English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 140

Puran Kavya Stotra Sudha - Page 140

Puran Kavya Stotra Sudha - Page 140


काव्य यो गः -
- त्रिपुरदहनम्
प्रासादाग्रेषु रम्येषु वनेषूपवनेषु च ||
वातायनगताश्चान्याश्चाऽऽकाशस्य
रमर्णरुपगूढाश्च रमन्त्यो रमणैः सह ||
दह्यन्ते दानवेन्द्राणामग्निना ह्यपि ताः स्त्रियः ॥ ५९ ॥
काचित्प्रियं परित्यज्य अशक्ता गन्तुमन्यतः ॥
पुरः प्रियस्य पञ्चत्वं गताऽग्निवदने क्षयम् ॥ ६० ।।
उवाच शतपत्राक्षी सात्राक्षीव कृताञ्जलिः ||
हष्यवाहन भार्याऽहं परस्य परतापन ||
धर्मसाक्षी त्रिलोकस्य न मां स्प्रष्टुमिहार्हसि ॥ ६१ ॥
शायितं च मया देव शिवया च शिवप्रभ ॥
परेण प्रेहि मुक्त्वेदं गृहं च दयितं हि मे ॥ ६२ ॥
एका पुत्रमुपादाय बालकं दानवाऊंगना ॥
हुताशनसमीपस्था इत्युवाच हुताशनम् ॥ ६३ ॥
बालोऽयं दुःखलब्धश्च मग्रा पावक पुत्रकः ॥
नार्हस्तमुपादातु दयितं षण्मुखप्रिय ॥ ६४ ॥
काश्चित्प्रियान्परित्यज्य पोडिता दानवागनाः ॥
निपतन्त्यर्णवजले सिञ्जमानविभूषणाः || ६५ ।।
तात पुत्रेति मातेति मातुलेति च विह्वलम्
चक्रन्दुस्त्रिपुरे नार्यः पावकज्वालवेपिताः ॥ ६६ ॥
यथा दहति शैलाग्निः साम्बुजं जलजाकरम् ॥
तथा स्त्रीवक्त्रपद्यानि चादहत्रिपुरेश्नलः ॥ ६७ ॥
तुषारराशिः कमलाकराणां यथा दहत्यम्बुजकानि शीते ॥
तथैव सोऽग्निस्त्रिपुराङ्गनानां ददाह वक्त्रेक्षणपङ्कजानि ॥ ६८ ॥
शराग्निपातात्समभिद्रुतानां तत्राङ्गनानामतिकोमलानाम् ॥
बभूव काञ्चीगुणन पुराणामाऋन्दितानां च रवोऽतिमिश्रः ॥ ६९ ॥
दग्धार्धचन्द्राणि सवेदिकानि विशोर्षहर्म्याणि सतोरणानि ||
दग्धानि दग्धानि गृहाणि तत्र पतन्ति रक्षार्थमिवार्णवौघे ॥ ७० ॥
गृहँः पतद्भिर्ज्वलनावलीढैरासीत्समुद्रे सलिलं प्रतप्तम् ॥
कुपुत्रदोषः प्रहतानुविद्धं यथा कुलं याति धनान्वितस्य ॥ ७१ ॥
तलेषु च ।। ५८ ।।
१२५

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP