English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 173

Puran Kavya Stotra Sudha - Page 173

Puran Kavya Stotra Sudha - Page 173


१५८
पुराणकाव्यस्तोत्रसुधा ।
आत्मेन्द्रियमनोयुक्तो भोक्तेत्याहुर्मनीषिणः ॥
यस्तु विज्ञानवाह्येन युक्तेन मनसा सदा ||
स तु तत्पदमाप्नोति स हि भूयो न जायते ॥ ७ ॥
विज्ञानसारथिर्यस्य मनःप्रग्रहवान्नरः ॥
स्वर्धून्या: पारमाप्नोति तद्विष्णोः परमं पदम् ॥ ८ ॥
अहिंसादि यमः प्रोक्तः शौचादि नियमः स्मृतः ॥
पद्माद्युक्तं आसनञ्च प्राणायामो मरुज्जयः ॥ ९ ॥
प्रत्याहारो जयः प्रोक्तो ध्यानमीश्वरचिन्तनम् ॥
मनोधृतिर्धारणा स्यात्समाधिर्ब्रह्मणि स्थितिः ॥ १० ॥
अमूर्ती चेत् ऋणी स्यात्तु ततो मूर्ति विचिन्तयेत् ॥
हृत्पद्मकर्णिकामध्ये शङ्खचक्रगदाधरः ॥ ११ ॥
श्रीवत्सकौस्तुभयुतो वनमालाश्रिया युतः
नित्यः शुद्धो बुद्धियुक्तः सत्यानन्दाव्हयः परः ॥ १२ ॥
आत्माहं परमं ब्रह्म परमज्योतिरेव तु ||
चतुर्विंशतिमूर्तिः स शालग्रामशिलास्थितः ॥ १३ ॥
द्वारकादिशिलासंस्थो ध्येयः पूज्योऽपि वा हरिः ॥
मनसोऽभोप्सितं प्राप्य देवो वैमानिको भवेत् ॥
निष्कामो मुक्तिमाप्नोति मूर्ति घ्यायन् स्तुवन् जपन् ॥ १४ ॥
८. ब्रह्मस्तोत्रम्
( पद्म, सृष्टिखण्ड, १५ )
देवा ऊचु: -
ब्रह्मणे ब्रह्मदेहाय ब्रह्मण्यायाजिताय च ||
नमस्कुर्म: सुनियताः ऋतुवेदप्रदायिने ॥ ११६ ॥
भक्तानुकम्पिने देव सृष्टिरूपाय ते नमः ||
पञ्चास्य शुभया भक्त्या वेदजाप्यस्तुताय च ॥ ११७ ॥
बहुरूप स्वरूपाय रूपाणां शतधारिणे ॥
सावित्रीपतये देव गायत्रीपतये नमः ॥ ११८ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP