TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
द्वाविंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - द्वाविंशोऽध्यायः

श्रीशिवरहस्यम्


द्वाविंशोऽध्यायः
ऋभुः -
वक्ष्ये ब्रह्ममयं सर्वं नास्ति सर्व जगन्मूषा । अहं ब्रह्म न मे चिन्ता अहं ब्रह्म न मे जडम् ॥१॥
अह ब्रह्म न मे दोषः अहं ब्रह्म न मे फलम् । अहं ब्रह्म न मे वार्ता ब्रह्म न मे द्वयम् ॥२॥
अहं ब्रह्म न मे नित्यमहं ब्रह्म न मे गतिः । अह ब्रह्म न मे माता अहं ब्रह्म न मे पिता ॥३॥
अहं ब्रह्म न मे सो‍ऽयमहं वेश्वानरो नहि । अहं ब्रह्म चिदाकाशमहं ब्रह्म न संशयः ॥४॥
सर्वान्तरोऽहं पूर्णात्मा सर्वान्तरमनोऽ‍न्तरः । अहमेव शरीरान्तरहमेव स्थिरः सदा ॥५॥
एव विज्ञानवान् मुक्त एवं ज्ञानं सुदुर्लभम् । अनेकशतसाहस्रेष्वेक एव विवेकवान् ॥६॥
तस्य दर्शनमात्रेण पितरस्तृप्तिमागताः । ज्ञानिनो दर्शनं पुण्यं सर्वतीर्थावगाहनम् ॥७॥
ज्ञानिन (:) चार्चनेनेव जीवन्मुक्तो भवेन्नरः । ज्ञानिनो भोजने दाने सद्यो मुक्तो भवेन्नरः ॥८॥
अहं ब्रह्म न सन्देहः अहमेव गुरुः परः । अहं शान्तोऽस्मि शुद्धोऽस्मि अहमेव गुणान्तरः ॥९॥
गुणातीतो जनातीतो परातीतो मनः परः । परतः परतोऽतीतो बुद्ध्यातीतो रसात् परः ॥१०॥
भावातीतो मनातीतो वेदातीतो विदः परः । शरीरादेश्च परतो जाग्रत्स्वप्नसुषुप्तितः ॥११॥
अव्यक्तात् परतोऽ‍तीत इत्येवं ज्ञाननिश्चयः । कचिदेतत्परित्यज्य सर्वं संत्यज्य मूकवत् ॥१२॥
तूष्णीं ब्रह्म परं ब्रह्म शाश्वतब्रह्मवान् स्वयम् ज्ञानिनो महिमा किञ्चिदणुमात्रमपि स्फुटम् ॥१३॥
हरिणापि हरेणापि ब्रह्मणापि सुरेरपि । न शक्यते वर्णयितुं कल्पकोटिशतैरपि ॥१४॥
अहं ब्रह्मेति विज्ञानं त्रिषु लोकेषु दुर्लभम् । विवेकिनं महात्मानं ब्रह्ममात्रेणावस्थितम् ॥१५॥
दुष्टुं च भाषितुं वापि दुर्लभं पादसेवनम् । कदाचित् पादतीर्थेन स्नातश्चेत् ब्रह्म एव सः ॥१६॥
सर्वं मिथ्या न सन्देहः सर्व ब्रह्मैव केवलम् । एतत्प्रकरणं प्रोक्तं सर्वसिद्धान्तसंग्रहः ॥१७॥
दुर्लभं यः पठेद्भक्त्या ब्रह्म संपद्यते नरः । वक्ष्ये ब्रह्ममयं सर्वं नान्यत् सर्वं जगन्मृषा ॥१८॥
ब्रह्मैव जगदाकारं ब्रह्मैव परमं पदम् । अहमेव परं ब्रह्म अहमित्यपि वर्जितः ॥१९॥
सर्ववर्जितचिन्मात्रं सर्ववर्जितचेतनः । सर्ववर्जितशान्तात्मा सर्वमङ्गलविग्रहः ॥२०॥
अहं ब्रह्म परं ब्रह्म असन्नेदं न मे न मे । न मे भूतं भविष्यच्च न मे वर्णं न संशयः ॥२१॥
ब्रह्मैवाहं न मे तुच्छं अहं ब्रह्म परं तपः । ब्रह्मरूपमिदं सर्वं ब्रह्मरूपमनामयम् ॥२२॥
ब्रह्मैव भाति भेदेन ब्रह्मैव न परः परः । आत्मैव द्वैतवद्भाति आत्मैव परमं पदम् ॥२३॥
ब्रह्मैव भेदरहितं भेदभेव महद्भयम् । आत्मैवाहं निर्मलोऽहमात्मैव भुवनत्रयम् ॥२४॥
आत्मैव नान्यत् सर्वत्र सर्वं ब्रह्मैव नान्यकः । अहमेव सदा भामि ब्रह्मैवास्मि परो‍ऽस्म्यहम् ॥२५॥
न्रिमलोऽस्मि परं ब्रह्म कार्यकार्यविवर्जितः । सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥२६॥
निश्चयोऽस्मि परं ब्रह्म सत्योऽस्मि सकलोऽ‍स्म्यहम् ।
अक्षरेऽस्मि परं ब्रह्म शिवोऽस्मि शिखरोऽस्म्यहम् ॥२७॥
समरूपोऽस्मि शान्तोऽस्मि तत्परोऽस्मि चिदव्ययः ।
सदा ब्रह्म हि नित्योऽस्मि सदा चिन्मात्रलक्षणः ॥२८॥
सदाऽखण्डैकरूपोऽस्मि सदा मानविवर्जितः । सदा शुद्धैकरूपोऽस्मि सदा चैतन्यमात्रकः ॥२९॥
सदा सन्मानरूपोऽस्मि सदा सत्ताप्रकाशकः । सदा सिद्धान्तरूपोऽस्मि सदा पावनमङ्गलः ॥३०॥
एवं निश्चितवान् मुक्तः एवं नित्यपरो वरः  एवं भावनया युक्तः परं ब्रह्मैव सर्वदा ॥३१॥
एवं ब्रह्मात्मवान् ज्ञानी ब्रह्माहमिति निश्चयः । स एव पुरुषो लोके ब्रह्माहमिति निश्चितः ॥३२॥
स एव पुरुषो ज्ञानी जीवन्मुक्तः स आत्मदान् । ब्रह्मैवाहं महानात्मा सच्चिदानन्दविग्रहः ॥३३॥
नाहं जीवो न मे भेदो नाहं चिन्ता न मे मनः । नाहं मासं न मेऽस्थीनि नाहंकारकलेबरः ॥३४॥
न प्रमाता न मेयं वा नाहं सर्वं परोऽस्म्यहम् । [ सर्वविज्ञानरूपोऽस्मि नाहं सर्वं कदाचन ॥३५॥
नाहं मृतो जन्मनान्यो न चिन्मात्रोऽस्मि नास्म्यहम् ।
न वाच्योऽहं न मुक्तोऽहं न बुद्धो‍हं कदाचन ॥३६॥
न शून्योऽहं न मूढोऽहं न सर्वोऽहं परोऽस्म्यहम् । ] सर्वदा ब्रह्ममात्रोऽहं न रसोऽहं सदाशिवः ॥३७॥
न घ्राणोऽहं न गन्धोऽहं न चिह्वोऽ‍यं न मे प्रियः ।
नाहं जीवो रसो नाहं वरुणो न च गोलकः ॥३८॥
ब्रह्मैवाहं न सन्देहो नामरूपं न किञ्चन । न श्रोत्रोऽहं न शब्दोऽहं न दिशोऽहं न साक्षिकः ॥३९॥
नाहं न त्वं न च स्वर्गो नाहं वायुर्न साक्षिकः । पायुर्नाहं विसर्गो न न मृत्युर्न च साक्षिकः ॥४०॥
गुह्यं नाहं नचानन्दो न प्रजापतिदेवता । सर्वं ब्रह्म न सन्देहः सर्वं ब्रह्मैव केवलम् ॥४१॥
नाहं मनो न संकल्पो न चन्द्रो न च साक्षिकः । नाहं बुद्धीन्द्रियो ब्रह्मा नाहं निश्चयरूपवान् ॥४२॥
नाहंकारमहं रुद्रो नाभिमानो न साक्षिकः । चित्तं नाहं वासुदेवो धारणा नायमीश्वरः ॥४३॥
नाहं विश्वो न जग्रद्वा स्थूलदेहो न मे क्कचित् । न प्रातिभासिको जीवो न चाहं व्यावहारिकः ॥४४॥
न पारमार्थिको देवो नाहमन्नमयो जडः । न प्राणमयकोशोऽहं न मनोमयकोशवान् ॥४५॥
न विज्ञानमयः कोशो नानन्दमयकोशवान् । ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन ॥४६॥
एतावदुक्ता सकलं नामरूपद्वयात्मकम् । सर्वं क्षणेन् विस्मृत्य काष्ठलोष्टादिवत् त्यजेत् ॥४७॥
एतत्सर्वमसन्नित्यं सदा वन्ध्याकुमारवत् । शशश्रृङ्गवदेवेदं नरश्रृङ्गवदेव तत् ॥४८॥
आकाशपुष्पसदृशं यथा मरुमरीचिका । गन्धर्वनगरं यद्वदिन्द्रजालवदेव हि ॥४९॥
असत्यमेव सततं पञ्चरूपकमिष्यते । शिष्योपदेशकालो हि द्वैतं न परमार्थतः ॥५०॥
माता मृते रोदनाय द्रव्यं दत्वाऽऽह्वयेज्जनान् । तेषां रोदनमात्रं यत् केवलं द्रब्यपञ्चकम् ॥५१॥
तदद्वैतं मया प्रोक्तं सर्वं विस्मृत्य कुड्यवत् । अहं ब्रह्मेति निश्चित्य अहमेवेति भावय ॥५२॥
अहमेव सुखं चेति अहमेव न चापरः । अहं चिन्मात्रमेवेति ब्रह्मैवेति विनिश्चिनु ॥५३॥
अहं निर्मलशुद्धेति अहं जीवविलक्षणः।  अहं ब्रह्मैव सर्वात्मा अहमित्यवभासकः ॥५४॥
अहमेव हि चिन्मात्रमहमेव हि निर्गुणः । सर्वान्तर्याम्यहं ब्रह्म चिन्मात्रोऽहं सदाशिवः ॥५५॥
नित्यमङ्ग्लरूपात्मा नित्यमोक्षमयः पुमान् । एवं निश्चित्य सततं स्वात्मानं स्वयमास्थितः ॥५६॥
ब्रह्मैवाहं न सन्देहो नामरूपे न किञ्चन । एतद्रूपप्रकरणं सर्ववेदेषु दुर्लभम् ॥५७॥
यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥
तं वेदादिवचोमिरीडितमहायागैश्च भोगैर्व्रतै -
र्दानैश्चानशनैर्यमादिनियमैस्तं विद्विषन्ते द्विजाः ।
तस्यानङ्गरिपोरतीव सुमहाहृद्यं हि लिङ्गार्चनं
तेनैवाशु विनाश्य मोहमखिलं ज्ञानं ददातीश्वरः ॥५८॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे नामरूपनिषेधप्रकरणं नाम द्वाविंशोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-04-14T04:00:05.7070000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

विडंब

  • पु. डौल ; थाट ; तर्‍हा ; ठेवण . जेवीं आरिशाचें प्रतिबिंब । दिसे समरूपें स्वयंभ । तैशी स्वरूपतेची शोभ । सम विडंब दोहींचा । - एभा २४ . ३०९ . [ सं . ] 
RANDOM WORD

Did you know?

गुरूंचे प्रकार किती? अधिक स्पष्ट करावे?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.