English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 112

Puran Kavya Stotra Sudha - Page 112

Puran Kavya Stotra Sudha - Page 112


द्वितीयो भागः ।
का व्य यो गः ।
१ आधिपत्याभिषेचनम्
[ Immediately after his coronation ceremony, King
Prithu is said to have appointed the various Heads of all the
items of the world. Here is a fine description of the same. ]
(मत्स्य, अ. ८. )
यदाऽभिषिक्तः सकलाधिराज्ये पृथुर्धरित्र्यामधिपो बभूव ॥
तदौषधीनामधिपं चकार यज्ञव्रतानां तपसां च चन्द्रम् ॥ २ ॥
नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भः ॥
अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत् ॥ ३ ॥
विष्णुं रवीणामधिपं वसूनामग्नि च लोकाधिपतिश्चकार ॥
प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम् ॥ ४ ॥
दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम् ॥
पिशाचरक्षः पशुभूतयक्षवेतालराजं त्वथ शूलपाणिम् ॥ ५ ॥
प्रालेयशैलं च पति गिरीणामीशं समुद्रं ससरिन्नदानाम् ॥
गन्धर्वविद्याघ रकिन्नराणामीशं पुनश्चित्ररथं चकार ॥ ६ ॥
नागाधिपं वासुकिमुग्रवीर्यं सर्वाधिपं तक्षकमादिदेश ॥
दिशां गजानामधिपं चकार गजेन्द्र मैरावतनामधेयम् ॥ ७ ॥
सुपर्णमीशं पततामथाश्वराजानमुच्चैःश्रवसं चकार ||
सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम् ॥ ८ ॥
पितामहः पूर्वमथाभ्यषिञ्चच्चैतान्पुनः सर्वदिशाधिनायान् ॥
पूर्वेण दिक्पालमथाभ्यविञ्चन्नाम्ना सुधर्माणमरातिकेतुम् ॥ ९ ॥
ततोऽधिपं दक्षिणतश्चकार सर्वेश्वरं शखपदाभिधानम् ॥
स केतुमन्तं च दिगोशमीशश्चकार पश्चाद्भ वनाण्डगर्भः ॥ १० ॥
हिरण्यरोमाणमुदग्दिगीशं प्रजापतिर्देवसुतं चकार ||
अद्यापि कुर्वन्ति दिशामधोशाः शत्रून्दहन्तस्तु भुवोऽभिरक्षाम् ॥ ११ ॥
१३

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP