English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 161

Puran Kavya Stotra Sudha - Page 161

Puran Kavya Stotra Sudha - Page 161


१४६
पुराणकाव्यस्तोत्रसुधा |
व्योमयानवनिताः सह सिद्धै विस्मितास्तदुपधार्थ सलज्जाः ॥
काममार्गणसमर्पितचित्ताः कश्मलं ययुरपस्मृतनीव्यः ॥ ३ ॥
हन्त चित्रमबलाः श्रुणुतेदं हारहास उरसि स्थिरविद्युत् ||
नन्दसूनुरयमार्तजनानां नर्मदो यहि कूजितवेणुः ॥ ४॥
वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् ॥
दन्तदष्टकवला घृतकर्णा निद्रिता लिखितचित्रमिवासन् ॥ ५ ॥
बहिणस्तबकधातुपलाशैर्बद्धमल्लपरिबर्ह विडम्बः ॥
कहिचित् सबल आलि स गोपैर्गाः समाह्वयति यत्र मुकुन्दः ॥ ६ ॥
तहि भग्नगतयः सरितो वै तत्पदाम्बुज रजोऽनिल नीतम् ॥
स्पृहयतीवंयमिवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः ॥ ७ ॥
अनुचरः समनुर्वाणतवीर्य आदिपुरुष इवाचलभूतिः ॥
वनचरो गिरितटेषु चरन्तीर्वेणुनाऽऽह्वयति गाः स यदा हि ॥ ८ ॥
वनलतास्तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढयाः ||
प्रणतभारविटपा मधुधारा: प्रेमहृष्टतनवः ससृजुः स्म ॥ ९ ॥
दर्शनीयतिलको वनमालादिव्यगन्धतुलसीमधुमत्तैः ॥
अलिकुलैरलघुगीतमभीष्टमाद्रियन् यहि सन्धितवेणुः ॥ १० ॥
सरसि सारसहंसविहङ्गाश्चारुगीतहृतचेतस एत्य ॥
हरिमुपासत ते यतचित्ता हन्त मीलितदृशो घृतमौनाः ॥ ११ ॥
सहबलः स्रगवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः ॥
हर्षयन् यहि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥ १२ ॥
महदतिक्रमणशंकितचेता मन्दमन्दमनुगर्जति मेघः ॥
सुहृदमभ्यवर्षत् सुमनोभिश्छायया च विदधत्प्रतपत्रम् ॥ १३ ॥
विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुघा निजशिक्षाः ||
तव सुतः सति यदाघरबिम्बे दत्तवेणुरनयत्स्वरजातिः ॥ १४ ॥
सवनशस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः ॥
कवय आनतकन्धरचित्ता: कश्मलं ययुरनिश्चिततत्त्वाः ॥ १५ ॥
निजपदाब्जदलंर्ध्वजवज्ञनीरजाङकुशविचित्रललामैः ||
व्रजभुवः शमयन् खुरतोदं वर्ष्मधुर्य गतिरोडितवेणुः ॥ १६ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP