संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः|
सप्तत्रिंशोऽध्यायः

शङ्कराख्यः षष्ठोऽम्शः - सप्तत्रिंशोऽध्यायः

श्रीशिवरहस्यम्


ऋभुः -
निदाघ श्रृणु वक्ष्यामि रहस्यं परमद्भुतम् । श्लोकैकश्रवणेनैव सद्यो मोक्षमवाप्नुयात् ॥१॥
इदं दृष्टं परं ब्रह्म दृश्यवद्भाति चित्ततः । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥२॥
इदमेव हि नास्त्येव अयमित्यपि नास्ति हि । एक एवाप्यणुर्वापि नास्ति नास्ति न संशयः ॥३॥
व्यवहारमिदं क्कापि वार्तामात्रमपि क्क वा । बन्धरूपं बन्धवार्ता बन्धकार्यं परं च वा ॥४॥
सन्मात्रकार्यं सन्मात्रमहं ब्रह्मेति निश्चयम् । दुःखं सुखं वा बोधो वा साधकं साध्यनिर्णयः ॥५॥
आत्मेति परमात्मेति जीवात्मेति पृथङ् न हि । देहोऽहमिति मूर्तोऽहं ज्ञानविज्ञानवानहम् ॥६॥
कार्यकारणरूपोऽहमन्तःकरणकार्यकम् । एकमित्येकमात्रं वा नास्ति नास्तीति भावय ॥७॥
सर्वं सङ्कल्पमात्रेति सर्वं ब्रह्मेति वा जगत् । तत्त्वज्ञानं परं ब्रह्म ओङ्कारार्थं सुखं जपम् ॥८॥
द्वैताद्वैतं सदाद्वैतं तथा मानावमानकम् । सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते ॥९॥
आत्मानन्ममहं ब्रह्म प्रज्ञानं ब्रह्म एव हि । इदं रूपमहं रूपं प्रियाप्रियविचारणम् ॥१०॥
यद्यत् संभाव्यते लोके यद्यत् साधनकल्पनम् । यद्यन्तरहितं ब्रह्मभावनं चित्तनिर्मितम् ॥११॥
स्थूलदेहोऽहमेवात्र सूक्ष्मदेहोऽहमेव हि । बुद्धेर्भेदं मनोभेदं अहंकारं जडं च तत् ॥१२॥
सर्वं चैतन्यमात्रत्वात् नान्यत् किञ्चिन्न विद्यते । श्रवणं मननं चैव साक्षात्कारविचारणम् ॥१३॥
आत्मैवाहं परं चैव नाहं मोहमयं स्वयम् । ब्रह्मैव सर्वमेवेदं ब्रह्मैव परमं पदम् ॥१४॥
ब्रह्मैव कारणं कार्यं ब्रह्मैव जगतां जयः । ब्रह्मैव सर्वं चैतन्यं ब्रह्मैव मनसायते ॥१५॥
ब्रह्मैव जीववद्भाति ब्रह्मैव च हरीयते । ब्रह्मैव शिववद्भाति ब्रह्मैव प्रियमात्मनः ॥१६॥
ब्रह्मैव शान्तिवद्भाति ब्रह्मणोऽन्यन्न किञ्चन । नाहं न चायं नैवान्यन्नोत्पन्नं न परात् परम् ॥१७॥
न चेदं न च शास्त्रार्थं न मीमांसं न चोद्भवम् । न लक्षणं न वेदादि नापि चित्तं न मे मनः ॥१८॥
न मे नायं नेदमिदं न बुद्धिनिश्चयं सदा । कदाचिदपि नास्त्येव सत्यं सत्यं न किञ्चिन ॥१९॥
नैकमात्रं न चायं वा नान्तरं न बहिर्न हि । ईषन्मात्रं च न द्वैतं न जन्यं न च दृश्यकम् ॥२०॥
न भावनं न स्मरणं न विस्मरणमण्वपि । न कालदेशकलनं न सङ्कल्पं न वेदनम् ॥२१॥
न विज्ञानं न देहान्यं न वेदोऽहं न संसृतिः । न मे दुःखं न मे मोक्षं न गतिर्न च दुर्गतिः ॥२२॥
नात्मा नाहं न जीवोऽहं न कूटस्थो न जायते । न देहोऽहं न च श्रोत्रं न त्वगिन्द्रियदेवता ॥२३॥
सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा । अखण्डाकाररूपत्वात् सर्व नात्येव सर्वदा ॥२४॥
हुंकरस्यावकाशो वा हुंकारजननं च वा । नास्त्येव नास्ति नास्त्येव नास्ति नास्ति कदाचन ॥२५॥
अन्यत् पदार्थमल्पं वा अन्यदेवान्यभाषणम् । आत्मनोऽन्यदसत्यं वा सत्यं वा भ्रान्तिरेव च ॥२६॥
नास्त्येव नास्ति नास्त्येव नास्ति शब्दोऽपि नास्ति हि ।
सर्वं चैतन्यमात्रत्वात् सर्वं नास्त्येव सर्वदा ॥२७॥
सर्वं ब्रह्म न सन्देहो ब्रह्मैवाहं न संशयः । वाक्यं च वाचकं सर्वं वक्ता च त्रिपुटीद्वयम् ॥२८॥
ज्ञाता ज्ञानं ज्ञेयभेदं मातृमानमिति प्रियम् । यद्यच्छास्त्रेषु निर्णीतं यद्यद्वेदेषु निश्चितम् ॥२९॥
परापरमतीतं च अतीतोऽहमवेदनम् । गुरुर्गुरूपदेशश्च गुरुं वक्ष्ये न कस्यचित् ॥३०॥
गुरुरूपा गुरुश्रद्धा सदा नास्ति गुरुः स्वयम् । आत्मैव गुरुरात्मैव अन्याभावान्न संशयः ॥३१॥
आत्मनः शुभमात्मैव अन्याभावान्न संशयः । आत्मनो मोहमात्मैव आत्मनोऽस्ति न किञ्चन ॥३२॥
आत्मनः सुखमात्मैव अन्यन्नास्ति न संशयः । आत्मन्येवात्मनः शक्तिः आत्मन्येवात्मनः प्रियम् ॥३३॥
आत्मन्येवात्मनः स्नानं आत्मन्येवात्मनो रतिः । आत्मज्ञानं परं श्रेयः आत्मज्ञानं सुदुर्लभम् ॥३४॥
आत्मज्ञानं परं ब्रह्म आत्मज्ञानं सुखात् सुखम् ।
आत्मज्ञानात् परं नास्ति आत्मज्ञानात् स्मृतिर्न हि ॥३५॥
ब्रह्मैवात्मा न सन्देह आत्मैव ब्रह्मणः स्वयम् । स्वयमेव हि सर्वत्र स्वयमेव हि चिन्मयः ॥३६॥
स्वयमेव चिदाकाशः स्वयमेव निरन्तरम् । स्वयमेव च नानात्मा स्वयमेव च नापरः ॥३७॥
स्वयमेव गुणातीतः स्वयमेव महत् सुखम् । स्वयमेव हि शान्तात्मा स्वयमेव हि निष्कलः ॥३८॥
स्वयमेव चिदानन्दः स्वयमेव महत्प्रभुः । स्वयमेव सदा साक्षी स्वयमेव सदाशिवः ॥३९॥
स्वयमेव हरिः साक्षात् स्वयमेव प्रजापतिः । स्वयमेव परं ब्रह्म ब्रह्म एव स्वयं सदा ॥४०॥
सर्वं ब्रह्म स्वयं ब्रह्म स्वयं ब्रह्म न संशयः । दृढनिश्चयमेव त्वं सर्वथा कुरु सर्वदा ॥४१॥
विचारयन् स्वयं ब्रह्म ब्रह्ममात्रं स्वयं भवेत् । एतदेव परं ब्रह्म अहं ब्रह्मेति निश्चयः ॥४२॥
एष एव परो मोक्ष अहं ब्रह्मेति निश्चयः । एष एव कृतार्थो हि एष एव सुखं सदा ॥४३॥
एतदेव सदा ज्ञानं स्वयं ब्रह्म स्वयं महत् । अहं ब्रह्म एतदेव सदा ज्ञानं स्वयं महत् ॥४४॥
अहं ब्रह्म एतदेव स्वभावं सततं निजम् । अहं ब्रह्म एतदेव सदानित्यं स्वयं सदा ॥४५॥
अहं ब्रह्म एतदेव बन्धनाशं न संशयः । अहं ब्रह्म एतदेव सर्वसिद्धान्तनिश्चयम् ॥४६॥
एष वेदान्तसिद्धान्त अहं ब्रह्म न संशयः । सर्वोपनिषदामर्थः सर्वानन्दमयं जगत् ॥४७॥
महावाक्यस्य सिद्धान्त अहं ब्रह्मेति निश्चयः । साक्षाच्छिवस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥४८॥
नारायणस्य सिद्धान्त अहं ब्रह्मेति निश्चयः । चतुर्मुखस्य सिद्धान्त अहं ब्रह्मेति निश्चयः ॥४९॥
ऋषीणां हृदयं ह्येतत् देवानामुपदेशकम् । सर्वदेशिकसिद्धान्त अहं ब्रह्मेति निश्चयः ॥५०॥
यच्च यावच्च भूतानां महोपदेश एव तत् । अहं ब्रह्म महामोक्षं परं चैतदहं स्वयम् ॥५१॥
अहं चानुभवं चैतन्महागोप्यमिदं च तत् । अहं ब्रह्म एतदेव सदाज्ञानं स्वयं महत् ॥५२॥
महाप्रकाशमेवैतत् अहं ब्रह्म एव तत् । एतदेव महामन्त्रं एतदेव महाजपः ॥५३॥
एतदेव महास्नानमहं ब्रह्मेति निश्चयः । एतदेव महातीर्थमहं ब्रह्मेति निश्चयः ॥५४॥
एतदेव महागङ्गा अहं ब्रह्मेति निश्चयः । एष एव परो धर्म अहं ब्रह्मेति निश्चयः ॥५५॥
एष एव महाकाश अहं ब्रह्मेति निश्चयः । एतदेव हि विज्ञानमहं ब्रह्मास्मि केवलम् ॥५६॥
सर्वसिद्धान्तमेवैतदहं ब्रह्मेति निश्चयः ॥५६॥
सव्यासव्यतयाद्यवज्ञहृदया गोपोदहार्यः स्त्रियः
पश्यन्त्यम्बुजमित्रमण्डलगतं शंभुं हिरण्यात्मकम् ।
सर्वंत्र प्रसृतैः करैर्जगदिदं पुष्णाति मुष्णन् धनैः
वृष्टं चौषधिजालमम्बुनिकरैर्विश्वोत्थधूतं हरः ॥५७॥
इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सर्वसिद्धान्तप्रकरणं नाम सप्तत्रिंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 17, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP