English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 141

Puran Kavya Stotra Sudha - Page 141

Puran Kavya Stotra Sudha - Page 141


पुराणकाव्यस्तोत्रमुधा ।
गृहप्रतापैः क्वथितं समन्तात्तदाऽर्णवे तोयसुदीर्णवेगम् ॥
वित्रासयामास तिमोन्सनक्रांस्तिम गिलांस्तत्ववथितांस्तथाऽन्यान् ॥ ७२ ॥
सगोपुरो मन्दरपादकल्पः प्राकारवर्यस्त्रिपुरे च सोऽथ ||
तैरेव सार्धं भवनैः पपात शब्दं महान्तं जनयन्समुद्रे ॥ ७३ ॥
सहस्रशृङ्गैर्भवनैर्यदा (आ) सोत्सहस्रशृङगः स इवाचलेशः ॥
नामावशेषं त्रिपुरं प्रजज्ञे हुताशनाहारवलिप्रयुक्तम् ॥ ७४ ॥
प्रदह्यमानेन पुरेण तेन जगत्सपातालदिवं प्रतप्तम् ॥
दुःखं महत्प्राप्य जलावमग्नं यस्मिन्महान्सौधवरो मयस्य || ७५ ॥
तद्देवेशो वचः श्रुत्वा
वज्रधरस्तदा ॥
शशाप तद्गृहं चापि मयस्यादितिनन्दनः ॥ ७६ ॥
७. सुरनदीवर्णनम्
(मत्स्य, ११६ )
[ Can there be anything more enchanting than this-the
Himalayan river scenery?
स ददर्श नदीं पुण्यां दिव्यां हैमवतीं शुभाम् ।।
गन्धर्वेश्च समाकीर्णां नित्यं शक्रेण सेविताम् ॥ १ ॥
सुरेभमदसंसिक्तां समन्तात्तु विराजिताम् ॥
मध्येन शऋचापाभ्यां तस्मिन्नहनि सर्वदा ॥ २ ॥
तपस्विशरणोपेतां महाब्राह्मणसेविताम् ॥
ददर्श तपनीयामां महाराजः पुरूरवाः ॥ ३ ॥
सितहंसावलिच्छन्नां काशचामरराजिताम् ||
साभिषिक्तामिव सतां पश्यन्प्रीति परां ययौ ॥ ४ ॥
पुष्यां सुशोतलां हृद्यां मनसः प्रीतिवर्धनीम् ॥
क्षयवृद्धियुतां रम्यां सोममूर्तिमिवापराम् ॥ ५ ॥
सुशीतशीघ्रपानीयां द्विजसङघनिषेविताम् ॥
सुतां हिमवतः श्रेष्ठां चञ्चद्वीचिविराजिताम् ॥ ६॥
अमृतस्वादुसलिलां तापसै रुपशोभिताम् ॥
स्वर्गारोहणनिःश्रेणीं सर्वकल्मषनाशिनीम् ॥ ७ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP