संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - स्त्रूयमहादशाफलम्

मानसागरी - अध्याय ५ - स्त्रूयमहादशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


उद्विग्नचित्तपरिखेदितवित्तनाशं क्लेशप्रवासगदपीडमहाभिघातम् ।

संक्षोभितःस्वजनबन्धुवियोगमेतिसूर्यादशा भवति राजकुलाभिघातः ॥१॥

सूर्यमध्ये सूर्यान्तर्दशा ।

सूर्ये राजकुलाल्लाभः पीडा स्यात्पित्तसंभवा ।

विपत्तथा बान्धवानां व्ययमेव हि सर्वतः ॥२॥

सूर्यमध्ये सोमान्तर्दशा ।

शत्रुसन्ध्यादिगमनं वित्तलाभं सुखावहम् ।

भवेदन्तर्दशायां हि सूर्यस्यैव यदा शशी ॥३॥

सूर्यमध्ये भौमान्तर्दशा ।

नृपाल्लाभः सुवर्णानि मणिरत्नप्रवालकम् ।

प्राप्यते यानमानं तु सूर्यस्यान्तर्दशां कुजे ॥४॥

सूर्यमध्ये राह्नन्तर्दशा

शङ्का मानं व्याधिकोपं वित्तनाशं जनक्षयम् ।

सर्वमत्राशुभं विद्यात्सूर्यस्यान्तर्गतस्तमः ॥५॥

सूर्यमध्ये गुरोरन्तर्दशा ।

गतव्याधिशरीरश्च अलक्ष्म्या त्यज्यते नरः ।

प्राप्नोति धर्मपदवीं भानोरन्तर्गते गुरौ ॥६॥

सूर्यमध्ये शनेरंतर्दशा ।

राज्यभङ्गः शक्तिहानिः सुत्दृद्वन्धुविवर्जितः ।

जायते तत्र वैकल्यं सूर्यस्यान्तर्गते शनौ ॥७॥

सूर्यमध्ये बुधान्तर्दशा ।

क्लेशः कष्टं च दारिद्यं पामाविचर्किकादिभिः ।

शरद्धान्यस्य निक्षिप्तं सूर्यस्यान्तर्गते बुधे ॥८॥

सूर्यमध्ये केत्वन्तर्दशा ।

देशत्यागं बन्धुनाशमर्थनाशं धनक्षयम् ।

केतावन्तर्गते सूर्ये सर्व चैवाशुभं भवेत् ॥९॥

सूर्यमध्ये शुक्रान्तर्दशा ।

शिरोरोगप्रबलेभ्यो ज्वरातीसारशूलयोः ।

शरीरे क्लेशमाप्नोति सूर्यस्यान्तर्गते भृगौ ॥१०॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP