English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 160

Puran Kavya Stotra Sudha - Page 160

Puran Kavya Stotra Sudha - Page 160


का व्य यो गः--
-युग्मगीतम्
१४५
धन्याः स्म मूढमतयोऽपि हरिण्य एता या नन्दनन्दनमुपात्त विचित्रवेषम् ||
आकर्ण्य वेणुरणितं सहकृष्णसाराः पूजां दघुविरचितां प्रणयावलोकैः ॥११॥
कृष्णं निरोक्ष्य वनितोत्सवरूपशीलं श्रुत्वा च तत्त्वणितवेणु विचित्रगोतम् ॥
देव्यो विमानगतयः स्मरनुन्न सारा अश्वत्प्रसूनकबरा मुमुहुविनीव्यः ॥ १२ ॥
गावश्च कृष्णमुख निर्गत वेणुगीत पीयूषमुत्त भितकर्णपुटेः पिबन्त्यः ॥
शावाः स्तुतस्तन पयःकवलाः स्म तस्थुर्गोविन्दमात्मनि दृशाश्रुकलाः स्पृशन्त्यः ||
प्रायो बताम्ब विहगा सुनयो वनेऽस्मिन् कृष्णेक्षितं तदुदितं कलवेणुगोतम् ॥
आरुह्य ये द्रुमभुजान् रुचिरत्रवालान् शृण्वन्त्य मीलितदृशो विगतान्यवाचः ॥ १४॥
नद्यस्तदा तदुपधार्य मुकुन्दगीतमावर्तलक्षितमनोभवभग्नवेगाः ॥
आलिङ्गनस्थ गितमूमिभुजैर्मुरागृह्णन्ति पादयुगलं कमलोपहाराः ॥ १५ ॥
दृष्ट्वा तपे व्रजनशून सहरामगोवैः संचारयन्तमनु वेणुमुदीरयन्तम् ॥
प्रेमप्रवृद्ध उदितः कुसुमावलीभिः सख्युर्व्यवात्स्ववपुवाम्बुद आतपत्रम् ||१६||
पूर्णा: पुलिन्द्य उरुगायपदाब्जराग श्रीकुडकुमेन दयितास्तनमण्डितेन ||
तद्दर्शनस्म ररुजस्तृणरुषितेन लिम्पन्त्य आननकुचेषु जुहुस्तदाधिम् ॥ १७ ॥
हन्तायमद्रिरबला हरिदासवर्यो यद्रामकृष्णवरणस्पर्शप्रमोदः ॥
मानं तनोति सहगोगणयोस्तयोर्यत् पानीयसूयवसकन्द रकन्दमूलैः ॥ १८ ॥
गा गोपकैरनुवनं नयतोहदारवेणुस्वनैः कलपवैस्तनुभृत्सु सख्यः ॥
अस्पन्दनं गतिमतां पुलकस्तरूणां निर्योगपाशकृतलक्षणयोविचित्रम् ॥ १५ ॥
एवंविधा भगवतो या वृन्दावनचारिणः ||
वर्णयन्त्यो मिथो गोप्यः क्रीडास्तन्मयतां ययुः ॥ २१ ॥
१९. युग्मगीतम्
( भागवत, १०, ३५ )
[ After Krisna went to the forest, the Cropīs, suffering
from the pangs of separation, went on singing about his
deeds. ]
गोप्युवाच -
वाम बाहुकृतवामकपोलो वल्गितभ्रुरघरापितवेणुम् ||
कोमलाङ्गुलिभिराश्रितमार्ग गोप्य ईरयति यत्र मुकुन्दः ॥ २ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP