संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - अथाष्टोत्तरीदशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - अथाष्टोत्तरीदशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तत्रादौ सूर्यदशाफलम् ।

रवेर्दशायामतितीक्ष्णभोज्यं प्राप्नोति मानोपचयं महान्तम् ।

धनानि चामीकरसंप्रशान्तं संजायते बन्धुसुखं शुभं च ॥१॥

सूर्यमध्ये सूर्यफलम् ।

बन्धूनां स्वान्तरे मानो बन्धूनां मरणं भवेत् ।

अत्यन्तरे चान्तरादौ सर्वमेव फलं वदेत् ॥२॥

सूर्यमध्ये चन्द्रफलम् ।

शत्रुनाशोऽर्थलाभश्च चिन्तानाशः सुखागमः ।

सूर्यस्यान्तर्गते चन्द्रे व्याधिनाशश्च जायते ॥३॥

सूर्यमध्ये भौमफलम् ।

प्रवालमुक्ताहेमादि धनं प्राप्नोति भूपतेः ।

रवेरन्तर्गते भौमे विभूतिः सुखमद्भुतम् ॥४॥

सूर्यमध्ये बुधफलम् ।

ग्रहवातव्याधिहानिर्द्रव्यनाशः कुलक्षयः ।

अविश्वासो भवेल्लोके रवेरन्तर्गते बुधे ॥५॥

सूर्यमध्ये शनिफलम् ।

महादुःखानि जायन्ते पुत्रमित्रविनाशनम् ।

रवेरन्तर्गते मन्दे शत्रुतश्च भयं भवेत् ॥६॥

सूर्यमध्ये गुरुफलम् ।

विपद्रोगविनाशश्च लक्ष्मीमेधासुखानि च ।

रवेरन्तर्गते जीवे शत्रुमङ्गलमुत्सवः ॥७॥

शोको भङ्गो महाभीतिर्विपत्तिरशुभं नृणाम् ।

रवेरन्तर्गते राहौ सर्वत्रामङ्गलक्रिया ॥८॥

रविमध्ये शुक्रफलम् ।

गात्रपीडा भयं त्रासो ज्वरातीसारशूलके ।

द्रव्यादिहानिं प्राप्नोति रवेरन्तर्गते सिते ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP