संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| एकत्रिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - एकत्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव एकत्रिंशोऽध्यायः Translation - भाषांतर ऋभुः - वक्ष्ये रहस्यमत्यन्तं साक्षाद्ब्रह्मप्रकाशकम् । सर्वोपनिषदामर्थं सर्वलोकेषु दुर्लभम् ॥१॥प्रज्ञानं ब्रह्म निश्चित्य पदद्वयसमन्वितम् । महावाक्यं चतुर्वाक्यं ऋग्यजुःसामसंभवम् ॥२॥मम प्रज्ञैव ब्रह्माहं ज्ञानमात्रमिदं जगत् । ज्ञानमेव जगत् सर्वं ज्ञानादन्यन्न विद्यते ॥३॥ज्ञानस्यानन्तरं सर्वं दृश्यते ज्ञानरूपतः । ज्ञानस्य ब्रह्मणश्चापि ममेव हि पृथङ् न हि ॥४॥जीवः प्रज्ञानशब्दस्य ब्रह्मशब्दस्य चेश्वरः । ऐकमस्मीत्यखण्डार्थमखण्डैकरसं ततम् ॥५॥अखण्डाकारवृत्तिस्तु जीवन्मुक्तिरितीरितम् । अखण्डैकरसं वस्तु विदेहो मुक्तिरुच्यते ॥६॥ब्रह्मैवाहं न संसारी सच्चिदानन्दमस्म्यहम् । निर्गुणोऽहं निरंशोऽहं परमानन्दवानहम् ॥७॥नित्योऽहं निर्विकल्पोऽहं चिदहं चिदहं सदा । अखण्डाकारवृत्त्याख्यं चित्तं ब्रह्मात्मना स्थितम् ॥८॥लवणं तोयमात्रेण यथैकत्वमखण्डितम् । अखण्डैकरसं वक्ष्ये विदेहो (?) मुक्तिलक्षणम् ॥९॥प्रज्ञापदं परित्यज्य ब्रह्मवि पदमेव हि । अहमस्मि महानस्मि सिद्धोऽस्मीति परित्यजन् ॥१०॥स्मरणं च परित्यज्य भावनं चित्तकर्तृकम् । सर्वमन्तः परित्यज्य सर्वशून्यं परिस्थितः ॥११॥तूष्णीं स्थितिं च सन्त्यज्य ततो मौनविकल्पनम् । यत्तच्चित्तं विकल्पांशं मनसा कल्पितं जगत् ॥१२॥देहोऽहमित्यहङ्कारं द्वैतवृत्तिरितीरितम् । सर्वं साक्षिरहं ब्रह्म इत्येवं दृढनिश्चयम् ॥१३॥सर्वढाऽसंशयं ब्रह्म साक्षिवृत्तिरितीरितम् । द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकम् ॥१४॥अखण्डैकरसं चेति लोके वृत्तित्रयं भवेत् । प्रथमे निश्चिते द्वैते द्वितीये साक्षिसंशयः ॥१५॥तृतीये पदभागे हि दृढनिश्चयमीरितम् । एतत्त्रयार्थं संशोध्य तं परित्यज्य निश्चिनु ॥१६॥अखण्दैकरसाकारो नित्यं तन्मयतां व्रज । अभ्यासवाक्यमेतत्तु सदाऽभ्यासस्य कारणम् ॥१७॥मननस्य परं वाक्यं योऽयं चन्दवृक्षवत् । युक्तिभिश्चिन्तनं वृत्तं पदत्रयमुदाहृतम् ॥१८॥अहं पदस्य जीवोऽर्थ ईशो ब्रह्मपदस्य हि । अस्मीति पदभागस्य अखण्डाकारवृत्तिकम् ॥१९॥पदत्रयं परित्यज्य विचार्य मनसा सह । अखण्डैकरसं प्राप्य विदेहो मुक्तिलक्षणम् ॥२०॥अहं ब्रह्मास्मि चिन्मात्रं सच्चिदानन्दविग्रहः । अहं ब्रह्मास्मि वाक्यस्य श्रवणानन्तरं सदा ॥२१॥अहं ब्रह्मास्मि नित्योऽस्मि शान्तोऽस्मि परमोऽस्म्यहम् ।निर्गुणोऽहं निरीहोऽहं निर्यशोऽस्मि (?) सदा स्मृतः ॥२२॥आत्मैवास्मि न सन्देहः अखण्डैकरसोऽस्म्यहम् । एवं निरन्तरं तज्ज्ञो भावयेत् परमात्मनि ॥२३॥यथा चानुभवं वाक्यं तस्मादनुभवेत् सदा । आरंभाच्च द्वितीयात्तु स्मृतमभ्यासवाक्यतः ॥२४॥तृतीयान्तत्वमस्येति वाक्यसामान्यनिर्णयम् । तत्पदं त्वंपदं त्वस्य ( सि? ) पदत्रयमुदाहृतम् ॥२५॥तत्पदस्येश्वरो ह्यर्थो जीवोऽर्थस्त्वंपदस्य हि । ऐक्यस्यापि पदस्यार्थमखण्डैकरसं पदम् ॥२६॥द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकः । अखण्डं सच्चिदानन्दं तत् त्वमेवासि निश्चयः ॥२७॥त्वं ब्रह्मासि न सन्देहस्त्वमेवासि चिदव्ययः । त्वमेव सच्चिदानन्दस्त्वमेवाखण्डनिश्चयः ॥२८॥इत्येवमुक्तो गुरुणा स एव परमो गुरुः । अहं ब्रह्मेति निश्चित्य सच्छिष्यं परमात्मवान् ॥२९॥नान्यो गुरुर्नान्यशिष्यस्त्वं ब्रह्मासि गुरुः परः । सर्वमन्त्रोपदेष्टारो गुरवः स गुरुः परः ॥३०॥त्वं ब्रह्मासीति वक्तारं गुरुरेवेति निश्चिनु । तथा तत्वमसि ब्रह्म त्वमेवासि च सद्गुरुः ॥३१॥सद्गुरोर्वचने यस्तु निश्चयं तत्वनिश्चयम् । करोति सततं मुक्तेर्नात्र कार्या विचारणा ॥३२॥महावाक्यं गुरोर्वाक्यं तत्वमस्यादिवाक्यकम् । श्रृणोति श्रवणं चित्तं नान्यत् श्रवणमुच्यते ॥३३॥सर्ववेदान्तवाक्यानामद्वैते ब्रह्मणि स्थितिः । इत्येवं च गुरोर्वक्त्रात् श्रुतं ब्रह्मेति तच्छ्रवः ॥३४॥गुरोर्नान्यो मन्त्रवादी एक एव हि सद्गुरुः । त्वं ब्रह्मासीति येनोक्तं एष एव हि सद्गुरुः ॥३५॥वेदान्तश्रवणं चैतन्नान्यच्छ्रवणमीरितम् । युक्तिभिश्चिन्तनं चैव मननं परिकथ्यते ॥३६॥एवं चन्दनवृक्षोऽपि श्रुतोऽपि परिशोध्यते । त्वं ब्रह्मासीति चोक्तोऽपि संशयं परिपश्यति ॥३७॥संशोध्य निश्चिनोत्येवमात्मानं परिशोध्यते । युक्तिर्नाम वदाम्यत्र देहो नाहं विनाशतः ॥३८॥स्थूलदेहं सूक्षमदेहं स्थूलसूक्ष्मं च कारणम् । त्रयं चतुर्थे नास्तीति सर्वं चिन्मात्रमेव हि ॥३९॥एतत्सर्वं जडत्वाच्च दृश्यत्वाद्धटवन्नहि । अहं चैतन्यमेवात्र दृग्रूपत्वाल्लयं न हि ॥४०॥सत्यं ज्ञानमनन्तं यदात्मनः सहजा गुणाः । अन्ततं जडदुःखादि जगतः प्रथितो गुणः ॥४१॥तस्मादहं ब्रह्म एव इदं सर्वमसत्यकम् । एवं च मननं नित्यं करोति ब्रह्मवित्तमः ॥४२॥वक्षे निदिध्यासनं च उभयत्यागलक्षणम् । त्वं ब्रह्मासीति श्रवणं मननं चाहमेव हि ॥४३॥एतत्त्यागं निदिध्यासं सजातीयत्वभावनम् । विजातीयपरित्यागं स्वगतत्वविभावनम् ॥४४॥सर्वत्यागं परित्यज्य तुरीयत्वं च वर्जनम् । ब्रह्मचिन्मात्रसारत्वं साक्षात्कारं प्रचक्षते ॥४५॥उपदेशे महावाक्यमस्तित्वमिति निर्णयः । तथैवानुभवं वाक्यामहं ब्रह्मास्मि निर्णयः ॥४६॥प्रज्ञानं ब्रह्मवाक्योत्थमभ्यासार्थमितीरितम् । अयमात्मेति वाक्योत्थदर्शनं वाक्यमीरितम् ॥४७॥अयमेकपदं चैक आत्मेति ब्रह्म च त्रयम् । अयंपदस्य जीवोऽर्थ आत्मनो ईश्वरः परः ॥४८॥तथा ब्रह्मपदस्यार्थ अखण्डाकारवृत्तिकम् । अखण्डैकरसं सर्वं पदत्रयलयं गतम् ॥४९॥अखण्डैकरसो ह्यात्मा नित्यशुद्धविमुक्तकः । तदेव सर्व्मुद्भूतं भविष्यति न संशयः ॥५०॥अखण्दैकरसो देव अयमेकमुदीरितम् । आत्मेति पदमेकस्य ब्रह्मेति पदमेककम् ॥५१॥अयं पदस्य जीवोऽर्थ आत्मेतीश्वर ईरितः । अस्यार्थोस्मीत्यखण्डार्थमखण्डैकरसं पदम् ॥५२॥द्वैतवृत्तिः साक्षिवृत्तिरखण्डाकारवृत्तिकम् । अखण्डैकरसं पश्चात् सोऽहमस्तीति भावय ॥५३॥इत्येवं च चतुर्वाक्यतात्पर्यार्थं समीरितम् । उपाधिसहितं वाक्यं केवलं लक्ष्यमीरितम् ॥५४॥किञ्चिज्ज्ञत्वादि जीवस्य सर्वज्ञत्वादि चेश्वरः । जीवोपरो सचैतन्यमीश्वरोऽहं परोक्षकः ॥५५॥सर्वशून्यमिति त्याज्यं ब्रह्मास्मीति विनिश्चयः । अहं ब्रह्म न सन्देहः सच्चिदानन्दविग्रहः ॥५६॥अहमैक्यं परं गत्वा स्वस्वभावो भवोत्तम । एतत् सर्वं महामिथ्या नास्ति नास्ति न संशयः ॥५७॥सर्वं नास्ति न सन्देहः सर्वं ब्रह्म न संशयः । एकाकारमखण्डार्थं तदेवाहं न संशयः ॥५८॥ब्रह्मेदं वितताकारं तद्ब्रह्माहं न संशयः ।सूतः - भवोद्भवमुखोद्भवं भवहराद्यहृद्यं भुवि प्रकृष्टरसभावतः प्रथितबोधबुद्धं भव ।भजन्ति भसिताङ्गका भरितमोदभारादरा भुजङ्गवरभूषणं भुवनमध्यवृन्दावनम् ॥५९॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे महावाक्यार्थनिरूपणप्रकरणं नाम एकत्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 17, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP