संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|पञ्चमोऽध्यायः|
अध्याय ५ - जीवमध्ये जीवादिपाचकदशाफलम्

मानसागरी - अध्याय ५ - जीवमध्ये जीवादिपाचकदशाफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


पापैश्च रोगैश्च भवेद्विमुक्तो धर्मो जयं प्राप्य समस्तकाले । जीवः स्वपाके फलमातनोति धनागमं मित्रकलत्रपुत्रैः ॥१॥

कार्यार्थनाशं च महाविरोधं विशेषमाप्नोति नरोऽतिसौख्यम् । श्रृङ्गारकोशस्य नरैश्च सौख्यं यदा भवेज्जीवगतो भृगुश्च ॥२॥

शनैश्चर पाकगतेऽथ जीवे दानं करोत्येव हि सर्वसौख्यम् । द्रव्यापहारं व्यसनादियुक्तं ज्वराविधातं व्यसने च सक्तिम् ॥३॥

सन्ध्या गुरोः पाकरविः स्वकाले धनागमं मित्रकलत्रकं च । चिरं वसेद्देशविदेशलाभं महत् प्रतापं विजयं च सौख्यम् ॥४॥

तीर्थागमे भवेत्सौख्यं पुत्रमित्रसमागमम् । धनलाभो भवेश्चैव गुरुपाके शशी यदा ॥५॥

अग्निचोरभयं नास्ति धनप्राप्तिः पदेपदे । राजमानं गृहे सौख्यं जीवमध्ये कुजे गतिः ॥६॥

जीवान्तरगते सौम्ये पुत्रधान्यं गृहे सुखम् । मांगल्यं च भवेन्नित्यं वस्त्रपातं सुखं भवेत् ॥७॥

N/A

References : N/A
Last Updated : April 03, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP