संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - गुरुमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - गुरुमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


गुरोर्दशायां लभतेऽतिसौख्यं गुणोदयं बुद्धयवबोधनाग्रम् ।

स्त्रीवित्तलाभं गतिकान्तिभोगान्महात्मचेष्टाफलमुत्तमायाम् ॥१॥

गुरुमध्ये गुरुफलम् ।

स्वदशान्तर्गते जीवे धर्मार्थ हयलब्धयः ।

लाभो हेमस्थावराणां राजपूजा गुणोदयम् ॥२॥

गुरुमध्ये राहुफलम् ।

अन्त्यजैः सह संप्रीतिर्वातपित्तभयावहम् ।

गुरोरन्तर्गते राहौ सर्वकार्यविनाशनम् ॥३॥

गुरुमध्ये शुक्रफलम् ।

रिपुभीतिर्वित्तनाशो बन्धनं कलहो गदः ।

स्त्रीवियोगमवाप्नोति जीवस्यान्तर्गते सिते ॥४॥

गुरुमध्ये रविफलम् ।

नृपतुल्यक्रियायुक्तो व्याधिरोगविवर्जितः ।

बहुस्त्रीसुखसन्तोषो गुरोरन्तर्गते रवौ ॥५॥

गुरुमध्ये चन्द्रफलम् ।

शत्रुहानिः सुखं पुण्यं शरीरे पुष्टिरुत्तमा ।

स्वजनैः स संवासो गुरोरन्तर्गते विधौ ॥६॥

गुरुमध्ये भौमफलम्

धनं कीर्तिः शत्रुहानिर्बन्धुकीर्तिः सुखान्वितः ।

नीरोगी सुभगः श्रीमान् गुरोरन्तर्गते कुजे ॥७॥

गुरुमध्ये बुधफलम् ।

सुखदुः खसमः श्रीमान् गुरुदेवाग्निपूजकः ।

गुरोरन्तर्गते सौम्ये शत्रुर्मित्रसमो भवेत् ॥८॥

गुरुमध्ये शनिफलम् ।

वारस्त्रीसङ्गमं दुःखं कुवृत्तिर्धर्मनाशनम् ।

कामलोबौ नीचसख्यं गुरोरन्तर्गते शनौ ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP