English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 198

Puran Kavya Stotra Sudha - Page 198

Puran Kavya Stotra Sudha - Page 198


स्तोत्र यो गः- पापप्रशमनस्तवः
तारोद्भवं वेदविदां वरिष्ठं योगात्मनां सांख्यविदां वरिष्ठम् ॥
आदित्यरुद्राश्विवसुप्रभावं प्रभुं प्रपद्येऽच्युतमादिभूतम् ॥ ५१ ॥
श्रीवत्साङ्कं महादेवं देवगुह्यं मनोरमम् ||
प्रपद्ये सूक्ष्ममतुलं वरेण्यमभयप्रदम् ॥ ५२ ॥
प्रभवं सर्वभूतानां निर्गुणं परमेश्वरम् ॥
प्रपद्ये मुक्तसङगानां यतीनां परमां गतिम् ॥ ५३ ॥
भगवन्तं गुणाध्यक्षमक्षरं पुष्करेक्षणम् ॥
शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम् ॥ ५४ ॥
त्रिविक्रमं त्रिलोकेशं सर्वेषां प्रपितामहम् ॥
योगात्मानं महात्मानं प्रपद्येऽहं जनार्दनम् ॥ ५५ ॥
आदिदेवमजं शम्भुं व्यक्ताव्यक्तं सनातनम् ||
नारायणमणीयांसं प्रपद्ये ब्राह्मणप्रियम् ॥ ५६ ॥
नमो हराय देवाय नमः सर्वमहाय च ॥
प्रपद्ये देवदेवेशमणीयांसं तनोः सदा ॥ ५७ ।।
एकाय लोकतत्त्वाय परतः परमात्मने ॥
नमः सहस्त्रशिरसे अनन्ताय महात्मने ॥ ५८ ॥
त्वमेव शरणं देवमृषयो वेदपारगाः ॥
कीर्तयन्ति च यं सर्वे ब्रह्मादीनां परायणम् ॥ ५९ ॥
नमस्ते पुण्डरीकाक्ष भक्तानामभयप्रद ||
सुब्रह्मण्य नमस्तेऽस्तु त्राहि मां शरणागतम् ॥ ६० ॥
पुलस्त्य उवाच -
३०. पापप्रशमनस्तवः
( वामन, ८८ )
द्वितीयं पापशमनं स्तवं वक्ष्यामि ते मुने ||
येन सम्यगधीतेन पापनाशं तु गच्छति ॥ १ ॥
मत्स्यं नमस्ये देवेशं कर्म देवेशमेव च ॥
हयशीषं नमस्येऽहं भवं विष्णुं त्रिविक्रमम् ॥ २ ॥
नमस्ये माधवेशानौ हृषीकेशकुमारिलौ ॥
नारायणं नमस्येऽहं नमस्ते गरुडासन || ३ ||
१८३

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP