English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 111

Puran Kavya Stotra Sudha - Page 111

Puran Kavya Stotra Sudha - Page 111


९६
पुराणकाव्यस्तोत्रसुधा ।
७०७ हतमलं तथा लोभान्मदाद्वेनं द्विजैर्हतम् ||
मानादनायुषः पुत्रं हतं हर्षात्पुरञ्जयम् ॥ १६ ॥
एभिजितैजितं सर्वं मरुत्तेन महात्मना ||
७०८
स्मृत्वा विवर्जयेदेतान्षड्दोषांश्च महीपतिः ॥ १७ ॥ मार्कण्डेय, २०.
७०९ धिक्तस्य जन्म यः पित्रा लोके विज्ञायते नरः ॥
यत्पुत्रात्ख्यातिमभ्येति तस्य जन्म सुजन्मनः ॥ १० ॥
७१० आत्मज्ञानो यतो धन्यो मध्यः पितृपितामहैः ॥
मातृपक्षेण मात्रा च ख्याति याति नराधमः ॥ १२ ॥
७११ अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता ॥ ७ ॥
७१२ कुपुत्रो हृदयायासं सर्वदा कुरुते पितुः ||
मातुश्च स्वर्गसंस्थांश्च स्वपितॄन्पातयत्यघः ॥ ८ ॥
७१३ सुहृदां नोपकाराय पितॄणां च न तृप्तये ||
पित्रोर्दुःखाय घिग्जन्म तस्य दुष्कृतकर्मणः ॥ ९ ॥
७१४ धन्यास्ते तनया येषां सर्वलोकाभिसंमताः ॥
परोपकारिणः शान्ताः साघुकर्मण्यनुव्रताः ॥ १० ॥
७१५ अनिर्वृतं तथा मन्दं परलोकपरामुखम् ॥
नरकाय न सद्गत्यं कुपुत्रालम्बिजन्म वै ॥ ११ ॥
७१६ करोति सुहृदां दैन्यमहितानां तथा मुदम् ॥
Ibid, १९.
अकाले च जरां पित्रोः कुसुतः कुरुते ध्रुवम् ॥ १२ ॥ Ibid, अ. ७२.
७१७ विद्याबुद्धिरविद्यायामज्ञानात्तात जायते ॥
बालोऽग्नि कि न खद्योतमसुरेश्वर मन्यते ॥ ४० ॥
७१८ तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये ॥
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम् ॥ ४१ ॥
७१९ तस्माद्यतेत पुण्येषु य इच्छेन्महतीं श्रियम् ॥
विष्णु, १, १९.
यतितव्यं समत्वे च निर्वाणमपि चेच्छता ॥ ४६॥
७२० यंत्रेण पीडिता यद्वन्निस्साराः स्युस्तिलाः क्षणात् ॥
तथा शरीरं निःसारं योनियन्त्रनिपीडनात् ||३८॥ शिव, उमासं, २२.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP