य प्रभो यः ।
दत्वा बिल्वदलं सद्म्बुजवरं किञ्चिज्जलं वा मुहुः
प्राप्नोतीश्वरपादपङ्कजमुमानाथद्य मुक्तिप्रदम् ॥१७॥
उमारमण शङ्कर त्रिदशवन्द्य वेदेड्य हृत्
त्वदीयपरभावतो मम सदैव निर्वाणकृत् ।
भवार्णवनिवासिनां किमु भवत्पदाम्भोरुह -
प्रभावभजनादरं भवति मानसं मुक्तिदम् ॥१८॥
संसारार्गलपादबद्धजनतासंमोचनं भर्ग ते
पादद्वन्द्वमुमासनाथ भजतां स्म्सारसंभर्जकम् ।
त्वन्नामोत्तमगर्जनादघकुलं सन्तर्जितं वै भवेद्
दुःखानां परिमार्जकं तव कृपावीक्षावतां जायते ॥१९॥
विधिमुण्डकरोत्तमोरुमेरुकोदण्डखण्डितपुराण्डजवाहबाण ।
पाहि क्शमारथविकर्षसुवेदवाजिहेषान्तहर्षितपदाम्बुज विश्वनाथ ॥२०॥
विभूतीनामन्तो न हि खलु भवानीरमण ते
भवे भावं कश्चित् त्वयि भवह भाग्येन लभते ।
अभावं चाज्ञानं भवति जननाद्यैश्च रहितः
उमाकान्त स्वान्ते भवदभयपादं कलायतः ॥२१॥
वरं शम्भो भावैर्भजनभावेन नितरां
भवाम्भोधिर्नित्यं भवति विततः पांसुबहुलः ।
विमुक्तिं भुक्तिं च श्रुतिकथितभस्माक्षवरधृक्
भवे भर्तुः सर्वो भवति च सदानन्दमधुरः ॥२२॥
सोमसामजसुकृत्तिमौलिधृक् सामसीमशिरसि स्तुतपाद ।
सामिकायगिरिजेश्वर शम्भो पाहि मामखिलदुःखसमूहात् ॥२३॥
( येथे २४ ते २६ ओव्या / श्लोक नाहीत. प्रिंटच नाही. )
सारङ्गी सिंहशाबं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं
मार्जारी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् ।
वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति
भक्तास्त्वत्पादपद्मे किमु भजनवतः सर्वसिद्धिः लभन्ते ॥२७॥
स्कन्दः -
इत्थं ऋभुस्तुतिमुमावरजानिरीशः श्रुत्वा तमाह गणनाथवरो महेशः ।
ज्ञानं भवामयविनाशकरं तदेव तस्मै तदैव कथये श्रृणु पाशमुक्त्यै ॥२८॥
इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे ऋभुस्तुतिर्नाम प्रथमोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP