संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| त्रिचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - त्रिचत्वारिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव त्रिचत्वारिंशोऽध्यायः Translation - भाषांतर निदाघः - न पश्यामि शरीरं वा लिङ्गं करणमेव वा । न पश्यामि मनो वापि न पश्यामि जडं ततः ॥१॥न पश्यामि चिदाकाशं न पश्यामि जगत् क्कचित् ।न पश्यामि हरिं वापि न पश्यामि शिवं च वा ॥२॥आनन्दस्यान्तरे लग्नं तन्मयत्वान्न चोत्थितः ।न पश्यामि सदा भेदं न जडं न जगत् क्कचित् ॥३॥न द्वैतं न सुखं दुःखं न गुरुर्न परापरम् । न गुणं वा न तुर्यं वा न बुद्धिर्न च संशयः ॥४॥न च कालं न च भयं न च शोकं शुभाशुभम् । न पश्यामि न सन्दीनं (?) न बन्धं न च संभवम् ॥५॥न देहेन्द्रियसद्भावो न च सद्वस्तु सन्मनः । न पश्यामि सदा स्थूलं न कृशं न च कुब्जकम् ॥६॥न भूमिर्न जलं नाग्निर्न मोहो न च मन्त्रकम् । न गुरुर्न च वाक्यं वा न दृढं न च सर्वकम् ॥७॥न जगच्छ्रवणं चैव निदिध्यासं न चापरः । आनन्दसागरे मग्नस्तन्मयत्वान्न चोत्थितः ॥८॥आनन्दोऽहमशेषोऽहमजोऽहममृतोस्म्यम् । नित्योऽहमिति निश्चित्य सदा पूर्णोऽस्मि नित्यधीः ॥९॥पूर्णोऽहं पूर्णचित्तोऽहं पुण्योऽहं ज्ञानवानहम् । शुद्धोऽहं सर्वमुक्तोऽहं सर्वाकारोऽहमव्ययः ॥१०॥चिन्मात्रोऽहं स्वयं सोऽहं तत्वरूपोऽहमीश्वरः । परापरोऽहं तुर्योऽहं प्रसन्नोऽहं सरोऽस्म्यहम् ॥११॥ब्रह्माऽहं सर्वलक्ष्योऽहं सदा पूर्णोऽहमक्षरः । ममानुभवरूपं यत् सर्वमुक्तं च सद्गुरो ॥१२॥नमस्कारोमि ते नाहं सर्वं च गुरुदक्षिणा । मद्देहं त्वत्पदे दत्तं त्वया भस्मीकृतं क्षणात् ॥१३॥ममात्मा च माया दत्तः स्वयमात्मनि पूरितः । त्वमेवाहमहं च त्वमहमेव त्वमेव हि ॥१४॥ऐक्यार्णवनिमग्नोऽस्मि ऐक्यज्ञानं त्वमेव हि । एकं चैतन्यमेवाहं त्वया गन्तुं न शक्यते ॥१५॥गन्तव्यदेशो नास्त्येव एकाकारं न चान्यतः । त्वया गन्तव्यदेशो न मया गन्तव्यमस्ति न ॥१६॥एकं कारणमेकं च एकमेव द्वयं नहि । त्वया वक्तव्यकं नास्ति मया श्रोतव्यमप्यलम् ॥१७॥त्वमेव सद्गुरुनासि अहं नास्मि सशिष्यकः । ब्रह्ममात्रमिदं सर्वमस्मिन्मानोऽस्मि तन्मयः ॥१८॥भेदाभेदं न पश्यामि कार्याकार्यं न किञ्चन । ममैव चेन्नमस्कारो निष्प्रयोजन एव हि ॥१९॥ततैव चेन्नमस्कारो भिन्नत्वान्न फलं भवेत् । तव चेन्मम चेद्भेदः फलाभावो न संशयः ॥२०॥नमस्कृतोहं युष्माकं भवानज्ञीति वक्ष्यति । ममैवापकरिष्यामि परिच्छिन्नो भवाम्यहम् ॥२१॥ममैव चेन्नमस्कारः फलं नास्ति स्वतः स्थिते । कस्यापि च नमस्कारः कदाचिदपि नास्ति हि ॥२२॥सदा चैतन्यमात्रत्वात् नाहं न त्वं नहि द्वयम् । न बन्धं न परो नान्ये निष्ठा न सत्सदा ॥२३॥न द्वयं नैकमद्वैतं निश्चितं न मनो न तत् । न बीजं न सुखं दुःखं नाशं निष्ठा न सत्सदा ॥२४॥नास्ति नास्ति न सन्देहः केवलात् परमात्मनि । न जीवो नेश्वरो नैको न चन्द्रो नाग्निलक्षणः ॥२५॥न वार्ता नेन्द्रियो नाहं न महत्त्वं गुणान्तरम् । न कालो न जगन्नान्यो नवा कारणमद्वयम् ॥२६॥नोन्नतोऽत्यन्तहीनोऽहं न मुक्तस्त्वत्प्रसादतः । सर्वं नास्त्येव नास्त्येव सर्वं ब्रह्मवि केवलम् ॥२७॥अहं ब्रह्म इदं ब्रह्म आत्म ब्रह्माहमेव हि । सर्वं ब्रह्म न सन्देहस्त्वत्प्रसादान्महेश्वर ॥२८॥त्वमेव सद्गुरुर्ब्रह्म न हि सद्गुरुरन्यतः । आत्मैव सद्गुरुर्ब्रह्म शिष्यो ह्यात्मैव सद्गुरुः ॥२९॥गुरुः प्रकल्पते शिष्यो गुरुहीनो न शिष्यकः । शिष्ये सति गुरुः कल्प्यः शिष्याभावे गुरुर्न हि ॥३०॥गुरुशिष्यविहीनात्मा सर्वत्र स्वयमेव हि । चिन्मात्रात्मनि कल्प्योऽहं चिन्मात्रात्मा न चापरः ॥३१॥चिन्मात्रात्माहमेवैको नान्यत् किञ्चिन्न विद्यते । सर्वस्थितोऽहं सततं नान्यं पश्यामि सद्गुरोः ॥३२॥नान्यत् पश्यामि चित्तेन् नान्यत् पश्यामि किञ्चन ।सर्वाभावान्न पश्यामि सर्वं चेद् दृश्यतां पृथक् ॥३३॥एवं ब्रह्म प्रपश्यामि ननयदस्तीति सर्वदा । अहो भेदं प्रकुपितं अहो माया न विद्यते ॥३४॥अहो सद्गुरुमाहात्ममहो ब्रह्मसुखं महत् । अहो विज्ञानमाहात्म्यमहो सज्जनवैभवः ॥३५॥अहो मोहविनाशश्च अहो पश्यामि सत्सुखम् । अहो चित्तं न पश्यामि अहो सर्वं न किञ्चन ॥३६॥अहमेव हि नान्यत्र अहमानन्द एव हि । ममान्तःकरणे यद्यन्निश्चितं भवदीरितम् ॥३७॥सर्वं ब्रह्म परं ब्रह्म न किञ्चिदन्यदैवतम् । एवं पश्यामि सततं नान्यत् पश्यामि सद्गुरो ॥३८॥एवं निश्चित्य तिष्ठामि स्वस्वरूपे ममात्मनि ॥३९॥अगाध(बोध)वेदवाक्यतो न चाधिभेषजं भवेदुमाधवाङ्घ्रिपङ्कजस्मृतिः प्रबोधमोक्षदा ।प्रबुद्धभेदवासनानिरुद्धहृत्तमोभिदे महारुजाघवैद्यमीश्वरं हृदम्बुजे भजे ॥४०॥द्यतत्प्रदग्धकामदेह दुग्धसन्निभं प्रमुग्धसामि ।सोमधारिणं श्रुतीड्यगद्यसंस्तुतं त्वभेद्यमेकशङ्करम् ॥४१॥वरः कङ्कः काको भवदुभयजातेषु नियतं महाशङ्कातङ्कैर्विधिविहितशान्तेन मनसा ।यदि स्वैरं ध्यायन्नगपतिसुतानायकपदं स एवायं धुर्यो भवति मुनिजातेषु नियतम् ॥४२॥कः कालान्तकपादपद्मभजनादन्यद्धृदा कष्टदां धर्माभासपरंपरां प्रथयते मूर्खो खरीं तौरगीम् ।कर्तुं यत्नशतैरशक्यकरणैर्विन्देत दुःखाधिकं तद्वत् सांबपदांबुजार्चनरतिं त्यक्त्वा वृथा दुःखभाक् ॥४३॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे निदाधानुभववर्णनप्रकरणं नाम त्रिचत्वारिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 17, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP