संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - शुक्रमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - शुक्रमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


शौर्य गीतिरतिप्रमोदविभवो द्रव्यान्नपानाम्बुदः

स्त्रीरन्तं मतिमन्महोपकरणैरर्थाश्च नानाविधाः ।

स्वाध्यायौषधमन्त्रशिल्पकरणैरर्थस्य सिद्धिर्भवेत्

सौख्यं चक्षुविकारभोजनरुचिः ख्यातिः प्रतापोन्नतिः ॥१॥

शुक्रमध्ये शुक्रफलम् ।

लाभः स्वान्तरगे शुक्रे स्त्रीसङ्गो धर्मजं सुखम् ।

अभिलाषार्थयुक्तश्च कीर्तिकौशल्ययुग्भवेत् ॥२॥

शुक्रमध्ये रविफलम् ।

नेत्रगण्डभवै रोगैः पीड्यते नृपबान्धवैः ।

उत्पातश्च महद्दुःखं शुक्रस्यान्तर्गते रवौ ॥३॥

शुक्रमध्ये चन्द्रफलम् ।

उद्वेगोऽकुशलं हानिरश्वादीनां धनक्षयः ।

बहुक्लेशं मनोदुःखं शुक्रस्यान्तर्गते विधौ ॥४॥

शुक्रमध्ये भौमफलम् ।

नखोदरशिरोव्याधिः कलहो बन्धुसंक्षयः ।

दौर्बल्यं च शरीरस्य कुजे शुक्रदशां गते ॥५॥

शुक्रमध्ये बुधफलम् ।

धनं धान्यं सुखं लाभो मानो धर्मो यशः सुखम् ।

महाजनेन सौहार्द शुक्रस्यान्तर्गते बुधे ॥६॥

शुक्रमध्ये शनिफलम् ।

वृद्धस्त्रीगमनं पीडा पुत्रनाशो विपत्पदम् ।

शत्रुनाशः सुत्दृत्प्राप्तिः सौरे शुक्रदशां गते ॥७॥

शुक्रमध्ये गुरुफलम् ।

धनधान्यसमृद्धिश्च धर्मशीलसुखानि च ।

स्त्रीसुखं कीर्तिमाप्नोति गुरौ शुक्रदशां गते ॥८॥

विदेशगमनं बन्धुद्वेषः सङ्गमशुद्धयः ।

स्ववंशनाशमाप्नोति राहौ शुक्रदशां गते ॥९॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP