संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - राहुमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - राहुमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


धर्मव्ययः कामरतेर्विनाशः स्त्रीपुत्रमित्रादिविदेशयानम् ।

मतिभ्रमं स्यात्कलिकुष्ठरोगभयं भवेद्राहुदशागमे सति ॥१॥

राहुमध्ये राहुफलम् ।

भयं स्वान्तर्गते राहौ रोगार्तः पापपीडितः ।

स्त्रीपुत्रमित्रनाशो वा कलहो वा स्वबन्धुभिः ॥२॥

राहुमध्ये शुक्रफलम् ।

सौहार्द विप्रभूपाभ्यां सङ्गः स्त्रीवित्तसञ्चयः ।

कलहे विजयः ख्यातो राहोरन्तर्गते सिते ॥३॥

राहुमध्ये रविफलम् ।

रिपुरोगभयं घोरं द्रव्यनाशो महद्भयम् ।

अग्निचोरभयं चैव राहोरन्तर्गते रवौ ॥४॥

राहुमध्ये चन्द्रफलम् ।

रिपुर्व्याधिर्महाभीतिर्बन्धुवित्तविनाशनम् ।

कलहो बन्धुविद्वेषो राहोरन्तर्गते विधौ ॥५॥

राहुमध्ये भौमफलम् ।

विषशस्त्राग्निचौरेभ्यो महाभीतिः पुनः पुनः ।

राहोरन्तर्गते भौमे वित्तस्त्रीबन्धुनाशनम् ॥६॥

राहुमध्ये बुधफलम् ।

बन्धुमित्रकलत्रादिवित्तभृत्युसुखान्वितः ।

न कुत्रापि भयं तस्य राहोरन्तर्गते बुधे ॥७॥

राहुमध्ये शनिफलम् ।

वातपित्तभवा रोगाः कलहो बान्धवैः सह ।

देशत्यागो धनभ्रंशो राहोरन्तर्गते शनौ ॥८॥

राहुमध्ये गुरुफलम् ।

नीरोगैः स्वगणैर्युक्तो देवद्विजरतो भवेत् ।

राहोरन्तर्गते जीवे धर्मतीर्थरतो भवेत् ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP