संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| सप्तविंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - सप्तविंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव सप्तविंशोऽध्यायः Translation - भाषांतर ऋभुः - वक्ष्ये प्रकरणं सत्यं ब्रह्मानन्दमनोमयम् । कार्यकारणनिर्मुक्तं नित्यानन्दमयं त्विदम् ॥१॥अक्षयानन्द एवाहमात्मानन्दप्रकाशकम् । ज्ञानानन्दस्वरूपोऽहं लक्ष्यानन्दमयं सदा ॥२॥विषयानन्दशून्योऽहं मिथ्यानन्दप्रकाशकः । वृत्तिशून्यसुखात्माहं वृत्तिशून्यसुखात्परम् ॥३॥जडानन्दप्रकाशात्मा आत्मानन्दरसोऽस्म्यहम् । आत्मानन्दविहीनोऽहं नास्त्यानन्दात्मविग्रहः ॥४॥कार्यानन्दविहीनोऽहं कार्यानन्दकलात्मकः । गुणानन्दविहीनोऽहं गुह्यानन्दस्वरूपवान् ॥५॥गुप्तानन्दस्वरूपोऽहं कृत्यानन्दमहानहम् । ज्ञेयानन्दविहीनोऽहं गोप्यानन्दविवर्जितः ॥६॥सदानन्दस्वरूपोऽहं मुदानन्दनिजात्मकः । लोकानन्दो महानन्दो लोकातीतमहानयम् ॥७॥भेदानन्दश्चिदानन्दः सुखानन्दोऽहमद्वयः । क्रियानन्दोऽक्षयानन्दो वृत्त्यानन्दविवर्जितः ॥८॥सर्वानन्दोऽक्षयानन्दश्चिदानन्दोऽहमव्ययः । सत्यानन्दः परानन्दः सद्योनन्दः परात्परः ॥९॥वाक्यानन्दमहानन्दः शिवानन्दोहमद्वयः । शिवानन्दोत्तरानन्द आद्यानन्दविवर्जितः ॥१०॥अमलात्मा परानन्दश्चिदानन्दोऽहमद्वयः । वृत्त्यानन्दपरानन्दो विद्यातीतो हि निर्मलः ॥११॥कारणातीत आनन्दश्चिदानन्दोऽहमद्वयः । सर्वानन्दः परानन्दो ब्रह्मानन्दात्मभावनः ॥१२॥जीवानन्दो लयानन्दश्चिदानन्दस्वरूपवान् । शुद्धानन्दस्वरूपात्मा बुद्ध्यानन्दो मनोमयः ॥१३॥शब्दानन्दो महानन्दश्चिदानन्दोऽहमद्वयः । आनन्दानन्दशून्यात्मा भेदानन्दविशून्यकः ॥१४॥द्वैतानन्दप्रभावात्मा चिदानन्दोऽहमद्वयः । एवमादिमहानन्द अहमेवेति भावय ॥१५॥शान्तानन्दोऽहमेवेति चिदानन्दप्रभास्वरः । एकानन्दपरानन्द एक एव चिदव्ययः ॥१६॥एक एव महानात्मा एकसंख्याविवर्जितः । एकतत्वमहानन्दस्वत्वभेदविवर्जितः ॥१७॥विजितानन्दहीनोऽहं निर्जितानन्दहीनकः । हीनानन्दप्रशान्तोऽहं शान्तोऽहमिति शान्तकः ॥१८॥ममतानन्दशान्तोऽहमहमादिप्रकाशकम् । सर्वदा देशशान्तोऽहं शान्तोऽहमिति वर्जितः ॥१९॥ब्रह्मैवाहं न संसारी इत्येवमिति शान्तकः । अन्तरादन्तरोऽहं वै अन्तरादन्तरान्तरः ॥२०॥एक एव महानन्द एक एवाहमक्षरः । एक एवाक्षरं ब्रह्म एक एवाक्षरोऽक्षरः ॥२१॥एक एव महानात्मा एक एव मनोहरः । एक एवाद्वयोऽहं वै एक एव न चापरः ॥२२॥एक एव न भूरादि एक एव न बुद्धयः । एक एव प्रशान्तोऽहं एक एव सुखात्मकः ॥२३॥एक एव न कामात्मा एक एव न कोपकम् । एक एव न लोभात्मा एक एव न मोहकः ॥२४॥एक एव मदो नाहं एक एव न मे रसः । एक एव न चित्तात्मा एक एव न चान्यकः ॥२५॥एक एव न सत्तात्मा एक एवा जरामरः । एक एव हि पूर्णात्मा एक एव हि निश्चलः ॥२६॥एक एव महानन्द एक एवामहेकवान् । देहोऽहमिति हीनोऽहं शान्तोऽहमिति शाश्वतः ॥२७॥शिवोऽहमिति शान्तोऽहं आत्मैवाहमिति क्रमः । जीवोऽहमिति शान्तोऽहं नित्यशुद्धहृदन्तरः ॥२८॥ एवं भावय निःशङ्कं सद्यो मुक्तस्त्वमद्वये । एवमादि सुशब्दं वा नित्यं पठतु निश्चलः ॥२९॥कालस्वभावो नियतैंश्च भूतैः जगद्विजायेत इति श्रुतीरितम् ।तद्वै मृषा स्याज्जगतो जडत्वतः इच्छाभवं चैतदथेश्वरस्य ॥३०॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे आनन्दरूपत्वनिरूपणप्रकरणं नाम सप्तविंशोऽध्ययः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP