English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 171

Puran Kavya Stotra Sudha - Page 171

Puran Kavya Stotra Sudha - Page 171


१५६
पुराणकाव्यस्तोत्रसुधा ।
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् ॥
भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम् ॥ १५३ ॥
न चात्र किंचित्पश्यामि व्यतिरिक्तं तवाच्युत ॥
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥ १५४ ॥
[ देवा ऊचु:-
यत्त्वया विधृते देव नारसिहमिदं वपुः ||
एतदेवार्चयिष्यन्ति परापरविदो जनाः ॥ १८९ ॥ ]
ब्रह्मोवाच-
५. नारायणस्तोत्रम्
( पद्म, सृष्टिखण्ड, ४३ )
भवान्ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तम ||
भवान्कर्ता विकर्ता च लोकानां प्रभवोऽव्ययः ॥ १९० ॥
परां च सिद्धि च परं च सत्त्वं परं रहस्यं परमं हविश्च ||
परं च धर्मं परमं यशश्च त्वामाहुरग्यं परमं पुराणम् ।। १९१ ॥
परं च सत्यं परमं तपश्च परं पवित्रं परमं च मार्गम् ॥
परं च यज्ञं परमं च होत्रं त्वामाहुरग्यं परमं पुराणम् ॥ १९२ ॥
परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणिम् ॥
परं रहस्यं परमां गति च त्वामाहूरग्यं परमं पुराणम् ।। १९३ ।।
वराह उवाच -
६. यज्ञनारायणस्तोत्रम्
( वराह, ५ )
नमामि नित्यं त्रिदशाधिनस्य भवस्य सूर्यस्य हुताशनस्य ||
सोमस्य राज्ञो मरुतामनेकरूपं हरि यज्ञतनुं नमस्ते ॥ ४९ ॥
सुभीमदंष्टुं शशिसूर्यनेत्रं संवत्सरद्वयायनयुग्मकुक्षिम ॥
दर्भाङ्ग रोमाणमथोग्रशक्ति सनातनं यज्ञनरं नमामि ॥ ५० ॥
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं शरीरेण दिशश्च सर्वाः ॥
तमोड्यमीशं जगतां प्रसूति जनार्दनं तं प्रणतोऽस्मि नित्यम् ॥ ५१ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP