English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 174

Puran Kavya Stotra Sudha - Page 174

Puran Kavya Stotra Sudha - Page 174


स्तो त्र यो गः -
देवा ऊचुः -
-ब्रह्मस्तोत्रम्
पद्मासनाय पद्माय पद्मवक्त्राय ते नमः ॥
वरदाय वराय कूर्माय च मृगाय च ॥ ११९ ॥
जटामुकुटयुक्ताय श्रवश्रुतिनिधारिणे ॥
मृगाडक मृगधर्माय घर्मनेत्राय ते नमः ॥ १२० ।।
विश्वक्सेनाय विश्वाय विश्वेशाय नमो नमः ॥
धर्मनेत्र त्राणमस्मादधिकं कर्तुमर्हसि ॥ १२१ ॥
वाङ्मनः कायभावस्त्वां प्रपन्नाः स्म पितामह ॥
[ एवं स्तुतस्तदा देवै: ब्रह्मा ब्रह्मविदां वरः ॥ १२२ ॥
प्रदास्यामि स्मृतो बाढममोघं दर्शनं हि वः ||
ब्रुवन्तु वाञ्छितं पुत्राः प्रदास्यामि न संशयः ॥ १२३ ॥]
९. ब्रह्मस्तोत्रम्
( पद्म, सृष्टिखण्ड, ४० )
१५९
नम ॐकाराङ्कुरादिप्रसूत्यै विश्वस्थानानन्तभेदस्य पूर्वम् ॥
संभूतस्यानन्तरं सत्त्वमूले संहारेच्छोस्ते नमः सत्त्वमूर्ते ॥ ९ ॥
व्यक्तीनां त्वामादिभूतं महिम्ना चास्मादस्मानभिधानाद्विचिन्त्य ||
द्यावापृथ्व्योरूर्ध्व लोकांस्तथाऽधश्चाण्डादस्मात्त्वं विभागं चकार ॥१०॥
व्यक्तं चैतद्यज्जरायुस्तवाभूदेवं विद्मस्त्वत्प्रणीतोऽवकाशः ॥
व्यक्तंदेवा जज्ञिरे यस्य देहाद्देहस्यान्तश्चारिणो देहभाजः ॥ ११ ॥
द्यौस्ते मूर्धा लोचने चन्द्रसूयाँ व्यालाः केशा श्रोत्ररन्ध्र दिशस्ते ॥
गात्रं यज्ञः सिन्धवः सन्धयो वै पादौ भूमिस्तूदरं ते समुद्राः ॥ १२ ॥
मायाकार: कारणं त्वं प्रसिद्धो वेदः शान्तो ज्योतिरर्कस्त्वमुक्तः ॥
वेदार्थेन त्वां विवृण्वन्ति बुद्धया हृत्पद्मान्तः संनिविष्टं पुराणम् ॥१३॥
त्वां चाऽऽत्मानं लब्धयोगा गृणन्ति सांख्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः ॥
तासां हेतुर्याऽष्टमी चापि गीता तास्वन्तःस्थो जीवभूतस्त्वमेव ||१४||
दृष्टवा मूर्ति स्थूलसूक्ष्मां चकार ये वै भावाः कारणे केचिदुक्ताः ॥
संभूतास्ते त्वत्त एवाऽदिसर्गे भूयस्तास्त्वां वासनान्तेऽभ्युपेयाः ॥ १५ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP