संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - शुक्रमध्ये अन्तरफलम्

मानसागरी - अध्याय ५ - शुक्रमध्ये अन्तरफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


स्वपाककाले भृगुनन्दनोऽपि हेमाम्बरं सौख्यं ददाति नित्यम् । वस्त्रादिप्राप्तिं च सुखागमं च धनं लभेत्पुत्रसमन्वितं च ॥१॥

राज्याभिमानं सुखसम्पदं च परोपकारी व्ययमाप्नुवन्ति । मित्रादितो व्यय व्यसनैः समेतं माङ्गल्यकार्य च सुखावहं च ॥२॥

कार्यनाशं गृहे सौख्यं भुञ्जन्ति प्रभवः सदा । विपाके सूर्यशुक्रे च मानवो लभते फलम् ॥३॥

ददाति वित्तं बहुसौख्ययुक्तं वस्त्राम्बरं रत्नसमुच्चयं च । सौख्यार्थलाभं स्वगृहे च सौख्यं यदा भवेच्छत्रुगतो हिमांशुः ॥४॥

भृगोर्विपाके धरणीसुतोऽपि कार्यार्थलाभं बह्नर्थयुक्तम् । महत्प्रतापं सुखसङ्गमं च ददाति प्राप्नोति भयं कुतश्च ॥५॥

ददाति मौक्तिकं चैव सुखसौभाग्यपुत्रदम् । कन्याजन्म गृहे सौख्यं भृगुमध्ये गते बुधे ॥६॥

सुखं करोति सौभाग्यं व्यवहारे महत्सुखम् । लाभं कार्यस्य सिद्धिः स्याच्छुक्रमध्ये गते गुरौ ॥७॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP