संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शङ्कराख्यः षष्ठोऽम्शः| त्रयस्त्रिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः अनुक्रमणिका प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायःयः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टदशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायःयः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनत्रिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः नवचत्वारिंशोऽध्यायः शङ्कराख्यः षष्ठोऽम्शः - त्रयस्त्रिंशोऽध्यायः श्रीशिवरहस्यम् Tags : mahadevshankarshivमहादेवशंकरशिव त्रयस्त्रिंशोऽध्यायः Translation - भाषांतर ऋभुः - वक्ष्ये परं ब्रह्ममात्रमनुत्पन्नमिदं जगत् । सत्पदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥१॥आत्मैवाहं परं ब्रह्म नान्यत् संसारदृष्टयः । सत्पदानन्दमात्रोऽहमनुत्पन्नमिदं जगत् ॥२॥सत्पदानन्दमात्रोऽहं चित्पदानन्दविग्रहम् । अहमेवाहमेवैकमहमेव परात् परः ॥३॥सच्चिदानन्दमेवैकमहं ब्रह्मैव केवलम् । अहमस्मि सदा भामि एवं रूपं कुतोऽप्यसत् ॥४॥त्वमित्येवं परं ब्रह्म चिन्मयानन्दरूपवान् । चिदाकारं चिदाकाशं चिदेव परमं सुखम् ॥५॥आत्मैवाहमसन्नाहं कूटस्थोऽहं गुरुः परः । कालं नास्ति जगन्नास्ति कल्मषत्वानुभावनम् ॥६॥अहमेव परं ब्रह्म अहमेव सदा शिवः । शुद्धचैतन्य एवाह शुद्धसत्वानुभावनः ॥७॥अद्वयानन्दमात्रोऽहमव्ययोऽहं महानहम् । सर्वं ब्रह्मैव सततं सर्वं ब्रह्मैव निर्मलः ॥८॥सर्वं ब्रह्मैव नान्योऽस्ति सर्वं ब्रह्मैव चेतनः । सर्वप्रकाशरूपोऽहं सर्वप्रियमनो ह्यहम् ॥९॥एकान्तैकप्रकाशोऽहं सिद्धासिद्धविवर्जितः । सर्वान्तर्यामिरूपोऽहं सर्वसाक्षित्वलक्षणम् ॥१०॥शमो विचारसन्तोषरूपोऽहमिति निश्चयः । परमात्मा परं ज्योतिः परं परविवर्जितः ॥११॥परिपूर्णस्वरूपोऽहं परमात्माऽहमच्युतः । सर्ववेदस्वरूपोऽहं सर्वशास्त्रस्य निर्णयः ॥१२॥लोकानन्दस्वरूपोऽहं मुख्यानन्दस्य निर्णयः । सर्वं ब्रह्मैव भूर्नास्ति सर्वं ब्रह्मैव कारणम् ॥१३॥सर्वं ब्रह्मैव नाकार्यं सर्वं ब्रह्म स्वयं वरः । नित्याक्षरोऽहं नित्योऽहं सर्वकल्याणकारकम् ॥१४॥सत्यज्ञानप्रकाशोऽहं मुख्यविज्ञानविग्रहः । तुर्यातुर्यप्रकाशोऽहं सिद्धासिद्धादिवर्जितः ॥१५॥सर्वं ब्रह्मैव सततं सर्वं ब्रह्म निरन्तरम् । सर्वं ब्रह्म चिदाकाशं नित्यब्रह्म निरञ्जनम् ॥१६॥सर्वं ब्रह्म गुणातातं सर्वं ब्रह्मैव केवलम् । सर्वं ब्रह्मैव इत्येवं निश्चयं कुरु सर्वदा ॥१७॥ब्रह्मैव सर्वमित्येवं सर्वदा दृढनिश्चयः । सर्वं ब्रह्मैव इत्येवं निश्चयित्वा सुखीभव ॥१८॥सर्वं ब्रह्मैव सततं भावाभावौ चिदेव हि । द्वैताद्वैतविवादोऽयं नास्ति नास्ति न संशयः ॥१९॥सर्वविज्ञानमात्राऽहं सर्वं ब्रह्मति निश्चयः । गुह्याद्गुह्यतरं सोऽहं गुणातीतोऽहमद्वयः ॥२०॥अन्वयव्यतिरेकं च कार्याकार्यं विशोधय । सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ॥२१॥ब्रह्मैव सर्वमेवेदं चिदाकाशमिदं जगत् । ब्रह्मैव परमानन्दं आकाशसदृशं विभु ॥२२॥ब्रह्मैव सच्चिदानन्दं सदा वाचामगोचरम् । ब्रह्मैव सर्वमेवेदमस्ति नास्तीति केचन ॥२३॥आनन्दभावना किञ्चित् सदसन्मात्र एव हि । ब्रह्मैव सर्वमेवेदं सदा सन्मात्रमेव हि ॥२४॥ब्रह्मैव सर्वमेवेदं चिद्धनानदविग्रहम् । ब्रह्मैव सच्च सत्यं च सनातनमहं महत् ॥२५॥ब्रह्मैव सच्चिदानन्द ओतप्रोतेव (?) तिष्ठति । ब्रह्मैव सच्चिदानन्दं सर्वकारं सनातनम् ॥२६॥ब्रह्मैव सच्चिदानन्दं परमानन्दमव्ययम् । ब्रह्मैव सच्चिदानन्दं मायातीतं निरञ्जनम् ॥२७॥ब्रह्मैव सच्चिदानन्दं सत्तामात्रं सुखात् सुखम् । ब्रह्मैव सच्चिदानन्दं चिन्मात्रैकस्वरूपकम् ॥२८॥ब्रह्मैव सच्चिदानन्दं सर्वभेदविवर्जितम् । सच्चिदानन्दं ब्रह्मैव नानाकारमिव स्थितम् ॥२९॥ब्रह्मैव सच्चिदानन्दं कर्ता चावसरोऽस्ति हि । सच्चिदानन्दं ब्रह्मैव परं ज्योतिः स्वरूपकम् ॥३०॥ब्रह्मैव सच्चिदानन्दं नित्यनिश्चलमव्ययम् । ब्रह्मैव सच्चिदानन्दं वाचावधिरसावयम् ॥३१॥ब्रह्मैव सच्चिदानन्दं स्वयमेव स्वयं सदा । ब्रह्मैव सच्चिदानन्दं न करोति न तिष्ठति ॥३२॥ब्रह्मैव सच्चिदानन्दं न गच्छति न तिष्ठति । ब्रह्मैव सच्चिदानन्दं ब्रह्मणोऽत्यन्न किञ्चन ॥३३॥ब्रह्मैव सच्चिदानन्दं न शुक्लं न च कृष्णकम् । ब्रह्मैव सच्चिदानन्दं सर्वाधिष्ठानमव्ययम् ॥३४॥ब्रह्मैव सच्चिदानन्दं न तूष्णीं न विभाषणम् । ब्रह्मैव सच्चिदानन्दं सत्वं नाहं न किञ्चन ॥३५॥ब्रह्मैव सच्चिदानन्दं परात्परमनुद्धवम् । ब्रह्मैव सच्चिदानन्दं तत्वातीतं महोत्सवम् ॥३६॥ब्रह्मैव सच्चिदानन्दं परमाकाशमाततम् । ब्रह्मैव सच्चिदानन्दं सर्वदा गुरुरूपकम् ॥३७॥ब्रह्मैव सच्चिदानन्दं सदा निर्मलविग्रहम् । ब्रह्मैव सच्चिदानन्दं शुद्धचैतन्यमाततम् ॥३८॥ब्रह्मैव सच्चिदानन्दं स्वप्रकाशात्मरूपकम् । ब्रह्मैव सच्चिदानन्दं निश्चयं चात्मकारणम् ॥३९॥ब्रह्मैव सच्चिदानन्दं स्वयमेव प्रकाशते । ब्रह्मैव सच्चिदानन्दं नानाकार इति स्थितम् ॥४०॥ब्रह्मैव सच्चिदाकारं भ्रान्ताधिष्ठानरूपकम् । ब्रह्मैव सच्चिदानन्दं सर्वं नास्ति न मे स्थितम् ॥४१॥वाचामगोचरं ब्रह्म सच्चिदानन्दविग्रहम् । सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् ॥४२॥ब्रह्मैवेदं सदा सत्यं नित्यमुक्तं निरञ्जनम् । सच्चिदानन्दं ब्रह्मैव एकमेव सदा सुखम् ॥४३॥सच्चिदानन्दं ब्रह्मैव पूर्णात् पूर्णतरं महत् । सच्चिदानन्दं ब्रह्मैव सर्वयापकमीश्वरम् ॥४४॥सच्चिदानन्दं ब्रह्मैव नामरूपप्रभास्वरम् । सच्चिदानन्दं ब्रह्मैव अनन्तानन्दनिर्मलम् ॥४५॥सच्चिदानन्दं ब्रह्मैव परमानन्ददायकम् । सच्चिदानन्दं ब्रह्मैव सन्मात्रं सदसत्परम् ॥४६॥ सच्चिदानन्दं ब्रह्मैव सर्वेषां परमव्ययम् । सच्चिदानन्दं ब्रह्मैव मोक्षरूपं शुभाशुभम् ॥४७॥ सच्चिदानन्दं ब्रह्मैव परिच्छिन्नं न हि क्कचित् । ब्रह्मैव सर्वमेवेदं शुद्धबुद्धमलेपकम् ॥४८॥सच्चिदानन्दरूपोऽहमनुत्पन्नमिदं जगत् । एतत् प्रकरणं सत्यं सद्योमुक्तिप्रदायकम् ॥४९॥सर्वदुःख्हक्षयकरं सर्वविज्ञानदायकम् । नित्यानन्दकरं सत्यं शान्तिदान्तिप्रदायकम् ॥५०॥यस्त्वन्तकान्तकमहेश्वरपादपद्म - लोलम्बसप्रभहृदा परिशीलकश्च ।बृन्दारबृन्दविनतामलदिव्यपादो भावो भवोद्भवकृपावशतो भवेच्च ॥५१॥इति श्रीशिवरहस्ये शङ्कराख्ये षष्ठांशे सच्चिदानन्दरूपताप्रकरणं नाम त्रयस्त्रिंशोऽध्यायः ॥ N/A References : N/A Last Updated : April 17, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP