संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
अष्टचत्वारिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - अष्टचत्वारिंशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
ज्ञानाङ्गसाधनं वक्ष्ये श्रृणु वक्ष्यामि ते हितम् । यत् कृत्वा ज्ञानमाप्नोति तत् प्रादात् परमेष्ठिनः ॥१॥
जैगीषव्य श्रृनुष्वैतत् सावधानेन चेतसा । प्रथमं वेदसंप्रोक्तं कर्माचरणमिष्यते ॥२॥
उपनीतो द्विजो वापि वैश्यः क्षत्रिय एव वा । अग्निरित्यादिभिर्मन्त्रैर्भस्मधृक् पूजते त्वघैः ॥३॥
त्रियायुषैस्त्र्यंबकैश्च त्रिपुण्ट्रं भस्मनाऽऽचरेत् । लिङ्गार्चनपरो नित्यं रुद्राक्षान् धारयन् क्रमैः ॥४॥
कण्ठे बाह्वोर्वक्षसी च मालाभिः शिरसा तथा । त्रिपुण्ट्रवद्धारयेत रुद्राक्षान् क्रमशो मुने ॥५॥
एकाननं द्विवक्त्रं वा त्रिवक्त्रं चतुरास्याकम् । पञ्चवक्त्रं च षट्‍ सप्त तथाष्टदशकं नव ॥६॥
एकादशं द्वादशं वा तथोर्ध्वं धारयेत् क्रमात् । भस्मधारणमात्रेण प्रसीदति महेश्वरः ॥७॥
रुद्राक्षधारणादेव नरो रुद्रत्वमाप्नुयात् । भस्मरुद्राक्षधृङ्मर्त्यो ज्ञानाङ्गी भवति प्रियः ॥८॥
रुद्राध्यायी भस्मनिष्ठः पञ्चाक्शह्रजपादरः । भस्मोद्धूलितदेहोऽयं श्रीरुद्रं प्रजपन् द्विजः ॥९॥
सर्वपापैर्विमुक्तश्च ज्ञाननिष्ठो भवेन्मुने । भस्मसंछन्नसर्वाङ्गो भस्मफालत्रिपुण्ट्रकः ॥१०॥
वेदमौलिजवाक्येषु विचाराधिकृतो भवेत् । नान्यपुण्ट्रधरो विप्रो यतिर्वा विप्रसत्तम् ॥११॥
शमादिनियमोपेतः क्षमायुक्तोऽप्यसंस्कृतः । शिरोव्रतमिदं प्रोक्तं भस्मधारणमेव हि ॥१२॥
शिरोव्रतं च विधिवद्यैश्चीर्णं मुनिसत्तम । तेषामेव ब्रह्मविद्यां वदेत् गुरुरास्तिकः ॥१३॥
शांभवा एव वेदेषु निष्ठा नष्टाशुभाः परम् । शिवप्रसादसंपन्नो भस्मरुद्राक्षधारकः ॥१४॥
रुद्राध्यायजपासक्तः पञ्चाक्षरपरायणः । स एव वेदवेदान्तश्रवणेऽधिकृतो भवेत् ॥१५॥
नान्यपुण्ट्रधरो विप्रः कृत्वापि श्रवण बहु । नैव लभ्येत तद्ज्ञानं प्रसादेन विनेशितुः ॥१६॥
प्रसादजनकं शम्भोर्भस्मधारणमेव हि । शिवप्रसादहीनानां ज्ञानं नैवोपजायते ॥१७॥
प्रसादे सति देवस्य विज्ञानस्फुरणं भवेत् । रुद्राध्यायजापिनां तु भस्मधारणपूर्वकम् ॥१८॥
प्रसादो जायते शम्भोः पुनरावृत्तिवर्जितः । प्रसादे सति देवस्य वेदान्तस्फुरण भवेत् ॥१९॥
तस्यैवाकथिता ह्यर्थाः प्रकाशन्ते महात्मनः । पञ्चाक्षरपादेव पञ्चास्यध्यानपूर्वकम् ॥२०॥
तस्यैव भवति ज्ञानं शिवप्रोक्तमिद ध्रुवम् । सर्वं शिवात्मकं भाति जगदेतत् चराचरम् ॥२१॥
स प्रसादो महेशस्य विज्ञेयः शांभवोत्तमैः । शिवलिङ्गार्चनादेव प्रसादः शांभवोत्तमे ॥२२॥
नियमाद्बिल्वपत्रैश्च भस्मधारणपूर्वकम् । प्रसादो जायते शम्भोः साक्षाद्ज्ञानप्रकाशकः ॥२३॥
शिवक्षेत्रनिवासेन ज्ञानं सम्यक् दृढं भवेत् । शिवक्षेत्रनिवासे तु भस्मधार्यधिकारवान् ॥२४॥
नक्ताशनार्चनादेव प्रीयेत भगवान् भवः । प्रदोषपूजनं शम्भोः प्रसादजनकं परम् ॥२५॥
सोमवारे निशीथेषु पूजनं प्रियमीशितुः । भूतायां भूतनाथस्य पूजनं परमं प्रियम् ॥२६॥
शिवशब्दोच्चारणं च प्रसादजनकं महत् । ज्ञानाङ्गसाधनेष्वेवं शिवभक्तार्चनं महत् ॥२७॥
भक्तानामर्चनादेव शिवः प्रीतो भविष्यति । इत्येतत्ते समासेन ज्ञानाङ्गं कथितं मया ॥२८॥
अकैतवेन भावेन श्रवणीयो महेश्वरः ।
सूतः -
यः कोऽपि प्रसभं प्रदोषसमये बिल्वीदलालङ्कृतं
लिङ्गं तुङ्गमपारपुण्यविभवैः पश्येदथाचेत वा ।
प्राप्तं राज्यमवाप्य कामहृदयस्तुष्येदकामो यदि
मुक्तिद्वारमपावृतं स तु लभेत शम्भोः कटाक्षाङ्कुरैः ॥२९॥
अचलातुलराजकन्यकाकुचलीलामलबाहुजालमीशम् ।
भजतामनलाक्षिपादपद्मं भवलीलं न भवेत् चित्तबालम् ॥३०॥
भस्मत्रिपुण्ट्ररचिताङ्गकबाहुफालरुद्राक्षजालकवचाः श्रुतिसूक्तिमालाः ।
वेदोरुरत्नपदकाङ्कितशम्भुनामलोला हि शांभववराः परिशीलयन्ति ॥३१॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे स्कन्दकृतशिवव्रतोपदेशवर्णनं नाम अष्टचत्वारिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP