संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| सप्तचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - सप्तचत्वारिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव सप्तचत्वारिंशोऽध्यायः Translation - भाषांतर ऋभुः - निदाघ श्रृणु वक्ष्यामि दृढीकरणमस्तु ते । शिवप्रसादपर्यन्तमेवं भावय नित्यशः ॥१॥अहमेव परं ब्रह्म अहमेव सदाशिवः । अहमेव हि चिन्मात्रमहमेव हि निर्गुणः ॥२॥अहमेव हि चैतन्यमहमेव हि निष्कलः । अहमेव हि शून्यात्मा अहमेव हि शाश्वतः ॥३॥अहमेव हि सर्वात्मा अहमेव हि चिन्मयः । अहमेव परं ब्रह्म अहमेव महेश्वरः ॥४॥अहमेव जगत्साक्षी अहमेव हि सद्गुरुः । अहमेव हि मुक्तात्मा अहमेव हि निर्मलः ॥५॥अहमेवाहमेवोक्तः अहमेव हि शङ्करः । अहमेव महाविष्णुरहमेव चतुर्मुखः ॥६॥अहमेव हि शुद्धात्मा ह्यहमेव ह्यहं सदा । अहमेव हि नित्यात्मा अहमेव हि मत्परः ॥७॥अहमेव मनोरूपं अहमेव हि शीतलः । अहमेवान्तर्यामी च अहमेव परमेश्वरः ॥८॥एवमुक्तप्रकारेण भावयित्वा सदा स्वयम् । द्रव्योऽस्ति चेन्न कुर्यात्तु वंचकेन गुरुं परम् ॥९॥कुम्भीपाके सुघोरे तु तिष्ठत्येव हि कल्पकान् । श्रुत्वा निदाघश्चोत्थाय पुत्रदारान् प्रदत्तवान् ॥१०॥स्वशरीरं च पुत्रत्वे दत्वा सादरपूर्वकम् । धनधान्यं च वस्त्रादीन् दत्वाऽतिष्ठत् समीपतः ॥११॥गुरोस्तु दक्षिणां दत्वा निदाघस्तुष्टवानृभुम् । सन्तुष्टोऽस्मि महाभाग तव शुश्रूषया सदा ॥१२॥ब्रह्मविज्ञानमाप्तोऽसि सुकृतार्थो न संशयः । ब्रह्मरूपमिदं चेति निश्चयं कुरु सर्वदा ॥१३॥निश्चयादपरो मोक्षो नास्ति नास्तीति निश्चिनु । निश्चयं कारणं मोक्षो नान्यत् कारणमस्ति वै ॥१४॥सकलभुवनसारं सर्ववेदान्तसारं समरसगुरुसारं सर्ववेदार्थसारम् । सकलभुवनसारं सच्चिदानन्दसारं समरसजयसारं सर्वदा मोक्षसारम् ॥१५॥सकलजननमोक्षं सर्वदा तुर्यमोक्षं सकलसुलभमोक्षं सर्वसाम्राज्यमोक्षम् ।विषयरहितमोक्षं वित्तसंशोषमोक्षं श्रवणमननमात्रादेतदत्यन्तमोक्षम् ॥१६॥तच्छुश्रूषा च भवतः तच्छ्रुत्वा च प्रपेदिरे ।एवं सर्ववचः श्रुत्वा निदाघऋषिदर्शितम् । शुकादयो महान्तस्ते परं ब्रह्ममवाप्नुवन् ॥१७॥श्रुत्वा शिवज्ञानमिदं ऋभुस्तदा निदाघमाहेत्थ (?) मुनीन्द्रमध्ये ।मुदा हि तेऽपि श्रुतिशब्दसारं श्रुत्वा प्रणम्याहुरतीव हर्षात् ॥१८॥मुनयः - पिता माता भ्राता गुरुरसि वयस्योऽथ हितकृत् अविद्याब्धेः पारं गमयसि भवानेव शरणम् ।बलेनास्मान् नीत्वा मम वचनबलेनैव सुगमं पथं प्राप्त्यैवार्थैः शिववचनतोऽस्मान् सुखयसि ॥१९॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुकृतसंग्रहोपदेशवर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 17, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP