TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
अष्टमोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - अष्टमोऽध्यायः

श्रीशिवरहस्यम्


अष्टमोऽध्यायः
ऋभुः -
वक्ष्ये प्रपञ्चशून्यत्वं शशश्रृङ्गेण संमितम् । दुर्लभं सर्वलोकेषु सावधानमनाः श्रृणु ॥१॥
इदं प्रपञ्च यत किञ्चिद्यः श्रृणोति च पश्यति । दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत ॥२॥
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । अहंकारश्च तेजश्च सर्वं शशविषाणवत ॥३॥
नाश जन्म च सत्यं च लोकं भुवनमण्डलम् । पुण्यं पाप जयो मोहः सर्वं शशविषाणवत ॥४॥
कामक्रोधौ लोभमोहौ मदमोहौ रतिधृतिः । गुरुशिष्योपदेशादि सर्वं शशविषाणवत ॥५॥
अहं त्वं जगदित्यादि आदिरन्तिममध्यमम् । भृतं भव्यं वर्तमानं सर्वं शशविषाणवत ॥६॥
स्थूलदेहं सूक्ष्मदेहं कारणं कार्यमप्ययम् । दृश्यं च दर्शनं किञ्चित सर्वं शशविषाणवत ॥७॥
भोक्ता भोज्यं भोगरूपं लक्ष्यलक्षणमद्वयम् । शमो विचारः सन्तोषः सर्वं शशविषाणवत ॥८॥
यम च नियमं चैव प्राणायामादिभाषणम् । गमनं चलनं चित्तं सर्वं शशविषाणवत ॥९॥
श्रोत्रं नेत्र गात्रगोत्रं गुह्यं जाड्यं हरिः शिवः । आदिरन्तो मुमुक्षा च सर्वं शशविषाणवत ॥१०॥
ज्ञानेन्द्रियं च तन्मात्रं कर्मेन्द्रियगणं च यत । जाग्रत्स्वप्नसुषुप्त्यादि सर्वं शशविषाणवत ॥११॥
चतुर्विंशतितत्वं च साधनानां चतुष्टयम् । सजातीयं विजातीयं सर्वं शशविषाणवत ॥१२॥
सर्वलोकं सर्वभूतं सर्वधम्र सतत्वकम् । सर्वाविद्या सर्वविद्या सर्वं शशविषाणवत ॥१३॥
सर्ववर्णः सर्वजातिः सर्वक्षेत्रं च तीर्थकम् । सर्ववेदं सर्वशास्त्रं सर्वं शशविषाणवत ॥१४॥
सर्वबन्ध सर्वमोक्ष सर्वविज्ञानमीश्वरः । सर्वकालं सर्वबोध सर्वं शशविषाणवत ॥१५॥
सर्वास्तित्वं सर्वकम्र सर्वसङ्ग्युतिर्महान् । सर्वद्वैतमसद्भावं सर्वं शशविषाणवत ॥१६॥
सर्ववेदान्तसिद्धान्तः सर्वशास्त्रार्थनिर्णयः । सर्वजीवत्वसद्भावं सर्वं शशविषाणवत ॥१७॥
यद्यत् संवेद्यते किञ्चित् यद्यज्जगति दृश्यते । यद्यच्छृणोति गुरुणा सर्वं शशविषाणवत ॥१८॥
यद्यद्ध्यायति चित्ते च यद्यत् संकल्प्यते क्कचित् । बुद्ध्या निश्चीयते यच्च सर्वं शशविषाणवत ॥१९॥
यद्यद् वाचा व्याकरोति यद्वाचा चार्थभाषणम् । यद्यत् सर्वेन्द्रियैर्भाव्यं सर्वं शशविषाणवत ॥२०॥
यद्यत् सन्त्यज्यते वस्तु यच्छृणोति च पश्यति । स्वकीयमन्यदीयं च सर्वं शशविषाणवत ॥२१॥
सत्यत्वेन च यद्भाति वस्तुत्वेन रसेन च । यद्यत् सङ्कल्प्यते चित्ते सर्वं शशविषाणवत ॥२२॥
यद्यदात्मेति निर्णीतं यद्यन्नित्यमितं वचः । यद्यद्विचार्यते चित्ते सर्वं शशविषाणवत ॥२३॥
शिवः संहरते नित्यं विष्णुः पाति जगत्त्रयम् ।
स्रष्टा सृजति लोकान् वै सर्वं शशविषाणवत् ॥२४॥
जीव इत्यपि यद्यस्ति बहषयत्यपि भाषणम् । संसार इति या वार्ता सर्वं शशविषाणवत् ॥२५॥
यद्यदस्ति पुराणेषु यद्यद्वेदेषु निर्णयः । सर्वोपनिषदां भावं सर्वं शशविषाणवत ॥२६॥
शशश्रृङ्गवदेवेदमुक्तं प्रकरणं तव । यः श्रृणोति रहस्यं वै ब्रह्मैव भवति स्वयम् ॥२७॥
भूयः श्रृणु निदाघ त्वयं सर्वं ब्रह्मेति निश्चयम् । सुदुर्लभमिदं नॄणां देवानामपि सत्तम ॥२८॥
इदनित्याव यद्रूपमहमित्यापि यत्पुनः । दृश्यते यत्तदेवेदं सर्वं ब्रह्मेति केवलम् ॥२९॥
दहोऽयनिति सङ्कल्पस्तदेव भयमुच्यते । कालत्रयेपि तन्नास्ति सर्वं ब्रह्मेति केवलम् ॥३०॥
दहेऽहमिति संकल्पस्तदन्तःकरणं स्मृतम् । कालत्रयेपि ............  ............. ॥३१॥
दहेऽहमिति संकल्पः स हि संसार उच्यते । कालत्रयेपि ............  ............. ॥३२॥
दहोऽहमिति सङ्कल्पस्तद्बन्धनमिहोच्यते । कालत्रयेपि ............  ............. ॥३३॥
देहोऽहमिति हदू ज्ञानं तदेव नरकं स्मृतम् । कालत्रयेपि ............  ............. ॥३४॥
देहोऽहमिति सङ्कल्पो जगत् सर्वमितीर्यते । कालत्रयेपि ............  ............. ॥३५॥
देहोऽहमिति संकल्पो हृदयग्रन्थिरीरितः । कालत्रयेपि ............  ............. ॥३६॥
देहत्रयेऽपि भावं यत् (?) तद्देहज्ञानमुच्यते । कालत्रयेपि ............  ............. ॥३७॥
देहोऽहमिति यद्भावं सदसद्भामेव च । कालत्रयेपि ............  ............. ॥३८॥
देहोऽहमिति सङ्कल्पं तत्प्रपञ्चमिहोच्यते । कालत्रयेपि ............  ............. ॥३९॥
देहोऽहमिति सङ्कल्पस्तदेवाज्ञानमुच्यते । कालत्रयेपि ............  ............. ॥४०॥
देहोऽहमिति या बुद्धिर्मलिना वासनोच्यते । कालत्रयेपि ............  ............. ॥४१॥
देहोऽहमिति या बुद्धिः सत्यं जीवः स एव सः । कालत्रयेपि ............  ............. ॥४२॥
देहोऽहमिति सङ्कल्पो महानरकमीरितम् । कालत्रयेपि ............  ............. ॥४३॥
देहोऽहमिति या बुद्धिर्मन एवेति निश्चितम् । कालत्रयेपि ............  ............. ॥४४॥
देहोऽहमिति या बुद्धिः परिच्छिन्नमितीर्यते । कालत्रयेपि ............  ............. ॥४५॥
देहोऽहमिति यत् ज्ञानं अर्व शोक इतीरितम् । कालत्रयेपि ............  ............. ॥४६॥
देहोऽहमिति यद् ज्ञानं संस्पर्शमिति कथ्यते । कालत्रयेपि ............  ............. ॥४७॥
देहोऽहमिति या बुद्धिस्तदेव मरणं स्मृतम् । कालत्रयेपि ............  ............. ॥४८॥
देहोऽहमिति या बुद्धिस्तदेवाशोमनं स्मृतम् । कालत्रयेपि ............  ............. ॥४९॥
देहोऽहमिति या बुद्धिर्महापापमिति स्मृतम् । कालत्रयेपि ............  ............. ॥५०॥
देहोऽहमिति या बुद्धिः तुष्टा सैव हि चोच्यते (?) । कालत्रयेपि ............  ............. ॥५१॥
देहोऽहमिति सङ्कल्पः सर्वदोषमिति स्मृतम् । कालत्रयेपि ............  ............. ॥५२॥
देहोऽहमिति सङ्कल्पस्तदेव मलमुच्यते । कालत्रयेपि ............  ............. ॥५३॥
देहोऽहमिति सङ्क्लपो महत्संशयमुच्यते । कालत्रयेपि ............  ............. ॥५४॥
यत्किञ्चित्स्मरणं दुःखं यत्किञ्चित् स्मरणं जगत् । यत्किञ्चित्स्मरणं कामो यत्किञ्चित्स्मरणं मलम् ॥५५॥
यत्किञ्चित्स्मरणं पापं यत्किञ्चित्स्मरणं मनः । यत्किञ्चिदपि सङ्कल्पं महारोगेति कथ्यते ॥५६॥
यत्किञ्चिदपि सङ्कल्पं महामोहेति कथ्यते । यत्किञ्चिदपि सङ्कल्पं तापत्रयमुदाहृतम् ॥५७॥
यत्किञ्चिदपि सङक्ल्पं कामक्रोधं च कथ्यते । यत्किञ्चिदपि सङ्कल्पं संबन्धो नेतरत् क्कचित् ॥५८॥
यत्किञ्चिदपि सङक्ल्पं सर्वदुःखेति नेतरत् । यत्किञ्चिदपि सङक्ल्पं जगत्सत्यत्वविभ्रमम् ॥५९॥
यत्किञ्चिदपि सङक्ल्पं महादोषं च नेतरत् । यत्किञ्चिदपि सङक्ल्पं कालत्रयमुदीरितम् ॥६०॥
यत्किञ्चिदपि सङक्ल्पं नानारूपमुदीरितम् । यत्र यत्र च संकल्पं तत्र तत्र महज्जगत् ॥६१॥
यत्र यत्र च संकल्पं तदेवासत्यमेव हि । यत्किञ्चिदपि सङक्ल्पं तज्जगन्नास्ति संशयः ॥६२॥
यत्किञ्चिदपि सङक्ल्पं तत्सर्वं नेति निश्चयः । मन एव जगत् सर्वं मन एव महारिपुः ॥६३॥
मन एव हि संसारो मन एव जगत्त्रयम् । मन एव महादुःखं मन एव जरादिकम् ॥६४॥
मन एव हि कालं च मन एव मलं सदा । मन एव हि सङ्कल्पो मन एव हि जीवकः ॥६५॥
मन एवाशुचिर्नित्यं मन एवेन्द्रजालकम् । मन एव सदा मिथ्या मनो वन्ध्याकुमारवत् ॥६६॥
मन एव सदा नास्ति मन एव जडं सदा । मन एव हि चित्तं च मनोऽहंकारमेव च ॥६७॥
मन एव महद्बन्धं मनोऽन्तः करणं क्कचित् । मन एव हि भूमिश्च मन एव हि तोयकम् ॥६८॥
मन एव हि तेजश्च मन एव मरुन्महान् । मन एव हि चाकाशो मन एव हि शब्दकः ॥६९॥
मन एव स्पर्शरूपं मन एव हि रूपकम् । मन एव रसाकारं मनो गन्धः प्रकीर्तितः ॥७०॥
अन्नकोशं मनोरूपं प्राणकोशं मनोमयम् । मनोकोशं मनोरूपं विज्ञानं च मनोमयः ॥७१॥
मन एवानन्दकोशं मनो जाग्रदवस्थितम् । मन एव हि स्वप्नं च मन एव सुषुप्तिकम् ॥७२॥
मन एव हि देवादि मन एव यमादयः । मन एव हि यत्किञ्चिन्मन एव मनोमयः ॥७३॥
मनोमयमिदं विश्वं मनोमयमिदं पुरम् । मनोमयमिदं भूतं मनोमयमिदं द्वयम् ॥७४॥
मनोमयमियं जातिर्मनोमयमयं गुणः । मनोमयमिदं दृश्यं मनोमयमिदं जडम् ॥७५॥
मनोमयमिदं यद्यन्मनो जीव इति स्थितम् । संकल्पमात्रमज्ञानं भेदः सङ्कल्प एव हि ॥७६॥
संकल्पमात्रं विज्ञानं द्वन्द्वं सङ्कल्प एव हि । सङ्कल्पमात्रकालं च देशं संकल्पमेव हि ॥७७॥
सङ्कल्पमारो देहश्च प्राणः सङ्कल्पमात्रकः । सङ्कल्पमात्रं मननं सङ्कल्पं श्रवणं सदा ॥७८॥
सङ्कल्पमात्रं नरकं सङ्कल्पं स्वर्गे इत्यपि । सङ्कल्पमेव चिन्मात्रं सङ्कल्पं चात्मविन्तनम् ॥७९॥
सङ्कल्पं वा मनाक्तत्त्वं ब्रह्मसङ्कल्पमेव हि । संकल्प एव यत्किञ्चित् तन्नास्त्येव कदाचन ॥८०॥
नास्ति नास्त्येव सङ्कल्पं नास्ति नास्ति जगत्त्रयम् ।
नास्ति नास्ति गुरुर्नास्ति नास्ति शिष्योऽपि वस्तुतः ॥८१॥
नास्ति नास्ति शरीरं च नास्ति नास्ति मनः क्कचित् ।
नास्ति नास्त्येव किञ्चिदा नास्ति नास्त्यखिलं जगत् ॥८२॥
नास्ति नास्त्येव भूतं वा सर्वं नास्ति न संशयः ।
“ सर्वं नास्ति ” प्रकरणं मयोक्तं च निदाघ ते ।
यः श्रृणोति सकृद्वापि ब्रह्मैव भवति स्वयम् ॥८३॥
वेदान्तैरपि चन्द्रशेखरपदाम्भोजानुरागादरा -
दारोदारकुमारदारनिकरैः प्राणैर्वनैरुज्झितः ।
त्यागाद्यो मनसा सकृत् शिवपदध्यानेन यत्प्राप्यते
तन्नैवाप्यतिशब्दकर्कनिवहैः शान्तं मनस्तद्भवेत् ॥८४॥
अशेषदृश्योज्झितदृङ्मयानां सङ्कल्पवर्जेन सदास्थितानाम् ।
न जाग्रतः स्वप्नसुषुप्तिभावो न जीवनं नो मरणं च चित्रम् ॥८५॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे प्रपञ्चशून्यत्व - सर्वनास्तित्वनिरूपणं नाम अष्टमोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-04-14T03:40:40.2830000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

tempered steel

  • पाणी दिलेले पोलाद 
RANDOM WORD

Did you know?

विनायकी आणि संकष्टी चतुर्थीबद्दल शास्त्रार्थ सांगावा.
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.