संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - बुधमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - बुधमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


प्राप्नोति सौम्यस्य दशाविपाके शुभे शुभानि प्रियमित्रसङ्गम ।

सुवर्णहेमाम्बरपूर्णलाभं विद्यार्थलाभं मनसः प्रमोदम ॥१॥

बुधमध्ये बुधफलम् ।

स्वदशान्तर्गते सौम्ये बुद्धिवृद्धिः समागमः ।

शरीरे युवतेः सौख्यं नानावित्तं सुखं यशः ॥२॥

बुधमध्ये शनिफलम् ।

मित्रार्कसाधकः सिद्धो गुणधर्मार्थसाधकः ।

सर्वकार्योद्यमी भास्वान् बुधस्यान्तर्गते शनौ ॥३॥

बुधमध्ये गुरुफलम् ।

रिपुरोगभयैस्त्यक्तो धर्मज्ञो नृपवल्लभः ।

हेमादिजनशोभाढ्यो बुधस्यान्तर्गते गुरौ ॥४॥

बुधमध्ये राहुफलम् ।

अकस्माद्वन्धुभेदो वाप्यकस्माद्वजतो नृपात् ।

भयं वा ह्यर्थनाशो वा राहौ सौम्यान्तरे सति ॥५॥

बुधमध्ये शुक्रफलम् ।

गुरुदेवद्विजार्चासु दानधर्मपरो भवेत् ।

वस्त्रालङ्कारत्नस्य लाभो ज्ञस्यान्तरे सित ॥६॥

बुधमध्ये रविफलम् ।

सुवर्णहयमाणिक्यं विजयं लभते सुखम् ।

राज्यं श्रियं बलं तेजो बुधस्यान्तर्गते रवौ ॥७॥

बुधमध्ये चन्द्रफलम् ।

आचारवान् बहुधनो गजाश्वादिसुखाप्तयः ।

बुधस्यान्तर्गते चन्द्रे पर्यङ्कच्छत्रसंपदः ॥८॥

बुधमध्ये भौमफलम् ।

शिरोगुदरुजापीडा वह्निचौरनृपाद्भयम् ।

बुधस्यान्तर्गते भौमे बन्धुपुत्रादिपीडनम् ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP