संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - केतुमहादशान्तर्दशाफलम्

मानसागरी - अध्याय ५ - केतुमहादशान्तर्दशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


विषादकर्त्री धनधान्यहर्त्री सर्वापदामूलमनर्थदात्री ।

भयङ्करी रोगविपद्विधात्री केतोर्दशा स्यात्किल जीवहंत्री ॥१॥

केतुमध्ये केतुफलम् ।

केतौ कन्यापुत्रनाशधनरोगाग्निविग्रहाः ।

भयं राज्यकुलाहुष्टस्त्रीभिः सह कलिर्भवेत् ॥२॥

केतुमध्ये शुक्रफलम् ।

केतोरन्तर्गते शुक्रे प्रियया च कलिर्भवेत् ।

अग्निदाहं ज्वरं तीव्रं स्त्रीत्यागं कन्यकाजनिः ॥३॥

केतुमध्ये रविफलम् ।

केतोरन्तर्गते सूर्ये राजभङ्गोऽरिविग्रहः ।

अग्निदाहो ज्वरस्तीव्रो विदेशगमनं भवेत् ॥४॥

केतुमध्ये चन्द्रफलम् ।

अर्थलाभोऽर्थहानिश्च सुखं दुःखं तथैव च ।

स्त्रीलाभो धनहानिश्च केतोरन्तर्गतः शशी ॥५॥

केतुमध्ये भौमफलम् ।

गोत्रजैः सह संवादश्चोराणां च भयं तथा ।

शरीरपीडां प्राप्नोति केतोरन्तर्गते कुजे ॥६॥

केतुमध्ये राहुफलम् ।

चोरैश्च शत्रुभिर्वापि देहभङ्ग प्रजायते ।

दुर्जनैः सह संवादो राहुः केतोर्यदानुगः ॥७॥

केतुमध्ये गुरुफलम् ।

दुर्जनैः सह संयोगो राजमान्यः सहाथवा ।

भूलाभो जन्म पुत्रस्य केतोरन्तर्गते गुरौ ॥८॥

केतुमध्ये शनिफलम् ।

वातपित्तभवा पीडा स्वजनैः सह विग्रहः ।

विदेशगमनं चापि केतोरन्तर्गते शनौ ॥९॥

केतुमध्ये बुधफलम् ।

सुत्दृद्वन्धुसमायोगो बुद्धिबोधं धनागमम् ।

न किंचित्क्लेशमाप्नोति केतोरन्तर्गते बुधे ॥१०॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP