संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| चतुर्विंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - चतुर्विंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव चतुर्विंशोऽध्यायः Translation - भाषांतर ऋभुः - पुनः पुनः परं वक्ष्ये आत्मनोऽन्यदसत् स्वतः । असतो वचनं नास्ति सतो नास्ति सदा स्थिते ॥१॥ब्रह्माभ्यास परस्याहं वक्ष्ये निर्णयमात्मनः । तस्यापि सकृदेवाहं वक्ष्ये मङ्गलपूर्वकम् ॥२॥सर्वं ब्रह्माहमेवास्मि चिन्मात्रो नास्ति किञ्चिन । अहमेव परं ब्रह्म अहमेव चिदात्मकम् ॥३॥अहं ममेति नास्त्येव अहं ज्ञानीति नास्ति च । शुद्धोऽहं ब्रह्मरूपोऽहमानन्दोऽहमजोन ( ज ) रः ॥४॥देवोऽहं दिव्यभानोऽहं तुर्योऽहं भवभाव्यहम् । अण्डजोऽहमशेषोऽहमन्तरादन्तरोऽस्म्यहम् ॥५॥अमरोऽहमजस्रोऽहमत्यन्तपरमोऽस्म्यहम् । परापरस्वरूपोऽहं नित्यानित्यरसोऽस्म्यहम् ॥६॥गुणागुणविहीनोऽहं तुर्यातुर्यरसोऽस्म्यहम् । शान्ताशान्तविहीनोऽहं ज्ञानाज्ञानरसोऽस्म्यहम् ॥७॥कालाकालविहीनोऽहमात्मानात्मविवर्जितः । लब्धालब्धादिहीनोऽहं सर्वशून्योऽहमव्ययः ॥८॥अहमेवाहमेव्माहमनन्तरनिरनन्तरम् । शाश्वतोऽहमलक्ष्योऽहमात्मा न परिपूर्णतः (?) ॥९॥इत्यादिशब्दमुक्तोऽहं इत्याद्यं च नचास्म्यहम् । इत्यादिवाक्यमुक्तोऽहं सर्ववर्जितदुर्जयः ॥१०॥निरन्तरोऽहं भूतोऽहं भव्योऽहं भववर्जितः । लक्ष्यलक्षणहीनोऽहं कार्यहीनोऽहमाशुगः ॥११॥व्योमादिरूपहीनोऽहं व्योमरूपोऽहमच्युतः । अन्तरान्तरभावोऽहमन्तरान्तरवर्जितः ॥१२॥सर्वसिद्धान्तरूपोऽहं सर्वदोषविवर्जिथ । न कदाच्न मुक्तोऽहं न बद्धोऽहं कदाचन ॥१३॥एवमेव सदा कृत्वा ब्रह्मैवाहमिति स्मर । एतावदेव मात्रं तु मुक्तो भवतु निश्चयः ॥१४॥चिन्मात्रोऽहं शिवोऽहं वै शुभमात्रमहं सदा । सदाकारोऽहं मुक्तोऽहं सदा वाचामगोचरः ॥१५॥सर्वदा परिपूर्णोऽहं वेदोपाधिविवर्जितः । चित्तकार्यविहीनोऽहं चित्तमस्तीति मे न हि ॥१६॥यत् किञ्चिदपि नास्त्येव नास्त्येव प्रियभाषणम् । आत्मप्रियमनात्मा हि इदं मे वस्तुतो न हि ॥१७॥इदं दुःखमिदं सौख्यमिदं भाति अहं न हि । सर्ववर्जितरूपोऽहं सर्ववर्जितचेतनः ॥१८॥अनिर्वाच्यमनिर्वाच्यं परं ब्रह्म रसोऽस्म्यहम् । अहं ब्रह्म न संदेह अहमेव परात् परः ॥१९॥अहं चैतन्यभूतात्मा देहो नास्ति कदाचन । लिङ्गदेहं च नास्त्येव कारणं देहमेव न ॥२०॥अहं त्यक्त्वा परं चाहं अहं ब्रह्मस्वरूपतः । कामादिवर्जितोऽतीतः कालभेदपरात्परः (?) ॥२१॥ब्रह्मैवेदं न संवेद्यं नाहं भावं न चा नहि । सर्वसंशयसंशान्तो ब्रह्मैवाहमिति स्थितिः ॥२२॥निश्चयं च न मे किञ्चित् चिन्ताभावात् । चिदहं चिदहं ब्रह्म चिदहं चिदहं सदा ॥२३॥एवं भावनया युक्तस्त्यक्तशङ्कः सुखीभव । सर्वसङ्गं परित्यज्य आत्मैक्यैवं भवान्वहम् ॥२४॥सङ्गं नाम प्रवक्ष्येऽहं ब्रह्माहमिति निश्चयः । सत्योऽहं परमात्माऽहं स्वयमेव स्वयं स्वयम् ॥२५॥नाहं देहो न च प्राणो न द्वन्द्वो न च निर्मलः । एष एव हि सत्सङ्गः एष एव हि निर्मलः ॥२६॥महत्सङ्गे महद्ब्रह्मभावनं परमं पदम् । अहं शान्तप्रभावोऽहं अहं ब्रह्म न संशयः ॥२७॥अहं त्यक्तस्वरूपोऽहं अहं चिन्तादिवर्जितः । एष एव हि सत्सङ्गः एष नित्यं भवानहम् ॥२८॥सर्वसङ्कल्पहीनोऽहं सर्वंवृत्तिविवर्जितः । अमृतोऽहमजो नित्यं मृतिभीतिरतीतिकः (?) ॥२९॥सर्वकल्याणरूपोऽहं सर्वदा प्रियरूपवान् । समलाङ्गो मलातीतः सर्वदाहं सदानुगः ॥३०॥अपरिच्छिन्नसन्मात्रं सत्यज्ञानस्वरूवान् । नादान्तरोऽतं नादोऽहं नामरूपविवर्जितः ॥३१॥अत्यन्ताभिन्नहीनोऽहमादिमध्यान्तवर्जितः । एवं नित्यं दृढाभ्यास एवं स्वानुभवेन च ॥३२॥एवमेव हि नित्यात्मभावनेन सुखी भव । एवमात्मा सुखं प्राप्तः पुनर्जन्म न संभवेत् ॥३३॥सद्यो मुक्तो भवेद्ब्रह्माकारेण परितिष्ठति । आत्माकारमिदं विश्वमात्माकारमहं महत् ॥३४॥आत्मैव नान्यद्भृतं वा आत्मैव मन एव हि । आत्मैव चित्तवद्भाति आत्मैव स्मृतिवत् क्कचित् ॥३५॥आत्मैव वृत्तिमद्भाति आत्मैव क्रोधवत् सदा । आत्मैव श्रवणं तद्वदात्मैव मननं च तत् ॥३६॥आत्मैवोपक्रमं नित्यमुपसंहारमात्मवत् । आत्मैवाभ्यां समं नित्यमात्मैवापूर्वताफलम् ॥३७॥अर्थवादवदात्मा हि परमात्मोपपत्ति हि । इच्छा प्रारभ्य ( ब्ध ) वद्ब्रह्म इच्छा मारभ्यवत् परः ॥३८॥परेच्छारब्धवद्ब्रह्मा इच्छाशक्तिश्चिदेव हि । अनिच्छाशक्तिरात्मैव परेच्छाशक्तिरव्ययः ॥३९॥परमात्मैवाधिकारो विषयं परमात्मनः । संबन्धं परमात्मैव प्रयोजनं परात्मकम् ॥४०॥ब्रह्मैव परमं सङ्गं कर्मजं ब्रह्म सङ्गमम् । ब्रह्मैव भ्रान्तिजं भाति द्वन्द्वं ब्रह्मैव नान्यतः ॥४१॥सर्वं ब्रह्मेति निश्चित्य सद्य एव विमोक्षदम् । सविकल्पसमाधिस्थं निर्विकल्पसमाधि हि ॥४२॥शब्दानुविद्धं ब्रह्मैव ब्रह्म दृश्यानुविद्धकम् । ब्रह्मैवादिसमाधिश्च तन्मध्यमसमाधिकम् ॥४३॥ब्रह्मैव निश्चयं शून्यं तदुक्तमसमाधिकम् । देहाभिमानरहितं तद्वैराग्यसमाधिकम् ॥४४॥एतद्भावनया शान्तं जीवन्मुक्तसमाधिकः । अत्यन्तं सर्वशान्तत्वं देहो मुक्तिसमाधिकम् ॥४५॥एतदभ्यासिनां प्रोक्तं सर्वं चैतत्समन्वितम् । सर्वं विस्मृत्य विस्मृत्य त्यक्त्वा त्यक्त्वा पुनः पुनः ॥४६॥सर्ववृत्तिं च शून्येन स्थास्यामीति विमुच्य हि । न स्थास्यामीति विस्मृत्य भास्यामीति च विस्मर ॥४७॥चैतन्योऽहमिति त्यक्त्वा सन्मात्रोऽहमिति त्यज । त्यजनं च परित्यज्य भावनं च परित्यज ॥४८॥सर्वं त्यक्त्वा मनः क्षिप्रं स्मरणं च परित्यज । स्मरणं किञ्चिदेवात्र महासंसारसागरम् ॥४९॥स्मरणं किञ्चिदेवात्र महादुःखं भवेत् तदा । महादोषं भवं बन्धं चित्तजन्म शतं मनः ॥५०॥प्रारब्धं हृदयग्रन्थि ब्रह्महत्यादि पातकम् । स्मरणं चैवमेवेह बन्धमोक्षस्य कारणम् ॥५१॥अहं ब्रह्मप्रकरणं सर्वदुःखविनाशकम् । सर्वप्रपञ्चशमनं सद्यो मोक्षप्रदं सदा ॥५२॥एतच्छ्रवणमात्रेण ब्रह्मैव भवति स्वयम् ।भक्त्या पद्मदलाक्षपूजितपदध्यानानुवृत्त्या मनः स्वान्तानन्तपथप्रचारविधुरं मुक्त्यै भवेन्मानसम् ।सङ्कल्पोज्झितमेतदल्पसुमहाशीलो दयाम्भोनिधौ कश्चित् स्याच्छिवभक्तधुर्यसुमहाशान्तः शिवप्रेमतः ॥५३॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे अहं ब्रह्मप्रकरणनिरूपणं नाम चतुर्विशोऽध्यायः ॥ N/A References : N/A Last Updated : April 14, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP