English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 181

Puran Kavya Stotra Sudha - Page 181

Puran Kavya Stotra Sudha - Page 181


पुराणकाव्यस्तोत्रसुधा ।
मायाततं येन जगत्त्रयं कृतं यथाग्निनैकेन ततं चराचरम् ॥
चराचरस्य स्वयमेव सर्वतः स मेऽस्तु विष्णुः शरणं जगत्पतिः ॥४७॥
भवे भवे यश्च ससर्ज कं ततो जगत्प्रसूतं सचराचरं त्विदम् ॥
ततश्च रुद्रात्मवति प्रलीयते ततो हरिविष्णुहरस्तथोच्यते ॥ ४८ ॥
रवीन्दुपृथ्वीपवनादिभास्करा जलं च यस्य प्रभवन्ति मूर्त्तयः ॥
स सर्वदा मे भगवान्सनातनो ददातु शं विष्णुरचिन्त्यरूपधृक् ॥ ४९ ॥
१५. आदिदेवस्तोत्रम्
( पद्म, उत्तरखण्ड, २०८ )
ब्राह्मणा ऊचुः -
नमस्तेऽतसीपुष्पसङकाशभासं तनुं विभ्रते पीतवासोवृताय ॥
लसत्कुण्डलप्रोतनानोपलाय श्रुतौ चञ्चलाव्यापिनीलाम्बुदाय ॥ ३५ ॥
भक्तिस्त्वदीया किल कल्पवल्लो समाश्रिता यच्छति चित्तवाञ्छितम् ॥
यथा तथैषा किल कोशला विभो जना उभे ते कृपया तवाऽऽप्नुयुः ॥ ३६ ॥
वन्दामहे ते चरणारविन्दं वृन्दारकैर्वन्दितमीश्वराद्यैः ॥
विचिन्त्यमानं हृदि योगिवृन्दै कन्दं परानन्दभुवो विमुक्तेः ॥ ३७ ॥
प्राप्ताः कामं श्रीपतेत्वत्स्वरूपं श्रीवत्साद्यैर्लक्षितं चारुचिह्नः ॥
वाञ्छामस्ते दासभावं तथाऽपि प्रायः सर्वेरादृतं नारदाः ॥ ३८ ॥
यत्सौख्यं ते दासभावं गतानां तन्नो लक्ष्म्या वक्षसोऽन्तर्वसन्त्याः ॥
तज्जानाति श्रीपते श्रीमहेशो नान्यो लोके येन तच्चानुभूतम् ॥ ३९ ॥
मध्येऽस्माकं श्रीपते सेवकानां नीरागाणामप्यसौ माननीयः ॥
अस्मात्तं ते नारदाद्या मुनीशा स्वद्भक्त्याप्त्यं लोकनाथं भजन्ते ॥४०॥
कामं ब्रह्मानन्दमाप्तोऽन्तरात्मा त्वद्दास्ये नो तृप्तिमायाति शम्भुः ॥
वारं वारं त्वद्गुणानुग्रहीता नृत्यत्युच्चैस्त्वत्परो भावयुक्तः ॥ ४१ ॥
हेतोरस्माद्देहि नः स्वस्य दास्यं यत्प्राप्तानां नोर्मयः संभवन्ति ॥
त्वच्चिाङगौ द्वारपालौ त्वदीयौ मोहाद्भ्रष्टौ प्रापितौ तत्स्वकीयम् ॥ ४२ ॥
लोकादस्मादन्तरेण त्वदिच्छां त्वल्लोकानां नोद्यते चाऽऽशुपातः ॥
को जानीयात्तावकीमत्र मायां दुविज्ञेयां ब्रह्मशर्वादिदेवः ॥ ४३ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP