संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - राहुमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - राहुमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


बुद्धया विहीनमतिविभ्रमसर्वशून्यं

विश्वं भयातिविषमापदमृत्युतुल्यम् ।

व्याधिर्वियोगधनहानिविषानिवारं

राहोर्दशा भवति जीवितसंशयं च ॥१॥

राहुमध्ये राहुफलम् ।

स्वभ्रातृतातमरणं बन्धुनाशात्मकं रुजा ।

अर्थनाशो विदेशश्च गमनं गौरवाल्पता ॥२॥

राहुमध्ये गुरुफलम् ।

व्याधिदुःखपरित्यक्तो देवब्राह्मणपूजनम् ।

भवत्यर्थयुतश्चात्र राहोरन्तर्गते गुरौ ॥३॥

राहुमध्ये शनिफलम् ।

रक्तपित्तकृता पीडा कलहः स्वजनैः सह ।

देहभङ्गं कृतत्यागं राहोरन्तर्गते शनौ ॥४॥

राहुमध्ये बुधफलम् ।

सुत्दृद्वन्धुधनायोगं बुद्धिबोधधनागमः ।

किंचित्क्लेशमवप्नोति स्वर्भान्वन्तर्गते बुधे ॥५॥

राहुमध्ये केतुफलम् ।

ज्वराग्निरिपुशस्त्रं वा मृत्युः प्राप्नोति सर्वदा ।

राहोरन्तर्गते केतौ नास्त्यत्र संशयः क्वचित् ॥६॥

राहुमध्ये शुक्रफलम् ।

सुत्दृत्तापोऽजितेन्द्रियः स्त्रीलाभो वित्तसंशयः ।

कलहो बान्धवैः सार्द्ध राहोरन्तर्गते सिते ॥७॥

राहुमध्ये रविफलम् ।

शस्त्ररोगभयं घोरमर्थनाशं नृपाद्भयम् ।

अग्निचोरभयं चात्र दैत्यस्यान्तर्गते रवौ ॥८॥

राहुमध्ये चन्द्रफलम् ।

स्त्रीलाभं कलहं चैव वित्तनाशमनिर्वृतिः ।

बान्धवैः सह संक्लेशो राहोरन्तर्गतः शशी ॥९॥

राहुमध्ये भौमफलम् ।

रिपुशस्त्राग्निचोराणां भयमाप्नोति सर्वदा ।

स्वर्भान्वन्तर्गते भौमे निश्चितं नात्र संशयः ॥१०॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP