TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
अष्टदशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - अष्टदशोऽध्यायः

श्रीशिवरहस्यम्


अष्टदशोऽध्यायः
ऋभुः -
श्रृणु भूयः परं तत्वं सद्यो मोक्षप्रदायकम् । सर्वं ब्रह्मैव सततं सर्वं शान्तं न संशयः ॥१॥
ब्रह्माक्षरमिदं सर्वं पराकारमिदं नहि । इदमित्यपि यद् दोषं वयमित्यपि भाषणम् ॥२॥
यत् किञ्चित्स्मरणं नास्ति यत् किञ्चिद् ध्यानमेव हि ।
यत्किञ्चिद् ज्ञानरूपं वा तत्सर्वं ब्रह्म एव हि ॥३॥
यत्किञ्चिद्ब्रह्म वाक्यं वा यत्किञ्चिद्वेदवाक्यकम् । यत्किञ्चिद्गुरुवार्क्यं वा तत्सर्वं ब्रह्म एव हि ॥४॥
यत्किञ्चित्कल्मषं सत्यं यत्किञ्चित् प्रियभाषणम् । यत्किञ्चिन्मननं सत्ता तत्सर्वं ........... ॥५॥
यत्किञ्चित् श्रवणं नित्यं यत् किञ्चिद्ध्यानामश्नुते । यत्किञ्चिन्नश्चयं श्रद्धा तत्सर्वं .......... ॥६॥
यत्किञ्चि द्गुरूपदेशं यत्किञ्चिद्गुरुचिन्तनम् । यत्किञ्चिद्योगभेदं वा तत्सर्वं ............ ॥७॥
सर्वं त्यज्य गुरुं त्यज्य सर्वं सन्त्यज्य नित्यशः । तूष्णीमेवासनं ब्रह्म दुः (सु)खमेव हि केवलम् ॥८॥
सर्वं त्यक्त्वा सुखं नित्यं सर्वत्यागं सुखं महत् । सर्वत्यागः परानन्दं सर्वत्यागः परं सुखम् ॥९॥
सर्वत्यागं मनस्त्यागः सर्वत्यागमहंकृतेः । सर्वत्यागं महायागः सर्वत्यागः सुखं परम् ॥१०॥
सर्वत्यागं महामोक्षं चित्तत्यागं तदेव हि । चित्तमेव जगन्नित्यं चित्तमेव हि संसृतिः ॥११॥
चित्तमेव महामाया चित्तमेव शरीरकम् । चित्तमेव भयं देहः चित्तमेव मनोमयम् ॥१२॥
चित्तमेव प्रपञ्चाख्यं चित्तमेव हि कल्मषम् । चित्तमेव जडं सर्वं चित्तमेवेन्द्रियादिकम् ॥१३॥
चित्तमेव सदा सत्यं चित्तमेव नहि क्कचित् । चित्तमेव महाशास्त्रं चित्तमेव मनःप्रदम् ॥१४॥
चित्तमेव सदा पापं चित्तमेव सदा मतम् । चित्तमेव हि सर्वाख्यं चित्तमेव सदा जहि ॥१५॥
चित्तं नास्तीति चिन्ता स्यात् (?) आत्ममात्रं प्रकाशते ।
चित्तमस्तीति चिन्ता चेत् चित्तत्वं स्वयमेव हि ॥१६॥
स्वयमेव हि चित्ताख्यं स्वयं ब्रह्म न संशयः । चित्तमेव हि सर्वाख्यं चित्तं सर्वमिति स्मृतम् ॥१७॥
ब्रह्मैवाहं स्वयंज्योतिर्ब्रह्मैवाहं न संशयः । सर्वं ब्रह्म न सन्देहः सर्वं चिज्ज्योतिरेव हि ॥१८॥
अहं ब्रह्मैव नित्यात्मा पूर्णात् पूर्णतरं सदा । अहं पृथ्व्यादिसहितं अहमेव विलक्षणम् ॥१९॥
अहं सूक्ष्मशरीरान्तमहमेव पुरातनम् । अहमेव हि मानात्मा सर्वं ब्रह्मैव केवलम् ॥२०॥
चिदाकारो ह्यहं पूर्णश्चिदाकारमिदं जगत् । चिदाकारं चिदाकाशं चिदाकाशमहं सदा ॥२१॥
चिदाकाशं त्वमेवासि चिदाकाशमहं सदा । चिदाकाशं चिदेवेदं चिदाकाशान्न किञ्चन ॥२२॥
चिदाकाशततं सवं चिदाकाशं प्रकाशकम् । चिदाकारं मनोरूपं चिदाकाशं हि चिद्धनम् ॥२३॥
चिदाकाशं परंब्रह्म चिदाकाशं च चिन्मयः । विदाकाशं शिवं साक्षाच्चिदाकाशमहं सदा ॥२४॥
सच्चिदानन्दरूपोऽहं सच्चिदानन्दशाश्वतः । सच्चिदानन्द सन्मात्रं सच्चिदानन्दभावनः ॥२५॥
सच्चिदान्नदपूर्णोऽहं सच्चिदानन्दकारणम् । सच्चिदानन्दसन्दोहं सच्चिदानन्द हीनकः (१) ॥२६॥
सच्चिदानन्दनित्योऽहं सच्चिदानन्दलक्षणम् । सच्चिदानन्दनात्रोऽहं सच्चिदानन्दरूपकः ॥२७॥
आत्मैवेदमिदं सर्वमात्मैवाहं न संशयः । आत्मैवास्मि परं सत्यमात्मैव परमं पदमू ॥२८॥
आत्मैव जगदाकारं आत्मैव भुवनत्रयम् । आत्मैव जगतां श्रेष्टः आत्मैव हि मनोमयः ॥२९॥
आत्मैव जगतां त्राता आत्मैव गुरुरात्मनः । आत्मैव बहुधा भाति आत्मैवैकं परात्मनः ॥३०॥
आत्मैव परमं ब्रह्म आत्मैवाहं न संशयः । आत्मैव परमं लोकं आत्मैव परमात्मनः ॥३१॥
आत्मैव जीवरूपात्मा आत्मैवेश्वरविग्रहः । आत्मैव हरिरानन्दः आत्मैव स्वयमात्मनः ॥३२॥
आत्मैवानन्दसन्दोह आत्मैवेदं सदा सुखम् । आत्मैव नित्यशुद्धात्मा आत्मैव जगतः परः ॥३३॥
आत्मैव पञ्चभूतात्मा आत्मैव ज्योतिरात्मनः । आत्मैव सर्वदा नान्यदात्मैव परमोऽव्ययः ॥३४॥
आत्मैव ह्यात्मभासात्मा आत्मैव विभुरव्ययः । आत्मैव ब्रह्मविज्ञानं आम्तैवाहं त्वमेव हि ॥३५॥
आत्मैव परमानन्द आत्मैवाहं जगन्मयः । आत्मैवाहं जगद्भानं आत्मैवाहं न किञ्चन ॥३६॥
आम्तैव ह्यात्मनः स्नानमात्मैव ह्यात्मनो जपः । आत्मैव ह्यात्मनो मोदमात्मैवात्मप्रियः सदा ॥३७॥
आम्तैव ह्यात्मनो नित्यो ह्यात्मैव गुणभासकः । आत्मैव तुर्यरूपात्मा आत्मातीतस्ततः परः ॥३८॥
आत्मैव नित्यपूर्णात्मा आत्मैवाहं न संशयः । आत्मैव त्वमहं चात्मा सर्वमात्मैव केवलम् ॥३९॥
नित्योऽहं नित्यपूर्णोऽहं नित्योऽहं सर्वदा सदा । आत्मैवाहं जगन्नान्यद् अमृतात्मा पुरातनः ॥४०॥
पुरातनोऽहं पुरुषोऽहमीशः परात् परोऽहं परमेश्वरोऽहम् ।
भवप्रदोऽहं भवनाशनोऽहं सुखप्रदोऽहं सुखरूपमद्वयम् ॥४१॥
आनन्दोऽहमशेषोऽहममृतोऽहं न संशयः । अजोऽ‍हमात्मरूपोऽ‍हमन्यन्नास्ति सदा प्रियः ॥४२॥
ब्रह्मैवाहमिदं ब्रह्म सर्वं ब्रह्म सदाऽव्ययः । सदा सर्वपदं नास्ति सर्वमेव सदा न हि ॥४३॥
निर्गुणोऽहं निराधार अहं नास्तीति सर्वदा । अनर्थमूलं नास्त्येव मायाकार्यं न किञ्चन ॥४४॥
अविद्याविभवो नास्ति अहं ब्रह्म न संशयः । सर्व ब्रह्म चिदाकाशं तदेवाहं न संशयः ॥४५॥
तदेवाहं स्वयं चाहं परं चाहं परेश्वरः । विद्याधरोऽहमेवात्र विद्याविद्ये न किञ्चन ॥४६॥
चिदहं चिदहं नित्यं तुर्योऽहं तुर्यकः परः । ब्रह्मैव सर्वं ब्रह्मैव सर्वं ब्रह्म सदाऽ‍स्म्यहम् ॥४७॥
मत्तोऽन्यन्नापरं किञ्चिन्मत्तोऽन्यद्ब्रह्म च क्कचिद् ।
मत्तोऽन्यत् परमं नास्ति मत्तोऽन्यच्चित्पदं नहि ॥४८॥
मत्तोऽन्यत् सत्पदं नास्ति मत्तोऽन्यच्चित्पदं न मे ।
मत्तोऽन्यत् भवनं नास्ति मत्तोऽ‍न्यद् ब्रह्म एव न ॥४९॥
मत्तोऽन्यत् कारणं नास्ति मत्तो‍न्यत् किञ्चिदप्यणु ।
मत्तोऽन्यत् सत्वरूपं च मत्तोऽन्यत् शुद्धमेव न ॥५०॥
मत्तोऽन्यत् पावनं नास्ति मत्तोऽ‍न्यत् तत्पदं न हि ।
मत्तो‍ऽन्यत् धर्मरूपं वा मत्तोऽन्यदखिलं न च ॥५१॥
मत्तोऽन्यदसदेवात्र मत्तोऽन्यन्मिथ्या एव हि ।
मत्तोऽन्यद्भाति सर्वस्वं मत्तोऽन्यच्छशश्रृङ्गवत् ॥५२॥
मत्तोऽन्यद्भाति चेन्मिथ्या मत्तोऽन्यच्चेन्द्रजालकम् ।
मत्तोऽन्यत् संशयो नास्ति मत्तोऽन्यत् कार्य कारणम् ॥५३॥
ब्रह्ममात्रमिदं सर्वं सोहमस्मीति भावनम् । सर्वमुक्तं भगवता एवमेवेति निश्चिनु ॥५४॥
बहुनोक्तेन किं योगिन् निश्चयं कुरु सर्वदा । सकृन्निश्चयमात्रेण ब्रह्मैव भवति स्वयम् ॥५५॥
वननगभुवनं यच्छङ्करान्नान्यदस्ति जगदिदमसुराद्यं देवदेवः स एव ।
तनुमनगमनाद्यैः कोशकाशावकाशे म खलु परशिवात्मा दृश्यते सूक्ष्मबुद्ध्या ॥५६॥
चक्षुःश्रोत्रमनोऽसवश्च हृदि खादुद्भासितध्यान्तरात
तस्मिन्नेव विलीयते गतिपरं यद्वासना वासिनी ।
चित्तं चेतयते हृदिन्द्रियगणं वाचां मनोदूरगं
तं ब्रह्मामृतभेतदेव गिरिजाकान्तात्मना संज्ञितम् ॥५७॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे ऋभुनिदाघसंवादे अष्टादशोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2017-04-14T03:56:59.2870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

ढोणा

  • न. ढोण ; लांकडाचा ओंडका , ठोकळा . हे ढोणकूर चुलीत कसे जाणार ? 
  • स्त्री. एक जातीची नाव , डोणी . हिचे चित्र जुन्या नाण्यांवरुन आढळते . द्राविडी भाषांतून हा शब्द जुन्या काळापासून रुढ आहे . [ डोणी ] 
  • वि. उच्च ; कुलीन . - पु . पोर्तुगीज शिपाई . डोणा पहा . ' गोरा इंग्रज शिपाई वगैरे दवणेस नवा कपितान पाठविला , त्याजबराबर पांचसे ढोणे आहेत .' - पेद ३४ . ६१ . ' दोन हजार गोरे कातडीचे ढोणे वगैरे लढाईचा सरंजाम आणविला आहे .' - पेद ३५ . १८६ . ( पोर्तु . डॉन ) 
  • वि. १ मोठा व गलेलट्ठ ; स्थूल व मट्ठ ; टोणपेश्वर . २ वयाने मोठा पण पोरकट ( मनुष्य ). टोणा - ण्या पहा . [ ढोण = ओंडका ] 
RANDOM WORD

Did you know?

मंगळवारी येणार्‍या संकष्टी चतुर्थीस ‘ अंगारकी चतुर्थी ’ असे कां म्हणतात ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Status

  • Meanings in Dictionary: 644,289
  • Total Pages: 46,537
  • Hindi Pages: 4,555
  • Dictionaries: 44
  • Words in Dictionary: 302,181
  • Marathi Pages: 27,517
  • Tags: 2,685
  • English Pages: 234
  • Sanskrit Pages: 14,230
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.