TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
द्वितीयोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - द्वितीयोऽध्यायः

श्रीशिवरहस्यम्


द्वितीयोऽध्यायः
ईश्वरः -
श्रृणु पद्मजसंभूत मत्तः सूत्रविधिक्रमम् । ज्ञानोत्पादकहेतूनि श्रुतिसाराणि तत्वतः ॥१॥
व्यासा मन्वन्तरेषु प्रतियुगजनिताः शांभवज्ञानसिद्ध्यै
भस्माभ्यक्तसमस्तगात्रनिवहा रुद्राक्षमालाधराः ।
कैलासं समवाप्य शङ्करपदध्यानेन सूत्राण्युमा -
कान्तात् प्रपय वितन्वते स्वकधिया प्रामाण्यवादानहो ॥२॥
जिज्ञास्यं ब्रह्म एवेत्यथपदविदितैः साधनप्राप्त्युपायै -
र्योगैर्योगाद्युपायैर्यमनियममहासांख्यवेदान्तवाक्यैः ।
श्रोतव्यो भगवान् न रूपगुणतो मन्तव्य इत्याह हि
वेदोद्बोधदवाक्यहेतुकरणैर्ध्येयः स साक्षात्कृतेः ॥३॥
जन्माद्यस्य यतो‍ऽस्य चित्रजगतो मिथ्यैव तत्कारणं
ब्रह्म ब्रह्मात्मनैव प्रकृतिपरमदो वर्तमानं विवर्तेत् ।
श्रुत्या युक्त्या यतो वा इतिपदघटितो बोधतो वक्ति शंभुं
नाणुः कालविपाककर्मजनितेत्याचोदना वै मृषा ॥४॥
योनिः शास्त्रस्य वेदस्तदुभयमननाद्ब्रह्मणः प्रत्यभिज्ञा
निःश्वासाद्वेदजालं शिववरवदनाद्वेधसा प्राप्तमेतत् ।
तस्मात् तर्कवितर्ककर्कशधिया नातिक्रभेत् तां धियं
स्वाम्नायक्रियया तदप्रकरणे योनिर्महेशो ध्रुवम् ॥५॥
तत्त्वस्यापि समन्वयात् श्रुतिगिरां विश्वेश्वरे चोदना
सा चानिर्वचनीयतामुपगता वाचो निवृत्ता इति ।
आत्मैवैष इतीव वाक्यसुवृतिर्वृत्तिं विधत्ते धिया
वेदान्तदिषु एक एव भगवानुक्तो महेशो ध्रुवम् ॥६॥
नासद्वा वीक्षते यज्जडमिति करणैर्गन्धरूपादिहीनं
शब्दस्पर्शादिहीनं जगदनुगतमपि तद्ब्रह्म किरूपमीष्टे ।
गौणं चेदपि शब्दतो जगदिदं यन्नामरूपात्मकं
तच्चात्राविशदीश्वरोऽर्थवचसा मोक्षस्य निष्ठाक्रमः ॥७॥
हेयत्वावचनाच्च तच्छ्रुतिगिरां स्थूलं प्रदृष्टं भवे -
द्रूपं नारूपतोऽपि प्रकरणवचनं वा विकारः किलेदम् ।
स्वाप्यायादपि तद्वदापि परमानन्दो यदीत्थं परः
सामान्याच्च गतेरथाप्यनुभवे विद्योतते शङ्करः ॥८॥
श्रुतत्वाद्वेदान्तप्रतिपदवचः कारणमुमासनाथो नाथानां स च किल न कश्चिज्जनिभवः ।
स एवानन्दात्मा श्रुतिकथितकोशादिरहितो विकारप्राचुर्यान्न हि भवति कार्यं च करणम् ॥९॥
तद्धेतुव्यपदेशतोऽपि शिव एवेति चानन्दकृत् (?)
मन्त्रैर्वर्णकृतक्रमेण भगवान् सत्याद्यनन्तोच्यते ।
नैरन्तर्यानुपपत्तितोऽपि सुखिता चानन्दभेदोऽर्थतः
कामाच्चाननुभावतो हृदि भिदा जायेद्भयं संसृतेः ॥१०॥
पुच्छं ब्रह्म प्रतिष्ठितेति वचनाच्छेवी महेशोऽव्ययः ।
आकाशान्तरतोऽपि भौतिकहृदाकाशात्मता वाक्यतो
ब्रह्मैव प्रतिभाति भेदकलने चाकल्पनाकल्पतः ॥११॥
सुषुप्त्युत्क्रान्त्योर्वा नहि खलु न भेदः परशिवे अतोत्थानं (!)द्वैते न भवति परे वै विलयने ।
तदर्हं यत्सूक्ष्मं जगदिदमनाकारमरसं न गन्धां न स्पर्शं भवति परमेशे विलसितम् ॥१२॥
अधीनं चार्थ तद्भवति पुनरेवेक्षणपरं स्वतन्त्रेच्छा शंभोर्न खलु करणं कार्यमपि न ॥१३॥
ज्ञेयत्वावचनाच्च शंकर परानन्दे प्रमोदास्पदे प्रज्ञानं नहि कारणं प्रकृतिकं प्रश्न्त्रयस्यार्थवत् ॥१४॥
महद्वच्चाणीयो भवति च समो लोकसदृशा तथा ज्योतिस्त्वेकं प्रकरणपरं कल्पितवतः ।
न संख्याभेदेन त्रिभुवनविभ वादतिकरं स्वभावोऽयं शश्वन्मुखरयति मोदाय जगताम् ॥१५॥
प्राणादुद्गतपञ्चसंख्यजनिता तद्वस्त्रिवच्च श्रुतं
तच्छोत्रं मनसो न सिद्धपरमानन्दैकजन्यं महः ।
ज्योतिष्कारणदर्शिते च करणे सत्ता सदित्यन्वह
चाकर्षा भवति प्रकर्षजनिते त्वत्तीति वाक्योत्तरम् ॥१६॥
जाग्रत्त्वावचनेन जीवजगतोर्भेदः कथं कथ्यते
लिङ्गं प्राणगतं न चेश्वरपरं ज्योतिः किलैक्यप्रदम् ।
अन्यार्थत्वविवेकतोऽर्थगतिकं चाकल्पयद्वाक्यतः
प्रज्ञामित्यपरः क्रमस्थितिरसावन्यो वदन्तं मृषा ॥१७॥
प्रकृत्यैवं सिद्धं भवति परमानन्दविधुरं अभिध्योपादेशाद् भवति उभयाम्नायवचनैः ।
भवत्यात्मा कर्ता कृतिवरहितो योनिरपि च प्रतिष्ठा निष्ठा च त्रिभुवनगुरुः प्रेमसदनः ॥१८॥
अभिध्योपादेशात् स बहु भवदीक्षादिवशतः समासा(भा)चोभाभ्यां प्रकृतिजसमाम्नायवचनात् ।
अतो ह्यात्मा शुद्धः प्रकृतिपरिणामेन जगतां मृदीव व्यापारो भवति परिणामेषु च शिवः ॥१९॥
आनन्दाभ्यासयोगाद्विकृतजगदानन्दजगतो अतो हेतोर्धर्मो न भवति शिवः कारणपरः ।
हिरण्यात्माऽऽदित्येऽक्षिणि उदेतीह भगवान् नतेश्चाधाराणां श्रवणवचनैर्गोपितधियः ॥२०॥
भेदादिव्यपदेशतोऽस्ति भगवानन्यो भवेत् किं ततः
आकाशादिशरीरलिङ्गनियमाद्व्याप्यं हि सर्वं ततः ।
तज्ज्योतिः परमं महेश्वरमुमाकान्ताख्यशान्तं महो
वेदातेषु नितान्तवाक्यकलने छन्दोऽभिधानादपि ॥२१॥
भूतादिव्यपदेशतोऽपि भगवत्यस्मिन् महेशे ध्रुवं
यस्माद्भूतवराणि जायत इति श्रुत्याऽस्य लेशांशतः ।
विश्वं विश्वपतेरभूत् तदुभयं प्रामाण्यतो दर्शनात्
प्राणस्यानुगमात् स एवं भगवान् नान्यः पथा विद्यते ॥२२॥
न वक्तुश्चात्मा वै स खलु शिवभूषादिविहितस्तथैवायुर्देहे अरनिवहवत् चक्रगमहो ।
अदृश्यो ह्यात्मा वै स हि सुदृशतः (!) शास्त्रनिवहैः शिवो देवो वामो मुनिरपि च सार्वात्म्यमभजत् ॥२३॥
प्रसिद्धिः सर्वत्र श्रुतिषु विधिवाक्यैर्भगवतो महाभूतैर्जातं जगदिति च तज्जादिवचनैः ।
अतोऽणीयान् ज्यायानपि द्विविधभेदव्यपगता विवक्षा नोऽस्तीति प्रथयति गुणैरेव हि शिवः ॥२४॥
संभोगप्राप्तिरेव प्रकटजगतः कारणतया सदा व्योमैवेत्थं भवति हृदये सर्वजगताम् ।
अतोऽत्ता वै शर्वश्चरमचरभृतं जगदिदं महामृत्युदंशो भवति शिख(?)रन्नाद इति च ॥२५॥
प्रकरणवचनेन वेदजाते भगवति भवनाशने महेशे ।
प्रबिशति शिव एव भोगभोक्तृनियमनदर्शनतो हि वाक्यजातम् ॥२६॥
विशेषणैः शङ्करमेव नित्यं द्विधा वदत्येवमुपाधियोगात् ।
अतोऽन्तरा वाक्यपदैः समर्थितः स्नानादियोगैर्भगवानुमापतिः ॥२७॥
सुखाभिधानात् सुखमेव शंभुः कं ब्रह्म खं ब्रह्म इति श्रुतीरितः ।
श्रुतोपवाक्योपनिषत्प्रचोदितः गतिं प्रपद्येत बुधोऽति विद्यया ॥२८॥
अनवस्थितितोऽपि नेतरो भगवानेव स चक्षुषि प्रबुध्येत् ।
भयभीताः खलु यस्य सोमसूर्यानलवाय्वंबुजसंभवा भ्रमन्ति ॥२९॥
अन्तर्यामितयैव लोकमखिलं जानात्युमायाः पतिः
भूतेष्वन्तरगोऽपि भूतनिवहा नो जानते शङ्करम् ॥३०॥
न तत्स्मृत्या धर्मैरभिलषणतो भेदविधुरं न शारीरं भेदे भवति अगजानायकवरे ।
अदृश्यत्वाद्धर्मैर्न खलु भगवानन्यदिति च परादादित्यं चामतिरपि च भेदप्रकलने ॥३१॥
भेदादेश्च विशेषणं परशिवे रूपं न नाम प्रभा ।
भावो वा भवति प्रभाविरहितं ब्रह्मात्मना चाह तत् ॥३२॥
स्मृतं मानं शंभौ भगवति च तत्साधनतयाप्यतो दैवं भूतं न भवति च साक्षात् परशिवे ।
अभिव्यक्ती चान्यः स्मृतिमपि तथाऽन्योऽपि मनुते तथा संपत्तिर्वै भुवि भवति किं शंभुकलने ॥३३॥
यं मुक्तिव्यपदेशतः श्रुतिशिखाशाखाशतैः कल्पिते
भिद्येद्ग्रन्थिरपि प्रकीर्णवचनात् साक्ष्येव बाह्यान्तरा ।
शब्दो ब्रह्मतथैव न प्रभवते प्राणप्रभेदेन च
तच्चाप्युत्क्रमणस्थितिश्च विलये भुंक्तेऽप्यसौ शङ्करः ॥३४॥
तं भूमा संप्रसादाच्छिवमजरमात्मानमधुना श्रृणोतीक्षेद्वापि क्षणमपि तथान्यं न मनुते ।
तथा धर्मापत्तिर्भवति परमाकाशजनितं प्रशस्तं व्यावृत्तं दहरमपि दध्याद्यपदिशत् ॥३५॥
अलिङ्गं लिङ्गस्थं वदति विधिवाक्यैः श्रुतिरियं
धृतेराकाशाख्यं महिमनि प्रसिद्धेर्विमृशता ।
अतो मर्शान्नायं भवति भवभावात्मकतया
शिवाविर्भावो वा भवति च निरूपे गतधियाम् ॥३६॥
परामर्शे चान्यद्भवति दहरं किं श्रुतिवचो निरुक्तं चाल्पं यत् त्वनुकृति तदीयेऽह्नि महसा ।
विभातीदं शश्वत् प्रमतिवरशब्दैः श्रुतिभवैः ॥३७॥
यो व्यापकोऽपि भगवान् पुरुषोऽन्तरात्मा । वालाग्रमात्रहृदये किमु सन्निविष्टः ॥३८॥
प्रत्यक्षानुभवप्रमाणपरमं वाक्यं किलैकार्थदं
मानेनापि च संभवाभ्रमपरो वर्णं तथैवाह हि ।
शब्दं चापि तथैव नित्यमपि तत् साम्यानुपत्तिक्रिया
मध्वादिष्वनधीकृतोऽपि पुरुषो ज्योतिष्यभावो भवेत् ॥३९॥
भावं चापि शुगस्य तच्छ्रवणतो जात्यन्तरासंभवात्
संस्काराधिकृतोऽपि शङ्करयदं ये वक्तुकामा मनाक् ।
ज्योतिर्दर्शनतः प्रसादपरमादस्माच्छारीरात् परं
ज्योतिश्चाभिनिविश्य व्योम परमानन्दं परं विन्दति ॥४०॥
स्मृतीनां वादोऽत्र श्रुतिविभवदोषान्यवचसा स एवात्मा दोषैर्विगतमतिकायः परशिवः ।
स विश्वं विश्वात्मा भवति स हि विश्वाधिकतया समस्तेषु प्रोतो भवति स हि कार्येषु करणम् ॥४१॥
प्रधानानां तेषां भवति इतरेषामनुपमो -
प्यलब्धोऽप्यात्मायं श्रुतिशिरसि चोक्तोऽणुरहितः ।
स दृश्योऽचिन्त्यात्मा भवति वरकार्येषु करणं
असद्वा सद्वा सोऽप्यसदिति न दृष्टान्तवशगम् ॥४२॥
असङ्गो लक्षण्यः स भवति हि पञ्चस्वपि मुधा अभीमानोद्देशादनुगतिरथाक्षादिरहितः ।
स्वपक्षादौ दोषाश्रुतिरपि न ईष्टे परमतं त्वनिर्मोक्षो भूयादनुमितिकुतर्कैर्न हि भवेत् ॥४३॥
भोक्त्रापत्तेरपि विषयतो लोकवेदार्थवादो
नैनं शास्ति प्रभुमतिपरं वाचि वारंभणेभ्यः ।
भोक्ता भोगविलक्षणो हि भगवान् भावोऽपि लब्धो भवेत्
सत्वाच्चापि परस्य कार्यविवशं सद्वाक्यवादान्वयात ॥४४॥
युक्तेः शब्दान्तराच्चासदिति नहि कार्यं च करणं प्रमाणैर्युक्त्या वा न भवति विशेषेण मनसा ।
परः प्राणोद्देशाद्धितकरणदोषाभिधधिया तथाश्माद्या दिव्या ......... द्योतन्ति देवा दिवि(?) ॥४५॥
प्रसक्तिर्वा कृत्स्ना श्रुतिवरबलादात्मनि चिरं स्वण्क्षे दोषाणां प्रभवति च सर्वादिसुदृशा ।
विकाराणां भेदो न भवति वियोज्यो गुणधियां अतो लोके लीलापरविषमनैर्घृण्यविधुरम् ॥४६॥
स कर्मारंभाद्वा उपलभति यद्देतिच परं
सर्वैर्धर्मपदैरयुक्तवचनापत्तेः प्रवृत्तेर्भवेत् ।
भूतानां गतिशोपयुज्यपयसि क्षारं यथा नोपयुक्
अवस्थानं नैव प्रभवति तृणेषूद्यतमते -
स्तथाभावात् पुंसि प्रकटयति कार्यं च करणम् ॥४७॥
अङ्गित्वानुपपत्तितोऽप्यनुमितो(?) शक्तिज्ञहीनं जगत् प्रतिषिद्धे सिद्धे प्रसभमिति मौनं हि शरणम् ।
महद्दीर्घं ह्रस्वं उभयमपि कर्मैव करणे तथा साम्ये स्थित्या प्रभवति स्वभावाच्च नियतम् ॥४८॥
न स्थानतोऽपि श्रुतिलिङ्गसमन्वयेन प्रकाशवैयर्थ्यमतो हि मात्रा ।
सूर्योपमा प्रमवतित्वतथाउदन्बा-(?)त्तद्दर्शनाच्च नियतं प्रतिबिम्बरूपम् ॥४९॥
तदव्यक्तं न ततो लिङ्गमेतत् तथोभयव्यपदेशाच्च तेजः ।
प्रतिषेधाच्च परमः सेतुरीशः सामान्यतः स्थानविशेषबुद्ध्या ॥५०॥
विशेषतश्चोपपत्तेस्तथान्यदतः फलं चोपपद्येत यस्मात् ।
महेश्वराच्छ्रुतिभिश्चोदितं यत् धर्मं परे चेश्वरं चेति चान्ये ।
न कर्मवच्चेश्वरे भेदधीर्नः ॥५१॥
भेदान्न चेति परतः परमार्थदृष्ट्या स्वाध्यायभेदादुपसंहारभेदः ।
अथान्यथात्वं वचसोऽसौ वरीयान् संज्ञातश्चेव्द्याप्तिरेव प्रमाणम् ॥५२॥
सर्वत्राभेदादनयोस्तथान्यत् प्राधान्यमानन्दमयः शिरस्त्वं ।
तथेतरे त्वर्थसामान्ययोगात् प्रयोजनाभावतयाऽप्ययाय ते ॥५३॥
शब्दात्तथा ह्यात्मगृहीतिरुत्तरात् तथान्वयादितराख्यानपूर्वम् ।
अशब्दत्वादेवभेतत् समानमेवं च संविद्वचनाविशेषात् ॥५४॥
तद्दर्शनात् संभृतं चैवमेषोऽनाम्नायाद्वेद्यभेदात् परेति ।
गतेरर्थादुपपन्नार्थलोके शब्दानुमानैः सगुणोऽव्ययात्मा ॥५५॥
यथाधिकारं स्थितिरेव चान्तरा ( तथात्मनः ) तत्रैव भेदाद्विशिषन्हीतरवत् ।
अन्यत्तथा सत्यकृत्या तथैके कामादिरत्रायतनेषु चादरात् ॥५६॥
उपस्थिते तद्वचनात् तथाग्नेः संलोप एवाग्निभवः प्रदाने ।
अतोऽन्यचिन्तार्थभेदलिङ्गं बलीयः क्रिया परं चासमानाच्च दृष्टेः ॥५७॥
श्रुतेर्बलादनुबन्धेमखे वै भावापत्तिश्चात्मनश्चैक एव ।
तद्भावभावादुपलब्धिरीशे सद्भावभावादनुभावतश्च ॥५८॥
अङ्गावबद्धा हि तथैव मन्त्रतो भूम्नः क्रतोर्जायते दर्शनेन ॥५९॥
रूपादेश्च विपर्ययेण तु दृशा दोषोभयत्राप्ययं अग्राह्याः सकलानपेक्ष्यकरणं प्राधान्यवादेन हि ।
तत्प्राप्तिः समुदायकेऽपि इतरे प्रत्यायिकेनापि यत् विद्याऽविद्या असति बलतो धुर्यमार्याभिशंसी ॥६०॥
दोषोभयोरपि तदा स्वगमोऽभ्युपेया । स्मृत्या सतो दृशि उदासीनवद्भजेत् ॥६१॥
नाभावादुपलब्धितोऽपि भगवद्वैधर्म्यस्वन्यादिवत्
भावेनाप्युपलब्धिरीशितुरहो सा वै क्षणं कल्प्यते ।
सर्वार्थानुपपत्तितोऽपि भगवत्येकाद्वितीये पुनः
कात्स्न्येंनात्मनि नो विकारकलनं नित्यं पतेर्धर्मतः ॥६२॥
संबन्धानुपपत्तितोऽपि समधिष्ठानोपपत्तेरपि
तच्चैवाकरणं च भोगविधुरं त्वं तत्वसर्वज्ञता ।
उत्पत्तेरपि कर्तुरेव कारणतया विज्ञानभावो यदि
.........(नि)षेधप्रतिपत्तितोऽपि मरुतश्चाकाशतः प्राणतः ॥६३॥
अस्तित्वं तदपीति गौणपरता वाक्येषु भिन्ना क्रिया
कार्यद्रव्यसमन्वयायकरणं शब्दाच्च ब्रह्मैव तत् ।
शब्देभ्योऽप्यमतं श्रुतं भवति तद् ज्ञानं परं शांभवं
यावल्लोकविभागकल्पनवशात् भूतक्रमात् सर्जति ॥६४॥
तस्यासंभवतो भवेज्जगदिदं तेजःप्रसूतं श्रुतिः
चापः क्ष्मा मरुदेव खात्मकथयन्तल्लिङ्गसंज्ञानतः ॥६५॥
विपर्ययेण क्रमतोऽन्तरा हि विज्ञानमानक्रमतो विशेषात् ।
न चात्मनः कारणताविपर्यश्चराचरव्यापकतो हि भावैः ॥६६॥
नात्मा श्रुतो नित्यताशक्तियोगान्नानेव भासत्यविकल्पको हि ।
संज्ञान एवात्र गतागतानां स्वात्मानं चोत्तरणेनाणुरेव ॥६७॥
स्वशब्दोन्मानाभ्यां सुखयति सदानन्दनतनुं विरोधश्चान्द्रोपद्रव इव सदात्मा निखिलगः ।
गुणदालोकेषु व्यतिकरवतो गन्धवहतः परो दृष्टो ह्यात्मा व्यपदिशति प्रज्ञानुभवतः ॥६८॥
यावच्चात्मा नैव दृश्येत दोषैः पुंस्त्वादिवत्त्वसतो व्यक्तियोगात् ।
मनोऽ‍न्यत्रायदि कार्येषु गौणं विमुखः कर्ता शाश्वतो विहरति उपादानवशतः ॥६९॥
अस्यात्मव्यपदेशतः श्रुतिरियं कर्तृत्ववादं वदत् उपालब्धुं शक्ते र्विपरति समाध्या क्षुभितया ।
तनोः संबन्धेन प्रविशति परं ज्योतिकलने ॥७०॥
आसन्नतेव्यतिकरं पररूपभेदे आभास एव सुदृशा नियतो नियम्यात् ।
आकाशवत् सर्वगतोऽव्ययात्मा आसन्धिभेदात् प्रतिदेशभावात् ॥७१॥
तथा प्राणो गौणः प्रकृतिविधिपूर्वार्थकलनादघस्तोये सृत्यः प्रथितगतिशेषेण कथितः ।
हस्तादयस्त्वणवः प्राणवायोः चक्षुस्तथा करणत्बान्न दोषः ॥७२॥
यः पञ्चवृत्तिर्मनवच्च दृश्यते तथाणुतो ज्योतिरसुश्च खानि ।
भेदश्रुतेर्लक्षणविप्रयोगादात्मादिभेदे तु विशेषवादः ॥७३॥
आत्मैकत्वात् प्राणगतेश्च वह्नेः ते जागतीवाश्रुतत्वान्न चेष्टा ।
भोक्तुर्न चात्मन्यविदीकृता ये ते धृममार्गेण किल प्रयान्ति ॥७४॥
चरणादिति चान्यकल्पनां स्मरन्ति सप्तैव गतिप्ररोहात् ।
व्यापारवैधुर्यसमूहविद्या ते कर्मणैवेह तृतीयलब्धाम् ॥७५॥
तद्दर्शनं तद्गदतोऽप्यविद्या सव्योपपत्तेरुत दौविशेषात् ।
चिरन्तपः शुद्धिरतो विशेषात् ते स्थावरे चाविशेषार्थवादः ॥७६॥
सन्ध्यांशसृष्ट्या किल निर्ममे जगत् पुत्रेषु मायामयतोऽव्ययात्मा ।
कृत्स्नं मायामयं तज्जगदिदमसतो नामरूपं तु जातं ।
जाग्रत्स्वप्नसुषुप्तितोऽपि परमानन्दं तिरोधानकृत् ॥७७॥
देहायोगात् ह्रसते वर्धते यः तत्रैवान्यत् पश्यते सोऽथ बोधात् ।
स शोशुचानस्मृतिशब्दबोधः ॥७८॥
नानाशब्दादिभेदात् फलविविधमहाकर्मवैचित्र्ययोगात्
ईष्टे तां गुणधारणां श्रुतिहितां तद्दर्शनोद्बोधतः ।
तद्दर्शनात् सिद्धित एव सिद्ध्यते आचारयोगादृततच्छ्रुतेश्च ॥७९॥
वाचा समारंभणतो नियामतः तस्याधिकाप्रात्वकस्योपदेशात् ।
तुल्यं दृशा सर्वतः स्याद्विभागः अव्यापयात्रान्नविशेषतस्तु ते ॥८०॥
कामोपमर्देन तदूर्ध्वरेतसा विमर्शतो याति स्वतत्ततोऽन्यः ।
अनुष्ठेयं चान्यत् श्रुतिशिरसि निष्ठाभ्रमवशात् ।
विधिस्तुत्या भावं प्रवदति रथाग्नेराधानमनुवदति ज्ञानाङ्गमपि च ॥८१॥
प्राणात्यते वापि समं तथान्नं अबाधतः स्मृतितः कामकारे ।
विहिताश्रमकर्मतः सहैव कार्यात् तथोभयोर्लिङ्गभङ्गं च दर्शयेत् ॥८२॥
तथान्तरा चापि स्मृतेर्विज्ञेषतः ज्यायोऽपि लिङ्गाभयभावनाधिका ।
सैवाधिकारादर्शनात् तदुक्तं आचारतः स्वामिन ईज्यवृत्त्या ॥८३॥
स्मृते ऋत्विक्सहकार्यं च कुत्स्नम् ।
तन्मौनवाचा वचनेन कुर्वन् तदैहिकं तदवस्थाधृतेश्च ॥८४॥
आवृत्त्या प्यसकृत्तथोपदिशति ह्यात्मन्नुपागच्छति
ग्राहं याति च शास्त्रतो (?) प्रतीककलनात् सा ब्रह्मदृष्टिः प्रभोः ।
आदित्यादिकृतीषु तथा सतीरपि कर्माङ्गताध्यानतः
त्स्माच्चास्थिरतां स्मरन्ति च पुनर्यत्रैव तत्र श्रुता ॥८५॥
आप्रायणात् तत्र दृष्टं हि यत्र तत्रागमात् पूर्वयोऽश्लेषनाशौ ।
तथेतरस्यापि पतेदसंसृतौ अनारब्धाग्निहोत्रादिकार्ये ॥८६॥
अतोऽन्येषामुभयोर्यत्र योगात् विद्याभोगेन वाङ्मनसी दर्शनाच्च ।
सर्वाण्यनुमनसा प्राण एव सोऽध्यक्षेत उपदर्शेन कच्चित् ॥८७॥
समानवृत्त्या क्रमते चासु वृत्त्या संसारतो व्यपदेशोपपत्तेः ।
सूक्ष्मप्रमाणोपमर्दोपलब्धस्थितिश्च तथोपपत्तेरेष ऊष्मा रसैके ॥८८॥
अत्र स्मर्यनानुपरताविधिवाक्यसिद्धेर्वैयासकिर्मुनिरेषोव्ययात्मा ।
अविभागो वचनाद्धार्द एव रश्म्यनुसारी निशितो दक्षिणायने ।
योग्नः प्रतिसृतैः(ते)स्तथार्चिरात् वायुमद्धटितो वरुणेन ॥८९॥
आतिवाहिकविधेस्तदलिङ्गात् तद्वदत्र उभयोरपि सिद्धिः ।
तद्वैतेन गतिरप्युपावृतो विशेषसामीप्यसकार्यहेतौ ॥९०॥
स्मृतिस्तथाऽन्योऽपि च दर्शनेन काये तथा प्रतिपत्तिप्रतीकः ।
विशेषदृष्ट्या संपादाविर्भवेन स्वेनांशत्वान्मुक्तिविज्ञानतो हि ॥९१॥
आत्मप्रकाशादविभागेन दृष्टः तद्ब्रह्मणोऽन्यद्द्युतितन्मात्रतोऽन्यः ।
उपन्यासादन्यसंकल्पभूत्या रथावायोऽप्युथाह (?) ॥९२॥
भावमन्यो उभयं न स्वाभावा भावे संपत्तिरेवं जगत् स्यात् ।
प्रत्यक्षेणोपदेशात् (श)स्थितिरपि जगतो व्यक्तिभावादुपासा
भेदाभासस्थितिरविकारावर्तिरिति च ॥९३॥
तथा दृष्टेर्द्रष्टुर्विपरीतदृष्टेः श्रुतिवशात् तथा बुद्धेर्बोद्धा भवति अनुमानेन हि बुधः ।
भोगे सामान्यलिङ्गात् शिवभजनभवे मान्यमनसा अनावृत्तिः शब्दो भवति विधिवाक्येन नियतम् ॥९४॥
तवोक्तः सूत्राणां विधिरपि च सामान्यमुभयप्रकृष्टश्रुत्यैव प्रभवति महानन्दसदने ॥९५॥
स्कन्दः -
त्रिनेत्रवक्त्रसुचरित्ररूपं मन्त्रार्थवादाम्बुजमित्ररूपाः ।
प्रहृष्टरूपा मुनयो वितेनिरे मतानुसारीण्यथ सूत्रितानि ॥९६॥
न तानि बुद्ध्युद्भवबोधदानि विश्वेशपादाम्बुजभक्तिदानि ॥९७॥
इति श्रीशिवरहस्ये शंकराख्ये षष्ठांशे शिवेन ऋभुं प्रति सूत्रोपदेशो नाम द्वितीयोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-04-14T03:35:18.9400000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

हुसकटणें

  • उ.क्रि. १ झिडकारणें ; घालवून देणें ; तिरस्कारानें हाकालपट्टी करणें ; हाकून लावणें . ३ अस्ताव्यस्तपणें इकडेतिकडे फेकणें ; उसकटणें . ३ मोडणें ; फिसकटविणें . त्या दुष्टानें माझ्या लग्नाचें काम हुसकटलें . - अक्रि . घाबरणें ; बुजणें ; भिऊन थबकणें ( पशु , इ० नीं ); चुथडा होणें ; बिघडणें ( काम , धंदा , बेत इ० ). [ हुस्सा ] 
RANDOM WORD

Did you know?

पूजेचे प्रकार कोणकोणते स्पष्ट करावेत.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.