English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 163

Puran Kavya Stotra Sudha - Page 163

Puran Kavya Stotra Sudha - Page 163


१४८
पुराणकाव्यस्तोत्रसुधा ।
ततो वाद्यसहस्रेषु वादित्रेषु समंततः ॥
सर्वैर्जयेति चैवोक्ता भगवान्वतमादिशत् ॥ २१ ॥
भवानी हृष्टहृदया महादेवं व्यलोकयत् ॥
जया च विजया चैव जयन्ती मङ्गलारुणा ॥ २२ ॥
चतुष्टयसखीमध्ये विरराज शुभानना ||
तस्याः सान्निध्ययोगेन जगद्भाति गुणोत्तरम् ॥ २३ ॥
यस्याः शरीरजा शोभा वर्णितु नैव शक्यते ॥
ईशोऽपि गणकोटीभिर्नानावस्त्राभिरीक्षितः ॥ २४ ॥
पिशाचभूतसंघश्च वृतः परमशोभनः ॥
स्वर्णवेत्रघरो नन्दी बभौ कपिमुखोऽग्रतः ॥ २५ ॥
विद्याधराश्च गंधर्वाश्चित्र सेनादयस्तथा ॥
चित्रन्यस्ता इव बभुस्तत्र नागा मुनीश्वराः ॥ २६ ॥
श्रीरागप्रमुखा रागास्तस्य पुत्रा महौजसः ॥
अमूर्त्ताश्चैव ते पुत्रा हरदेवसमुद्भवाः ॥ २७ ॥
एकंकस्य च षड्भार्याः सर्वासां च पितामहः ॥
ताभिः सहैव ते रागा लीलावपुर्धरास्तथा ॥ २८ ॥
प्रादुर्बभूवुः सहसा चितितास्तेन शंभुना ॥
तेषां नामानि ते वच्मि शृणुष्व त्वं महाधन ॥ २९ ॥
श्रीरागः प्रथमः पुत्र ईश्वरस्य विमोहनः ॥
आसांचक्रे भ्रुर्वोमध्ये परब्रह्मप्रदायकः ॥ ३० ॥
तन्मध्यश्चैव माहेशात्समुद्भू तो गणोत्तमः ||
द्वितीयोऽथ वसन्तोऽभूत्कटिदेशान्महायशाः ॥ ३१ ॥
महदंकश्च भूतानां चक्राच्चैव विशुद्धितः ||
पंचमस्तु तृतीयोऽभूत्सुतो विश्वविभूषणः ॥ ३२ ॥
महेश्वरहृदो जातं चक्रं चैवमनाहतम् ||
नास / देशात्समुद्भू तो भैरवो भैरवः स्वयम् ॥ ३३ ॥
मणिपूरकनामेदं चक्रं तद्धि विमुक्तिदम् ॥
पंचाशच्च तथा वर्णा अंका नाम महेश्वरात् ॥ ३४ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP