संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
अष्टाविंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - अष्टाविंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
ब्रह्मैवाहं चिदेवाहं निर्मलोऽहं निरन्तरः । शुद्धस्वरूप एवाहं नित्यरूपः परोऽस्म्यहम् ॥१॥
नित्यनिर्मलरूपोऽहं नित्यचैतन्यविग्रहः । आद्यन्तरूपहीनो‍ऽहमाद्यन्तद्वैतहीनकः ॥२॥
अजस्रसुखरूपोऽहं अजस्नानन्दरूपवान् । अहमेवादिनिर्मुक्त अहं कारणवर्जितः ॥३॥
अहमेव परं ब्रह्म अहमेवाहमेव हि । इत्येवं भावयन्नित्यं सुखमात्मनि निर्मलः ॥४॥
सुखं तिष्ठ सुखं तिष्ठ सुचिरं सुखमावह । सर्ववेदमनन्यस्त्वं सर्वदा नास्ति कल्पनम् ॥५॥
सर्वदा नास्ति चित्ताख्यं सर्वदा नास्ति संसृतिः । सर्वदा नास्ति नास्त्येव सर्वदा जगदेव न ॥६॥
जगत्प्रसङ्गो नास्त्येव देहवार्ता कुतस्ततः । ब्रह्मैव सर्वचिन्मात्रमहमेव हि केवलम् ॥७॥
चित्तमित्यपि नास्त्येव चित्तमस्ति हि नास्ति हि । अस्तित्वभावना निष्ठा जगदस्तित्ववाङ् मृषा ॥८॥
अस्तित्ववक्ता ( क्तृ ) वार्ता हि जगदस्तीति भावना । स्वात्मनोऽन्यज्जगद्रक्षा देहोऽहमिति निश्चितः ॥९॥
महाचण्डाल एवासौ महाविप्रोऽपि निश्चयः (?) । तस्मादिति जगन्नेति चित्तं वा बुद्धिरेव च ॥१०॥
नास्ति नास्तीति सहसा निश्चयं कुरु निर्मलः । दृश्यं नास्त्येव नास्त्येव नास्ति नास्तीति भावय ॥११॥
अहमेव परं ब्रह्म अहमेव हि निष्कलः । अहमेव न सन्देहः अहमेव सुखात् सुखम् ॥१२॥
अहमेव हि दिव्यात्मा अहमेव हि केवलः । वाचामगोचरोऽ‍हं वै अहमेव न चापरः ॥१३॥
अहमेव हि सर्वात्मा अहमेव सदा प्रियः । अहमेव हि भावात्मा अहं वृत्तिविवर्जितः ॥१४॥
अहमेवापरिच्छिन्न अहमेव निरन्तरः । अहमेव हि निश्चिन्त अहमेव हि सद्गुरुः ॥१५॥
अहमेव सदा साक्षी अहमेवाहमेव हि । नाहं गुप्तो न वाऽगुप्तो न प्रकाशात्मकः सदा ॥१६॥
नाहं जडो न चिन्मात्रः क्कचित् किञ्चित् तदस्ति हि । नाहं प्राणो जडत्वं तदत्यन्तं सर्वदा भ्रमः ॥१७॥
अहमत्यन्तमानन्द अहमत्यन्तनिर्मलः । अहमत्यन्तवेदात्मा अहमत्यन्तशाङ्करः ॥१८॥
अहमित्यपि मे किञ्चिदहमित्यपि न स्मृतिः । सर्वहीनोऽहमेवाग्रे सर्वहीनः सुखाच्छुभात ॥१९॥
परात् परतरं ब्रह्म परात् परतरः पुमान् । परात् परतरो‍ऽहं वै सर्वस्मात् परतः परः ॥२०॥
सर्वदेहविहीनोऽहं सर्वकर्मविवर्जितः । सर्वमन्त्रः प्रशान्तात्मा सर्वान्तःकरणात् परः ॥२१॥
सर्वस्तोत्रविहीनोऽहं सर्वदेवप्रकाशकः । सर्वस्नानविहीनात्मा एकमग्नोऽहमद्वयः ॥२२॥
आत्मतीर्थे ह्यात्मजले आत्मानन्दमनोहरे । आत्मैंवाहमिति ज्ञात्वा आत्मारामो वसाम्यहम् ॥२३॥
आत्मैंव भोजनं ह्यात्मा तृप्तिरात्मसुखात्मकः । आत्मैव ह्यात्मनो ह्यात्मा आत्मैव परभो ह्यहम् ॥२४॥
अहमात्माऽहमात्माहमहमात्मा न लौकिकः । सर्वात्माहं सदात्माहं नित्यात्माहं गुणान्तरः ॥२५॥
एवं नित्यं भावयित्वा सदा भावय सिद्धये । सिद्धं तिष्ठति चिन्मात्रो निश्चयं मात्रमेव सा(?) ॥२६॥
निश्चयं च लयं याति स्वयमेव सुखी भव ।
शाखादिभिश्च श्रुतयो ह्यनन्ता -
स्त्वामेकमेव भगवन् बहुधा वदन्ति ।
विष्ण्विन्द्रधातृरविसून्वनलानिलादि
भूतात्मानाथ गणनाथललाम शम्भो ॥२७॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे आत्मवैलक्षण्यप्रकरणं नाम अष्टाविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 14, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP